Book Title: Haim Prakash Maha Vyakaranam Purvarddham
Author(s): Kshamavijay
Publisher: Hiralal Somchand Kot Mumbai

View full book text
Previous | Next

Page 497
________________ ४१० महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलधु__ अन विशेषः "सतीर्यः" (६।४।७८) निपातोऽयम् , समाने तीर्थे वसति सतीर्थ्यः । तीर्थमिह गुरुरुच्यते ॥ "प्रस्तारसंस्थानतदन्तकठिनान्तेभ्यो व्यवहरति” ( ६।४।७९) । प्रस्तारसंस्थान इत्येताभ्यां एतदन्ताभ्यां कठिनान्ताच व्यवहरत्यर्थे इकण् स्यात् । व्यवहरतिरिह क्रियातत्त्वे क्रियाया अविपरीतस्वभावे-यथा लौकिको व्यवहार इति । प्रस्तारे व्यवहरति प्रास्तारिकः, सांस्थानिकः । ५ तदन्त. कांस्यप्रस्तारिका, लौहप्रस्तारिका, गौसंस्थानिकः, आश्वसंस्थानिकः । कठिनान्त. वांशकठिनिकः' वार्द्रकठिनिकः । कठिनं तापसभाजनं पीठं वा । बहुवचनं कठिनान्तेति स्वरूपाहणव्युदासार्थ रूढ्यर्थं च (रूढिश्च तापसभाजनेत्यादि तेन कठिने कठोरे न) । प्रस्तारसंस्थानतदन्तेभ्यो नेच्छन्त्यन्ये ॥ "सयादेचाहंदलुचः" (६।४।८०)। आ अहंदर्यादित ऊर्ध्वं या प्रकृतिरुपादास्यते तस्याः केवलायास्तदन्तायाश्च सख्यापूर्वाया वक्ष्यमाणः प्रत्ययः स्यादिति ज्ञेयम् । न चेत्सा लुगन्ता स्यात् । १० चन्द्रायणं चरति चान्द्रायणिकः । द्वे चन्द्रायणे चरति द्वैचन्द्रायणिकः । सङ्ख्यादेरिति किम् ? परमपारा यणमधीते । (चकारः केवलार्थः) । आईदित्यत्राकारोऽभिविधौ, तेनाईदर्थेऽपि भवति-द्वे सहस्रे द्विसहस्रं वाईति द्विसाहस्रः। अलुच इति किम् ? द्वाभ्यां शूर्पाभ्यां क्रीतं द्विशूर्पम् अत्र “शूर्पाद्वा” (६।४।१३७) इत्यम् "अनाम्यद्विाप्लुप्" (६।४।१४१) इति लुप् । द्विशूर्पण क्रीतं द्विशौपिकं । पुनरपि शूर्पाद्वानित्यम् न भवति ॥ "गोदानादीनां ब्रह्मचर्ये" (६।४।८१) । एभ्यः षष्ठ्यन्तेभ्यो ब्रह्मचर्ये १५इकण स्यात् । गोदानस्य ब्रह्मचर्य गौदानिकम् (आदित्यवतानामादित्यवतिकम् । महानानीनां माहा नाग्निकम् ) । येभ्योऽस्मिन्नर्थे इकण् दृश्यते, ते गोदानादयः प्रयोगगम्याः॥"चन्द्रायणं च चरति" (६।४।८२) चन्द्रायणशब्दाहितीयान्ताद्गोदानादिभ्यश्च द्वितीयान्तेभ्यश्चरतीत्यर्थे इकण् स्यात् । चन्द्रायणं चरति चान्द्रायणिकः । गौदानिकः । महानाम्यो ऋचस्तत्साहचर्यात्तासां ब्रतमपि महानाभ्यः, महानाम्नीव्रतं चरति माहानाग्निकः ।। "देवव्रतादीन् डिन्” (६।४।८३) । एभ्यो (निर्देशादेव ) द्विती२० यान्तेभ्यश्चरत्यर्थे डिन् स्यात् । देवव्रतं चरति देवव्रती । महाव्रती । एते प्रयोगगम्याः । डिस्करणं उत्तरत्र सफलम्॥"डकश्चाष्टाचत्वारिंशतं वर्षाणाम्" (६।४।८४)। वर्षसंबन्धिनोऽष्टाचत्वारिंशच्छब्दागतवृत्तेर्द्वितीयान्ताच्चरतीत्यर्थे डकडिनौ स्याताम् । अष्टाचत्वारिंशद्वर्षसहितं व्रतमष्टचत्वारिंशत् , तञ्चरति अष्टाचत्वारिंशकः । अष्टचत्वारिंशी । “चातुर्मास्यं तौ य लुक् च” (६।४।८५) अस्माद्तवृत्तेद्वितीयान्ताच्चरत्यर्थे डकडिनौ स्यातां, यलोपश्च स्यात् । चतुर्यु मासेषु भवानि “यज्ञे व्यः" (६।३।१३४) २५ इति व्ये चातुर्मास्यानि नाम यज्ञाः, तत्सहचरितानि व्रतानि चरति चातुर्मासकः चातुर्मासी ॥ क्रोश योजनपूर्वाच्छतायोजनाचाऽभिगमाहे" (६।४।८६) क्रोशपूर्वाद्योजनपूर्वाच्च शतायोजनाच्च (निर्देशादेव) पञ्चम्यन्तादभिगमाहेऽर्थे इकण् स्यात् । क्रोशशतादभिगमनमर्हति क्रौशशतिको मुनिः । एवं यौजनशतिकः यौजनिकः । "तद्यात्येभ्यः” (६।४।८७) । द्वितीयान्तेभ्य एभ्यो यातीत्यर्थे इकण् । क्रोशशतं याति क्रौशशतिको दूतः । एवं यौजनशतिकः यौजनिकः । पथिक इति-"पथ इकट्" ३० (६।४।८८) अस्माहितीयान्ताद्यातीत्यर्थे इकट् स्यात् । पन्थानं याति पथिकः, पथिकी । द्वौ पन्थानौ याति द्विपथिकः । कटमकृत्वा इकट्वचनं परत्वात्समासान्ते कृतेऽपि यथा स्यादित्येवमर्थम् ।। पान्थ इति "नित्यं णः पन्थश्च" (६।४।८९) नित्यमिति प्रत्ययार्थविशेषणम् । अस्माहितीयान्तान्नित्यं यातीत्यर्थे ३३ णः स्यात् , पन्थादेशश्चास्य । नित्यं पन्थानं याति पान्थः, पान्था स्त्री। द्वौ पन्थानौ याति द्वैपन्थः, द्वैपन्था॥ १व्यवहरतिरयमस्ति विनिमये-यथा शतं व्यवहरति शतस्य व्यवहरति इति । अस्ति विवादे यथा व्यवहारे पराजित इति । अस्ति विक्षेपे यथा शलाका व्यवहरति । अस्ति क्रियातत्त्वे-यथा लौकिको व्यवहार इति । भत्र क्रियातत्त्वरूपस्यार्थस्य प्रहणं प्रत्ययान्तादविपरीतस्वरूपक्रियानुष्ठातुः प्रतिपत्त्यर्थम् । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560