Book Title: Haim Prakash Maha Vyakaranam Purvarddham
Author(s): Kshamavijay
Publisher: Hiralal Somchand Kot Mumbai

View full book text
Previous | Next

Page 495
________________ महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुअत्रादिशब्दात् "निर्वृत्तेक्षतादे" (६।४।२०) । तृतीयान्तेभ्य एभ्यो निर्वृत्ते इकण् स्यात् । अक्षयूतेन निर्वृत्तमाक्षयूतिकं वैरम् । जावाप्रहतिकम् । अक्षयूत, जङ्घााहत, जङ्घापहृत, जवाप्रहार, पादखेद, पादस्खेदन, कण्टकमर्द, कण्टकमईन, शर्करामईन, गत, आगत, गतागत, यात, उपयात, यातोपयात, गतानुगत, अनुगत, इत्यक्षद्यूतादयः सप्तदश ॥ “याचितापमित्यात्कण्" ५(६।४।२२)। आभ्यां निर्वृत्ते कण स्यात् । याचितेन याञ्चया निवृत्तं याचितकम् । अपमित्येति यबन्तम् , अपमित्य प्रतिदानेन निवृत्तमापमित्यकम् ॥ "हरत्युत्सङ्गादेः" (६।४।२३) । तृतीयान्तेभ्य एभ्यो हरत्यर्थे इकण् स्यात् । उत्सङ्गेन हरति औत्सङ्गिकः । उत्सङ्ग उत्तुप, (उत्रुप,?) (उड्डुप, ?) उडुप, उत्पुत, उत्पुट, पिटक, पिटाक, इत्युत्सङ्गादयोऽष्टौ । “भस्त्रादेरिकट्" (६।४।२४) । एभ्यस्तृतीयान्तेभ्यो हरत्यर्थे इकट् स्यात् । भस्त्रिकः, भस्त्रिकी । भखा, भरट, भरण, शीर्षभार, शीर्षेभार, अङ्गभार, १० अङ्गेभार, अंसभार, अंसेभार, इति भनादयो नव । “विवधवीवधाद्धा" (६।४।२५) । इकट, हरत्यर्थे । विवधेन वीवधेन वा हरति विवधिकः विवधिकी, वीवधिकः वीवधिकी । पक्षे इकण-वैवधिकः । विवधवीवधशब्दौ समानार्थों पथि पर्याहारे च वर्तते ॥ "कुटिलिकाया अण" (६।४। २६) । अस्मात्तृतीयान्तात् हरत्यर्थेऽण् स्यात् । कुटिलिकाशब्देनावका लोहादिमयी अङ्गारकर्षणी यष्टिर्वा कुटिला गतिर्वा पलालोत्क्षेपणोऽवक्रो दण्डो वा परिव्राजकोपकरणविशेषो वा चौराणां नौगृ१५ हाद्यारोहणार्थं दामाप्रबद्ध आयसोऽर्द्धाकुशो वोच्यते । कुटिलिकया हरत्यङ्गारान् कौटिलिकः कारः । तया हरति व्याधं कौटिलिको मृगः । तया हरति पलालं कौटिलिकः कर्षकः । तया हरति पुष्पाणि कौटिलिकः परिव्राजकः । तया हरति नावं कौटिलिकश्चौरः ॥ "ओजःसहोम्भसो वर्तते" (६।४।२७)। एभ्यस्तृतीयान्तेभ्यो वर्त्तते इत्यर्थे इकण् स्यात् । वृत्तिरात्मयापना चेष्टा वा । ओजसा बलेन वर्त्तते औजसिकः । सहसा प्रहसनेन पराभिभवेन वा साहसिकः । अम्भसा जलेन आम्भ२० सिकः ॥ "तं प्रत्यनोर्लोमेपकूलात्” (६।४।२८)। (तेनेति निवृत्तम् ) प्रत्यनुभ्यां परो यो लोमशब्द ईपशब्दः कूलशब्दश्च तदन्ताहितीयान्ताद्वर्त्तते इत्यर्थे इकण् स्यात् । प्रतिलोमं अनुलोमं, प्रतीपं अन्वीप, प्रतिकूलं अनुकूलं, वर्त्तते इति प्रातिलोमिकः आनुलोमिकः, प्रातीपिकः आन्वीपिकः, प्रातिकूलिकः आनुकूलिकः । अकर्मकस्यापि वृत्तेोगे प्रतिलोमादेः क्रियाविशेषणत्वाद्वितीयान्तत्वम् ।। "परेर्मुखपार्धात्' (६।४।२९) परिपूर्वो यो मुखशब्दः पार्श्वशब्दश्च तदन्तात् क्रियाविशेषणात् २५वर्त्तते इत्यर्थे इकण् स्यात् । परिवर्जने सर्वतोभावे वा । स्वामिनो मुखं वर्जयित्वा वर्तमानोऽथवा यतो यतः स्वामिमुखं ततस्ततो वर्तमानः पारिमुखिकः सेवकः । एवं पारिपार्श्विकः ॥ "रक्षदुञ्छतोः" (६।४।३०)। द्वितीयान्तादनयोरर्थयोरिकण् स्यात् । समाज रक्षति सामाजिकः । सामवायिकः, नागरिकः । बदराण्युञ्छति उच्चिनोति बादरिकः ॥ दौवारिक इति-"तत्र नियुक्ते" (६।४। ७४) । सप्तम्यन्तानियुक्तेऽर्थे इकण् स्यात् , नियुक्तोऽधिकृतो व्यापारित इत्यर्थः । प्रागुक्तस्य नियुक्त३० मित्यस्य क्रियाविशेषणरूपस्याध्यभिचारो नित्यमिति चार्थः, प्रकृत्यर्थविशेषणं चायं प्रत्ययार्थश्वायं नियुक्तः इति । शुल्कशालायां नियुक्तः शौल्कशालिकः । आपणिकः । आतरिकः । आक्षपाटलिक इति ॥ ७१ ॥ द्वारादेः ॥ ७२ ॥ [सि०७४।६] एषां खोः प्रागैदौतौ स्याताम् । द्वारे नियुक्तो दौवारिकः । निकटे वसति नैकटिकः । समाने तीर्थे वसति सतीर्थ्यः । पन्थानं याति पथिकः पान्थः । अहा निर्धत्तमाद्विक३५मित्यादि ॥७२॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560