Book Title: Haim Prakash Maha Vyakaranam Purvarddham
Author(s): Kshamavijay
Publisher: Hiralal Somchand Kot Mumbai

View full book text
Previous | Next

Page 493
________________ ४०६ महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपशहैमलघुहरिनुपर्णी, गुग्गुल, गुग्गुल, नलद, इति किशरादयो गन्धद्रव्यविशेषवचनाः ॥ "शलालुनो वा" (६।४।५६) । अस्माद्गन्धविशेषवाचिन इकट् वा । शलालु पण्यमस्य शलालुकः, शलालुकी । पक्षे इकण्-शालालुकी ॥ नार्तिक इति-"शिल्पम्" (६।४।५७)। तदस्येति वर्तते । प्रथमान्तात् षष्ठ्यर्थे इकण स्यात्, प्रथमान्तं चेच्छिल्पं स्यात् । एवं गीतं गैतिकः, वादनं वादनिकः । मृदङ्गो मृदङ्ग५वादनं शिल्पमस्य मार्दङ्गिकः । एवं पाणविकः, मौरजिकः, वैणिकः । मृदङ्गादिशब्दा वादनार्थवृत्तयः प्रत्ययमुत्पादयन्ति ने द्रव्यवृत्तयः । उत्पादनार्थवृत्तिभ्यस्त्वनभिधानान्न भवति, अत एव कुम्भकारादावभिधेये मुंदङ्गकरणादिभ्य एव प्रत्ययः । मृदङ्गकरणं शिल्पमस्य मार्दङ्गकरणिकः, वैणाकरणिकः । मृदङ्गवादनादिभ्योऽप्यनभिधानान्न भवति । शिल्पार्थो वृत्तावन्तर्भूत इति शिल्पशब्दस्याप्रयोगः ।। "मड्डुकझर्झराद्वाऽ" (६।४।५८)। मड्डुकवादनं शिल्पमस्य माड्डुकः । झाझरः । पक्षे १० इकण् माडुकिकः, झाझरिकः ॥ "शीलम्" (६।४।५९)। प्रथमान्तात्षष्ट्यर्थे इकण् स्यात् , प्रथ. मान्तं चेच्छीलं स्यात् । अपूपा अपूपभक्षणं शीलमस्य आपूपिकः । ताम्बूलिकः । परुषवचनं शीलमस्य पारुषिकः । एवमाक्रोशिकः ॥ मृदङ्गादिवदपूपादयः शब्दाः क्रियावृत्तयः प्रत्ययमुत्पादयन्ति । शीलार्थो वृत्तावन्तर्भूत इति शीलशब्दस्याप्रयोगः ॥ “अस्थाच्छनादेरम्" (६।४।६०) अप्रत्ययान्तात्तिष्ठतेश्छत्रादिभ्यश्च तस्य शीलमित्यर्थेऽञ् स्यात् । आस्था शीलमस्य आस्थः । सांस्थः, आवस्था, १५सामास्थः, वैयवस्था, नैष्ठः, वैष्ठः; "उपसर्गादातः” (५।३।११०) इत्यङ् । आन्तस्थः भिदादित्वा दङ् । छत्रादि. छत्रं शीलमस्य छात्रः । छत्रशब्देन गुरुकार्येष्ववहितस्य शिष्यस्य छत्रक्रियातुल्या गुरुच्छिद्राच्छादनाऽपायरक्षणादिका क्रियोच्यते । उपचारात् शिष्यो हि छत्रवद्रुछिद्रावरणादिप्रवृत्तश्छात्र इत्युच्यते । अभ्यासापेक्षाऽपि क्रिया शीलमित्युच्यते, यथा शीलिता विद्या इति । चुराशीलः चौरः । तपःशीलस्तापसः । कर्मशीलः कार्मः । स्त्रियाम्-छात्री चौरी तापसी ॥ छत्र, चुरा, तपस्, कर्मन् , २० शिक्षा, चुंक्षा, चिक्षा, भक्षा, भिक्षा, तितिक्षा, १० बुभुक्षा, विश्वधा, उदस्थान, उपस्थान, पुरोडा, कृषि, मन्द्र, सत्य, अनृत, विशिख, २० विशिखा, प्ररोह, २२ इति छत्रादयो द्वाविंशतिः २२ । "तूष्णीका” (६।४।६१) । निपातोऽयम् । तूष्णींभावः शीलमस्य तूष्णीक:-कःप्रत्ययो मकारलोपश्च निपातनात् ॥ असिक इति-"प्रहरणम्" (६।४।६२)। प्रथमान्तात्षष्ठ्यर्थे इकण् स्यात् , प्रथमान्तं चेत्प्रहरणं स्यात् । एवं प्रासिकः, चाक्रिकः, मौष्टिकः, धानुष्कः, मौद्गरिकः, मौसलिकः । २५ "चरती"त्यत्र व्यापारसाधनात्प्रत्ययो यथाश्वेन चरति । शिल्पमित्यत्र तु विज्ञानातिशये यथा नृत्तं शिल्पमस्येति । अनेन तु व्यापाराभावेऽपि परिज्ञानमात्रे प्रत्ययः ॥ अत्रायं विशेष:-"परश्वधाद्वाऽ" (६।४।६३)। परश्वधः प्रहरणमस्य पारश्वधः, पक्षे इकण्२८पारश्वधिकः ॥ "शक्तियष्टेष्टीकण्" (६४।६४) । शक्तिः प्रहरणमस्य शाक्तीकः, शाक्तीकी । दिशब्दात व्याकरण केचिद्रामेषु मुन्नछत्रादिश्च तस्मातस्य तु न खमा १ आदिशब्दात् व्याकरणकरणादि शिल्पमस्येति वैयाकरणिकादयः। २ द्रव्यस्य शिल्पायोगात्तद्विषयायाः क्रियायाः शिल्पलमिति वादनार्थवृत्तय इत्युक्तम् । ३ केषुचिद्रामेषु मृन्मया मदङ्गा भवन्ति, तेषु कुम्भकारादुत्पत्तिः । ४ न तु मृदशादिशब्दादित्यर्थः। ५ अङ्चासौ स्थाश्च । छत्रम् आदिर्यस्य, अस्थाश्च छत्रादिश्च तस्मात् । अन्तर्मध्ये स्थान भिदायकि 'व्यत्यये लुग्वा' इति रलोपः । अन्तस्थान वा अन्तस्था शीलमस्य । ६ शीलं हि प्राणिनां खभावः, छात्रस्य तु न स्वभाव इत्याशङ्कयोक्तम् । चक्षिः सौत्रो निर्मलीकरणे चुक्षा शोचम् । ८ चिक्षेति-केचित् शिक्षीत्यस्य स्थाने चिक्षीति पठन्ति । धावन्तरं चिक्षिः। चिक्षा शिक्षेत्यर्थः। ९ व्यापाश्चरणरूपः साध्यते येन तस्मात् , अयमर्थः-चरत्यर्थे व्यापारं साधयन्नेव शब्दः प्रत्ययमुत्पायति। १. प्रहरणस्य हि व्यापारः परप्रहरणरूपः, तस्याभावेऽपि प्रहरणाभावेऽपीत्यर्थः । विज्ञानातिशयश्च प्रहारवैचक्षण्यं भावेऽपि तन्मात्रेऽपीत्यर्थः। ११ ननु टिकणिति मात्रालघुः प्रत्ययो विधीयताम् , एवमपि कृते शाकीकादयः सेत्स्यन्ति । नवाचाम 'अवर्णवर्णस्य-इत्यस्य प्रसङ्गः, यतष्टकारी हि व्यर्थः । स तु इकणद्वारा सिद्धः इत्यधिकस्य टकारस्यैतदेव फलं Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560