Book Title: Haim Prakash Maha Vyakaranam Purvarddham
Author(s): Kshamavijay
Publisher: Hiralal Somchand Kot Mumbai

View full book text
Previous | Next

Page 492
________________ प्रक्रियावृत्तिरूपे श्रीहेमप्रकाशे तद्धिताः । यथाखं प्रसिद्धाद्यर्थाः ४०५ उच्यते । ललाटं पश्यति लालाटिकः-ललाटदर्शनेन दूरावस्थानं लक्ष्यते तेन च कार्येष्वमुपस्थानम् । यः सेवको दृष्टं स्वामिनो ललाटमिति दूरतो याति नतु कार्ये उपतिष्ठते स एवमुच्यते । ललाटमेव वा कोपप्रसादलक्षणाय यः पश्यति स एवमिति । कुकुटीशब्देन कुकुटीपातो लक्ष्यते, तेन च देशस्याल्पता । यो हि भिक्षुरविक्षिप्तदृष्टिः पादविक्षेपदेशे चक्षुः संयम्य पुरो युगमात्रदेशप्रेक्षी गच्छति स एवमुच्यते । यो वा तथाविधमात्मानमतथाविधोऽपि संदर्शयति सोऽपि कौकुटिकः । दाम्भिकचेष्टा वा मिथ्या५ शौचादिः कुकुटी, तामाचरन् कौकुटिकः । हृदयावयवो वा कुकुटी तां पश्यति कौकुटिको भिक्षुः, निभृत इत्यर्थः । तदेतत्सर्व निपातनाल्लभ्यते ॥ सैनिक इति-"समूहात्समवेते” (६।४।४६) द्वितीयान्तेभ्यः समूहवाचिभ्यः समवेते तादात्म्यात्तदेकदेशीभूतेऽर्थे इकण् स्यात् । समूह समवैति सामूहिकः । सामाजिकः, सांसदिकः, सामवायिक; गौष्ठिकः । तदेकदेशीभावमनुभवन्नेवमुच्यते । समवेत्यापगते तु समवेतशब्दो न वर्त्तते यथा सुप्तोत्थिते सुप्तशब्द इति तत्र न भवति ॥ “पर्षदो ण्यः"१० ( ६।४।४७) । समवेते । पर्षदं समवैति पार्षद्यः । परिषच्छब्दादपीच्छन्त्यन्ये ॥ "सेनाया वा" (६।४।४८) सेनाशब्दाद्वितीयान्तात्समवेतेऽर्थे ण्यः स्यात् । सेनां समवैति सैन्यः-पक्षे "समूहार्थात्समवेते” इतीकण सैनिकः । सेनैव सैन्यमिति भेषजादित्वात्स्वार्थे ट्यण् । धार्मिक-इति "धर्माधर्माचरति" (६।४।४९)। आभ्यां द्वितीयान्ताभ्यां चरत्यर्थे इकण् स्यात् । चरतिस्तात्पर्येणानुष्ठाने । धर्म चरति धार्मिकः । आधर्मिकः ॥ आदिशब्दात् “षष्टया धय(६।४।५०) । षष्ठ्यन्ताद्धम्र्येऽर्थे इकण् स्यात् । धर्मो न्यायोऽनुवृत्त आचारस्तस्मादनपेतं धर्म्यम् । शुल्कशालाया धयं शोल्कशालिकम् । आपणिकम् , गौल्मिकम् , आतरिकम् । "शनरादेरण" (६।४।५१) । ऋकारान्तेभ्यो नरादिभ्यश्च षष्ठयन्तेभ्यो धर्थेऽर्थे अण् स्यात् । नुर्धर्म्य नारम् । स्त्रियां नारी । मातुर्मात्रम् । पितुः पैत्रम् । शास्तुः शास्त्रम् । विकर्तुर्वैकत्रम् । होतुर्होत्रम् । पोतुः पौत्रम् । उद्गातुः औद्गात्रम् । नरादि. नरस्य धयं नारम् , स्त्रियां नारी । २० नृशब्देनैव रूपद्वये सिद्धे नरशब्दादिकण माभूदिति तद्ब्रहणम् । महिण्या माहिषम् । नर, महिषी, प्रजावती, प्रजापति, विलेपिका, प्रलेपिका, अनुलेपिका, वर्णक, पेषिका, (वर्णकपेषिका ।) मणिपाली, पुरोहित, अनुचारक, अनुवाक, यजमान, होत्यजमान, १५ इति नरादयः पञ्चदश । “विभाजयित विशसितुण्ड्लु क च" (६।४।५२) आभ्यां षष्ठ्यन्ताभ्यां धर्थेऽर्थे अण् स्यात् , तत्संनियोगे च विभाजयितुर्णिलुक्, विशासितुश्चेड् लुक् स्यात् । विभाजयितुर्धर्म्य वैभाजित्रम् , विश-२५ सितुर्वैशस्त्रम् ॥ "अवक्रये" (६।४।५३ ) येनेच्छानियमितेन द्रव्येण कियन्तमपि कालमापणाद्यवक्रीयते सोऽवक्रयो (भोगनिवेशो) भाटकमिति । षष्ठयन्तादवक्रयेऽर्थे इकण् स्यात् । आपणस्यावक्रयः आपणिकः । आतरिकः । लोकपीडया धर्मातिक्रमेणाप्यवक्रयो भवतीत्ययं धाद्भिद्यते ॥ आपूपिक इति-"तदस्य पण्यम्" (६।४।५४) तदिति प्रथमान्तादस्येति षष्ट्यर्थे इकण् स्यात् , प्रथमान्तं चेत्पण्यं विक्रेयं भवति । पण्यार्थो वृत्तावन्तर्भूत इति पण्यशब्दस्याप्रयोगः । एवं मौदकिकः, शाष्कु-३० लिकः लावणिकः ॥ "किशरादेरिक" (६।४।५५) । एभ्यस्तदस्य पण्यमित्यस्मिन्नर्थे इकट्र स्यात् । किशरः पण्यमस्य किशरिकः । किशरिकी । किशर, तगर, स्थगर, उशीर, हरिद्रा, (हरद्रु,)३२ १ कैश्चिदत्र प्रत्ययलोपःकृतः ततः खमते कथमित्याह-समः । २ विपूर्वो भजण् , ततो णिच् तृच् विभाजयितु । ३ नन्वत्र इडलोप एव विधीयता किं णिलोपेन, विभाजयित इत्यत्रापि इट्लोपे णिचा सखरखे वैभाजित्रमिति सिद्ध्यति ? नैवम् । णिलो पाभावे गुणः स्यात्ततोऽनिष्टं रूपं स्यात् । णिलोपे तु इटो धातुखाभावात् गुणो न भवतीति सिध्यति । ४ भुज्यते इति भोगो पहादि, निर्विश्यते अनेन व्यजना घमि निवेशः, ततः षष्ठीसमासः । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560