Book Title: Haim Prakash Maha Vyakaranam Purvarddham
Author(s): Kshamavijay
Publisher: Hiralal Somchand Kot Mumbai

View full book text
Previous | Next

Page 494
________________ प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशै तद्धिताः । प्रहरणाद्यर्थाः यष्टी: यष्टी । शाक्तिक इति तु शक्त्या जीवतीति वेतनादितीकण् ॥ "वेष्ट्यादिभ्यः" ( ६ |४| ६५ ) | एभ्यष्टीकण वा । पक्षे "प्रहरण" मितीकण् । इष्टिः प्रहरणमस्य ऐष्टीकः ऐष्टीकी, पक्षे ऐष्टिकः । ईषा प्रहरणमस्य ऐषीकः ३ । एवं कम्पनं प्रहरणमस्य काम्पनीकः ३ । अम्भः प्रहरणमस्य आम्भसीकः ३ । दण्डः प्रहरणमस्य दाण्डीकः ३ । इष्ट्यादयः प्रयोगगम्याः ॥ नास्तिकास्तिकादय इति [ अत्र सूत्रम् - "नास्तिकास्तिकदैष्टिकम् ” ( ६ |४।६६ ) ] निपातनं रूढ्यर्थम्, । नास्ति ५ परलोकः पुण्यं पापमिति वा मतिरस्य नास्तिकः । अस्ति परलोकादिकमिति मतिरस्य आस्तिकः । नास्त्यस्तिशब्दौ तिवादिप्रतिरूपके अव्यये ( तयोश्च परतः प्रथमैकवचनम् ) । निपातनादेव वा तदिति प्रथमाधिकारेऽपि आख्यातान्नास्तीति पदसमुदायाच प्रत्ययः । आदिशब्दात् दैष्टिकमिति - दिष्टं दैवं तत्प्रमाणमिति मतिरस्य, दिष्टा वा प्रमाणानुपातिनी मतिरस्य दैष्टिकः ॥ --- आदिशब्दसंसर्गात् “वृत्तोऽपपाठोऽनुयोगे" ( ६।४।६७ ) । प्रथमान्तात्षष्ठ्यर्थे इकण् स्यात्, १० प्रथमान्तं चेदनुयोगविषये वृत्तोऽपपाठो भवति । अनुयोगः परीक्षा । एकमन्यदपपाठोऽनुयोगे वृत्त - मस्य ऐकान्यिकः । द्वैयन्यिकः, त्रैयन्यिकः । सङ्ख्यान्यशब्दयोस्तद्धिते विषयभूते समासस्ततस्तद्धितः । वृत्तोऽपपाठोऽनुयोग इत्यस्य तु वृत्तावन्तर्भावादप्रयोगः । अन्यत्वं चापपाठस्य सम्यक्पाठापेक्षम् । वृत्त इति किम् ? वर्त्तमाने वर्त्स्यति च न भवति । अपपाठ इति किम् ? एकमन्यदस्य दुःखमनुयोगे वृत्तम् । जयोऽस्यानुयोगे वृत्तः । अनुयोग इति किम् ? स्वैराध्ययने माभूत् । अन्ये त्वपपाठादन्यत्राप्यध्ययन- १५ मात्रे प्रत्ययमिच्छन्ति-एकं रूपमध्ययने वृत्तमस्य ऐकरूपिकः । ऐकग्रन्थिकः || "बहुवर पूर्वादिकः” ( ६।४।६८ ) । तथा । एकादशान्यपपाठरूपाण्यऽनुयोगेऽस्य वृत्तानि एकदशान्यिकः । एवं द्वादशान्यिकः । एकादशान्यिका स्त्री । अत्राप्यन्ये पूर्ववदन्यत्रापीच्छन्ति - द्वादशरूपाण्यध्ययनेऽस्य वृत्तानि द्वादशरूपिकः ॥ “भक्ष्यं हितमस्मै” ( ६।४।६९) प्रथमान्ताच्चतुर्थ्यर्थे इकण् स्यात्, प्रथमान्तं चेद्भक्ष्यं हितं भवति । अपूपा भक्ष्यं हितमस्मै आपूपिकः । हितार्थो भक्षणक्रियावृत्तावन्तर्भवति ॥ २० " नियुक्तं दीयते " ( ६।४।७० ) प्रथमान्ताच्चतुर्थ्यर्थे इकण् स्यात्, प्रथमान्तं चेन्नियुक्तमव्यभिचारेण नित्यं वा दीयते । अग्रभोजनमस्मै नियुक्तं दीयते आग्रभोजनिकः आम्रफलिक, मांसिकः, आपूपिकः, ग्रामिकः, आग्रहारिक: । अस्मै इत्येव - रजकस्य वस्त्रं नित्यं दीयते ॥ "श्रणामांसौदनादिको वा" ( ६।४।७१ ) । आभ्यामुक्तार्थे इको वा स्यात् । श्राणा नियुक्तमस्मै दीयते श्राणिकः पथ्याशी, आणिका । पक्षे इकण् श्राणिकी । एवं मांसौदनिकः, मांसौदनिका, इकणपि - मांसौदनिकी । इके - २५ कणोः स्त्रियां विशेषः । अन्ये त्विकं नेच्छन्ति ॥ "भक्तौदनाद्वाणिकटू” ( ६।४।७२ ) । आभ्यां यथासंख्यमण्इकट्प्रत्ययौ स्याताम्, तस्मै नियुक्तं दीयते इति विषये । भक्तमस्मै नियुक्तं दीयते भाक्तः । ओदनिक: ओदनिकी । पक्षे इकणू भाक्तिकः औदनिकः || ओदनशब्दादिकणं नेच्छन्त्यन्ये ॥ " नवयज्ञादयोऽस्मिन् वर्त्तन्ते ” ( ६।४।७३ ) । प्रथमान्तेभ्य एभ्यो वर्त्तन्ते इत्युपाधिभ्यः सप्तम्यर्थे इकण् स्यात् । नव यज्ञा अस्मिन् वर्त्तन्ते नावयज्ञिकः । पाकयज्ञिकः । नवयज्ञादयः प्रयोगगम्याः ॥ ७० ॥ ३० भावादिमः ॥ ७९ ॥ [ सि० ६।४।२१] 1 ४०७ भावप्रत्ययान्तान्निर्वृत्ते इमः स्यात् । सेकिमं फलम् ॥ ७१ ॥ “भाषा०” सेकिममिति-सेकेन निर्वृत्तमिति । एवं पाकिमं त्यागिमं रोगिमं कुट्टिमं संमूच्छिमम् । ३३ यत् 'अवर्णवर्णस्य' - इति इलोपं बाधित्वा 'समानाना' - इति दीर्थेन टिकणि कृतेऽपि शाक्तीकादयो भवन्ति । परमुतरत्र आम्भसीक इति सिद्ध्यर्थ टीकण्करणम् । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560