Book Title: Haim Prakash Maha Vyakaranam Purvarddham
Author(s): Kshamavijay
Publisher: Hiralal Somchand Kot Mumbai

View full book text
Previous | Next

Page 486
________________ प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे तद्धिताः । शेषेऽर्थे ३९९ 1 "प्रायो० ” । अव्ययस्यापदसंज्ञकस्य तद्धिते परेऽन्त्यस्वरादेः प्रायो लुप् भवति । यथा स्वर्भवः सौवः । बहिर्जातो बाह्यः, बाहीकः । सायम्प्रातिकः । पौनःपुनिकः । " वर्षाकालेभ्यः " ( ६।३।८० ) इतीकण् । अनभिधानादव्ययलक्षणस्तनद् न भवति - पौनःपुन्यम् । उपरिष्टादागतः औपरिष्टः । परत आगतः पारतः । ऐंकैकश्यम् । प्रायोग्रहणं प्रयोगानुसरणार्थम् तेनेह न भवति - औरातीयः, आश्वतिकः, शाश्वतः पार्थक्यम् । अपदस्येत्येव - कंयुः शंयुः अहंयुः । "पश्चादा०" पश्चिम इति - एवमादिमः ५ अन्तिमः अग्रिमः । आद्यन्ताभ्यां भवादन्यत्रार्थं विधिः, भवे तु परत्वाद्दिगादिय एव । " मध्या० " मध्यम इति भवे दिनणादय उक्तास्ततोऽन्यत्र शेषेऽयं विधिः । अत्रायं विशेषः–“मध्ये उत्कर्षापकर्षयोर" ( ६।३।७७) उत्कर्षापकर्षयोर्मध्ये वर्त्तमाना - न्मध्यशब्दाच्छेषेऽर्थे अप्रत्ययः स्यात् । मापवादः । नात्युत्कृष्टो नात्यपकृष्टो मध्यपरिणामो मध्यो वैयाकरणः । मध्या गुणाः । मध्या स्त्री । नातिदीर्घं नातिह्रस्वं मध्यप्रमाणं मध्यं काष्ठम् । नातिस्थूलो नाति - १० कृशो मध्यः कायः । यद्यपि मध्यशब्दो मध्यपरिणामवर्त्तिन्यपि वर्त्तते तथाप्यवस्थावस्थावतोः स्याद्वादाद्भेदविवक्षायामवस्थावाचिप्रकृतेरवस्थावति प्रत्ययार्थे पूर्वेण मो मा भूदिति वचनम् । " अध्या०" । अध्यात्मं भवं आध्यात्मिकम् । अधिदेवे भवं आधिदैविकम् । एवमाधिभौतिकम् । अनुशतिकादित्वादनयोरुभयपदवृद्धिः । और्ध्वदमिक : और्ध्वदेहिक: और्ध्वदमिक : और्ध्वदेहिक :- अतएव पाठादूर्ध्वस्य दमदेहयोर्वा मोऽन्तः । केचिदूर्ध्वद मोर्ध्वदेहशब्दावनुशतिकादिषु पठन्त उभयपदवृद्धिमिच्छन्ति - और्ध्व - १५ दामिकः, और्ध्वदैहिकः। ऊर्ध्वमौहूर्तिकः - अत्र "सप्तमी चोर्ध्वमौहूर्त्तिके” (५।३।१२) इति ज्ञापकादुत्तरपदस्यैव वृद्धिः । अकस्माद्धेतुशून्यः कालः तत्र भवमाकस्मिकम् । अमुष्मिन् परलोके भवमामुष्मिकम् । एवमामुत्रिकम् । पारत्रिकम् । इह भवमैहिकम् । शैषिकम् । पाठसामर्थ्यात्सप्तम्या अलुप् । अध्यात्मादयः प्रयोगगम्याः ॥ ६७ ॥ समानपूर्वलोकोत्तरपदात् ॥ ६८ ॥ [ सि० ६|३|७९ ] समानपूर्वपदेभ्यो लोकोत्तरपदेभ्यश्चेकण् स्यात् । सामानग्रामिकः पारलौकिकः ॥ ६८ ॥ " समान० " समानग्रामे कृतो भवो वा सामानग्रामिकः । सामानदेशिकः । इहलोके कृतो भवो वा ऐहलौकिकः । पारलौकिकः । सार्वलौकिकः । योगद्वयेऽपि भवार्थ एव प्रत्यय इत्यन्ये ॥ ६८ ॥ वर्षाकालेभ्यः ः ॥ ६९ ॥ [ सि० ६ ३८० ] वर्षाशब्दात्कालविशेषाच्चेकण् स्यात् । वार्षिकः मासिकः । * कचिद्वा-नैशिकः नैशः २५ “चिरपरुत्परारेस्त्नः” ( ६ । ३।८५ ) वा चिरतं चिरन्तनमित्यादि । " पुरो नः” (६।३।८६ ) पुराणं पुरातनम् । “पूर्वाह्णाऽपराह्नात्तनट् ” ( ६।३।८७ ) वा । सप्तम्या अलुप् - पूर्वाह्णेतनः । पौर्वाह्निकः । “भर्तुसन्ध्याऽऽदेरण” (६।३।८९ ) आश्विनः ग्रैष्मः सान्ध्यः ॥ ६९ ॥ २८ १ अथाव्ययसमुदायोऽव्ययग्रहणेन गृह्यते इति सायंचिरम् इति सायंप्रातरादिभ्यस्तनद्र कस्मान्न भवति, इत्याह- अनभि० । २ एकमेकं ददाति एकशब्दस्यामन्तस्य वीप्सायां द्वित्वं 'लुप्चादावेक' - इत्यमो लुपि 'बह्वल्पार्थात्' इति करके शस् । एकैकशो भावः व्यण् । ३ ‘भवार्थे' दोरीयः । 'वर्षाकालेभ्यः' इतीकण् 'भर्त्तु सन्ध्यादेरण् । ४ नन्वाधाराधेययोरभेदविवक्षया मध्यवर्त्तिकाष्ठाद्यपि मध्यशब्देनोच्यते तत्किमनेनेत्याशङ्का । Jain Education International २० For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560