Book Title: Haim Prakash Maha Vyakaranam Purvarddham
Author(s): Kshamavijay
Publisher: Hiralal Somchand Kot Mumbai

View full book text
Previous | Next

Page 484
________________ प्रक्रियावृत्तिरूपे श्रीहेमप्रकाशे तद्धिताः । शेषेऽथे ३९७ सैन्धवः, वार्णवः । अथाणग्रहणं किमर्थम् ? योह्यन्येन बाधितो न प्राप्नोति तदर्थमिदं स्यात् स चाणेव, नचानन्तरोऽकमेव स्यादित्याशङ्कनीयम् , एवं हि पूर्वकमकब्विधानमनर्थकं स्यात् । नैवम् । असत्यणग्रहणे इक्ष्वाकोरुवर्णलक्षण इकण् स्यात् , स हि ततो राष्ट्राकमा बाधितः ॥ "गोत्तरपदादीयः" (६।३।५७) अणोऽपवादः । श्वाविद्गर्तात्तु वाहीकग्रामलक्षणौ णिकेकणौ परत्वाद्बाधते । श्वाविद्गर्ते भवः श्वाविद्गीयः । वृकगीयः, शृगालगीयः, रौहिद्गीयः । आभिसारगर्त्तकः त्रैगर्त्तक इत्यत्राकञ्५ "राष्ट्रेभ्यः” (६।३।४४ ) "बहुविषयेभ्यः" इति बहुवचनसामर्थ्याद्भवतीत्युक्तम् । उत्तरपदग्रहणं बहुप्रत्ययपूर्वनिरासार्थम्-बाहुगतः । “कटपूर्वात्प्राचः” (६।३।५८) प्राच इति प्राग्देशवाचिन ईयः स्यात् । अणोऽपवादः । कटनगरीयः, 'कटप्रामीयः, कटघोषीयः, कटवर्तकीयः, कटपल्वलीयः। प्राच इति किम् ? काटनगरः । “कखोपान्त्यकन्थापलदनगरग्रामहृदोत्तरपदाहोः” (६। ३१५९) । ककारखकारोपान्त्यात् कन्थायुत्तरपदाच देशवाचिनो दुसंज्ञकादीयः स्यात् । बाधक बाध-१० नार्थ आरम्भः । कोपान्त्यात्कोपान्त्यलक्षणे णिप्राप्ते आरीहणकीयः, द्रौघणकीयः, आश्वस्थिकीयः, शाल्मलिकीयः, सौषुकीयः, आष्टकीयः ब्राह्मणकीयः बालकीयः । खोपान्त्यात्. वाहीकग्रामलक्षणयोर्णिकेकणोः, कौटशिखीयः, (माहिशिखीयः, ) अयोमुखीयः । कन्थापलदोत्तरपदान्तयोरेव, दाक्षिकन्थीयः, माहकिकन्थीयः, दाक्षिपलदीयः, माहकिपलदीयः । नगरोत्तरपदाद्रोपान्त्यलक्षणेऽकचि. दाक्षिनगरीयः माहकिनगरीयः । ग्रामह्रदोत्तरपदात् णिकेकणोरेव, दाक्षिग्रामीयः, माहकिग्रामीयः, दाक्षिह्र-१५ दीयः, माहकिह्रदीयः । दोरिति किम् ? आर्षिकः माडनगरः ॥ “पर्वतात्" ( ६।३।६०) ईयः । अणोऽपवादः । पर्वतीयो राजा, पुमान् ॥ “अनरे वा” (६।३।६१) । पर्वतीयानि पार्वतानि फलानि । अनर इति किम् ? पर्वतीयो मनुष्यः । “पर्णकृकणाद्भारद्वाजात्' (६।३।६२) । भारद्वाजदेशवाचिभ्यामाभ्यामीयः स्यात् । अणोऽपवादः । पर्णीयः, कृकणीयः । भारद्वाजादिति किम् ? पाणः कार्कणः ॥ "गहादिभ्यः" (६।३।६३ ) । देशादिति वर्त्तते, तद्गहादीनां यथासम्भवं विशेष-२० णम् । यथासम्भवं देशवाचिभ्यो गहादिभ्य ईयः स्यात् । गहीयः, अन्तःस्थीयः । गह, अन्तःस्थ, अन्तःस्था, सम, विषम, उत्तम, अङ्ग, मगध, शुक्लपद, पूर्वपक्ष, १० अपरपक्ष, कृष्णशकुन, अधमशाख, उत्तमशाख, समानशाख, एकशाख, समानग्राम, एकग्राम, एकवृक्ष, एकपलाश, २० इष्वग्र, दन्ताग्र, इष्वनीक, अवस्यन्द, कामप्रस्थ, सौप्रख्य, खाडायनि, काठेरणि काठेरिणि, लावेरणि, लावेरिणि, लावीरणि, शैशिरि, शौङ्गि, शौङ्गिशैशिरि, आसुरि, आहिंसि, आमित्रि व्याडि, ४० भौङ्गि, भौर्जि, २५ ( भौजि?), आध्यश्वि, आश्वत्थि, औद्राहमानि, औपबिन्दवि, आग्निशर्मि, (देवशर्मि, ) श्रौति, वाटारकि, वाल्मीकि, ५० क्षैमधृत्वि, उत्तर, अन्तर, मुखतस्, पार्श्वतस्, एकतस् , अनन्तर, आनुशंसि, साटि, सौमित्रि, ६० परपक्ष, स्वक, देवक इति गहादयत्रिषष्टिः । बहुवचनमाकृतिगणार्थम् ॥ "पृथिवीमध्यान्मध्यमश्चास्य” (६॥३॥६४)। पृथिवीमध्यशब्दाद्देशवाचिन ईयः स्यात् , मध्यमादेशश्वास्य । पृथिवीमध्ये जातो भवो वा मध्यमीयः ॥ “निवासाचरणेऽण" (६।३।६५ )३० पृथिवीमध्यानिवासभूतदेशवाचिनश्चरणे निवस्तरि शेषेऽर्थेऽण् स्यात् ; मध्यमादेशश्चास्य । पृथिवीमध्यं निवास एषां चरणानां माध्यमाश्चरणः । त्रयः प्राच्यालय उदीच्यास्त्रयो माध्यमाः । निवासादिति ३२ १'प्राग्जितात्' इति प्राप्तोऽन्येनाकादिना बाधित इत्यर्थः। २ यदि हि नृनुस्थे अन्यत्र वाकव स्यात् तदा कि पूर्वसूत्रेण । अनेनैव कच्छादिकोपान्त्याच इत्येवं रूपेण सिद्धत्वात् । ३ यत इक्ष्वाकोरिकणप्यनेनाकमा बाध्यमानो विद्यते एव. ततश्च सोऽप्यनेन स्यादिति। ४ 'दोरीयः' इति ईयस्य ये बाधकाः कोपान्त्याच्चेत्येवमादयस्तेषां बाधनं बाधस्तदर्थोऽयमारभ्यत इत्यर्थः । एतदेव कोपान्त्यादित्यादिना स्पष्टयन्नदाहरति । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560