Book Title: Haim Prakash Maha Vyakaranam Purvarddham
Author(s): Kshamavijay
Publisher: Hiralal Somchand Kot Mumbai

View full book text
Previous | Next

Page 489
________________ ४०२ महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुतेनेति तृतीयान्तादिति-तृतीयान्ता प्रकृतिः "तं प्रत्यनोर्लोमेपकूलात्" (६।४।२८) इति सूत्रं यावत् अनुवर्तनीया। दाधिकमिति । "संस्कृते" (६।४।३)। इकण् । सत उत्कर्षाधानं संस्कारः । दना संस्कृतं दाधिकम् । उपाध्यायेन संस्कृतः औपाध्यायिकः शिष्यः । विद्यया संस्कृतो वैधिकः । ५ अत्रायमपवादः-"कुलत्थकोपान्त्यादण्" (६।४।४)। कुलत्थैः संस्कृतं कौलत्थम् । अन्ये तु सकाराक्रान्तथकारान्तकुलस्थशब्दात्प्रत्ययं मन्यन्ते-कौलस्थः । कोपान्त्य. तित्तिरिकेण तित्तिरीकाभिर्वा संस्कृतं तैत्तिरीकम् । दर्दुरूकेण दा१रूकम् । मण्डूकेन माण्डूकम् । अन्ये तु कवर्गोपान्त्यादपीच्छन्तिमौद्गम् , सारघम् । “संसृष्टे" (५।४।५) ऽप्येवम् । मिश्रणमात्रं संसर्ग इति पूर्वोक्तासंस्कृताद्भेदः । दना संसृष्टं दोधिकम् । शार्ङ्गबेरिकम् । पैष्पलिकम् । वैषिका भिक्षा । आशुचिकमन्नम् । अत्र विशेषाः१० “लवणादः" (६।४।६) । लवणेन संसृष्टो लवणः सूपः (शाकः, लवणा यवागूः) । लवणशब्दो द्रव्यवाची गुणवाची च । तत्र द्रव्यवाची प्रत्ययं प्रयोजयति न गुणवाची, गुणेन विश्लेषपूर्वकस्य संसर्गस्यासंभवात् ॥ "चूर्णमुगाभ्यामिनणो" (६४७) । चूर्णैः संसृष्टाश्चर्णिनोऽपूपाः, मुद्रः संसृष्टा मौद्गी यवागूः ॥ “व्यञ्जनेभ्य उपसिक्ते" (६।४।८) व्यञ्जनशब्दो रूढितः सूपादौ वर्त्तते । उपसिक्तमिति यद्भोजनार्थमुपादीयते भोज्यादि तदुच्यते न स्थाल्यादि । सूपेनोपसिक्तः सौपिको, १५दाधिक ओदनः । घार्तिकं तैलिकं शाकम् । व्यञ्जनेभ्य इति किम् ? उदकेनोपसिक्तः ओदनः । उपसिक्ते इति किम् ? सूपेन संसृष्टा स्थाली । उपसिक्कं संसृष्टमेव तत्र "संसृष्टे” इत्येव सिद्धे नियमार्थ वचनम्-व्यञ्जनैस्संसृष्टे उपैसिक्त एव उपसिक्ते च व्यञ्जनैरेव । बहुवचनं स्वरूपविधेर्निरासार्थम् ।। औडुपिक इति-"तरति” (६।४।९) । तृतीयान्तादस्मिन्नर्थे इकण् स्यात् । काण्डप्लविकः (शारप्लविकः गौरपुच्छिका ॥ "नौद्विखरादिकः” (६।४।१०)। नौशब्दाद्विस्वराच नाम्नस्तृतीयान्ता२० त्तरत्यर्थे इकः प्रत्ययो भवति । नाविकः । द्विस्वर. घटिकः, प्लविकः दृतिकः बाहुकः बाहुका । हास्तिक इति-"चरति” (६।४।११) तृतीयान्तादस्मिन्नर्थे इकण् । चरतिरिह गयर्थों भक्ष्यर्थश्च गृह्यते । गत्यर्थ. शाकटिकः, घाण्टिकः, आकर्षिकः आकर्षः सुवर्णनिकषोपल औषधपेषणपाषाणश्च । भक्ष्यर्थ. दना चरति दाधिकः शाङ्गबेरिकः । आदिशब्दात् "पोदेरिक" (६।४।१२) तृतीयान्तेभ्यः एभ्यश्चरत्यर्थे इकट् स्यात् । पर्पण २५ चरति पर्पिकः पर्पिकी । पर्य, (अश्व, ?) अश्वत्थ, रथ, अर्घ्य, व्याल, व्यास, इति पादयः षद् ।। "पदिकः” (६।४।१३) पादशब्दात्तेन चरत्यर्थे इकट् स्यात् , अस्य पद्भावश्च निपात्यते । पादाभ्यां चरति पदिकः ॥ "श्वगणाद्वा" (६।४।१४) अस्मादिकट् स्यात् , वा । श्वगणेन चरति श्वगणिकः, श्वगणिकी; पक्षे इकण्-श्वागणिकः; एषु द्वारादेः (७४।६) इति वकारात् प्रागौकारे प्राप्तेऽपवादसूत्रम्श्वादेरिति (७४।१०) श्वन शब्द आदिरवयवो यस्य तस्य श्वादेर्नान्न इति इकारादौ किणति तद्धिते ३० परे वः प्रागौकारो न भवति । श्वभखस्यापत्यं श्वाभस्त्रिः । श्वाशीर्षिः, श्वादंष्ट्रिः । एवं श्वागणिकः, प्रत्ययार्थ जितग्रहणम् । अयमर्थ:-जयतीत्युक्त जयति जेष्यति अजैषीदिति लभ्यते किं जितग्रहणेन । उच्यते । भूते कर्मण्यपि वाच्ये यथास्यादित्येवमर्थम् । विवक्षित इति अतीतः कालः । १ सरघाभिः कृतं 'नाम्नि मक्षिकाभ्यः' इत्यण् । सारन मधुना संस्कृतः। २ अत्र संसृष्टः शाकादिभक्ष्यं विवक्षितम् । अन्यथा 'व्यजनेभ्य उपसिक्के' इति नियमः स्यात् । ३ मात्रानभोज्यार्थ पश्चाद्भावनायामभक्ष्यखादतोऽनियमः। ४ सूपेन संसृष्टा स्थालीयनुपसिक्ते संसृष्टे प्रत्ययो न भवतीति प्रत्ययार्थव्यवस्था। ५ उदकेनोपसिक्त ओदन इत्युदकादव्यजनाम भवतीति प्रकृतिव्यवस्था। Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560