Book Title: Haim Prakash Maha Vyakaranam Purvarddham
Author(s): Kshamavijay
Publisher: Hiralal Somchand Kot Mumbai

View full book text
Previous | Next

Page 481
________________ ३९४ ___महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुअणऽपवादः । देवदत्तीय इति "संज्ञा दुर्या" (६।१।६) इति दुसंज्ञा, तदीय इति "त्यदादिः" (६॥ ११७) इति दुसंज्ञा, पाणिनीयमिति "वृद्धिर्यस्य खरेष्वादिः” (६।१८) इति दुसंज्ञा । एवं एणीपचनीयः, गोनर्दीयः, भोजकटीयः "प्राग्देशे" (६।१।१०) इति दुसंज्ञा । कथं श्रीमदीयमिति ? प्रमाद एवायं दुसंज्ञाभावात् । *ईयेत्यादि-"ईयकारके" ( ३।२।१२१) इति सूत्रेण दोऽन्तः।। ५ अत्रादिशब्दसान्निध्यात् "उष्णादिभ्यः कालात्" (६।३।३३) । उष्णकालीयः, बहुवचनं प्रयोगानुसरणार्थम् । “व्यादिभ्यो णिकेकणौ” (६।३।३४)। व्यादिभ्यः परो यः कालशब्दस्तदन्तादेतौ स्याताम् । उभयोः स्त्रियां विशेषः-वैकालिकः, वैकालिका, वैकालिकी । आनुकालिकः, आनुकालिका आनुकालिकी । ऐदङ्कालिकः ३ । धौमकालिकः ३ । आपत्कालिकः ३ । साम्पत्कालिकः ३ । कोप कालिकः ३ । क्रौधकालिकः ३ । और्वकालिकः ३ । पौर्वकालिकः ३ । तात्कालिकः ३ । क्रौरका१०लिकः ३ । व्यादयः प्रयोगगम्याः ॥ "काश्यादेः” (६।३।३५)। णिकेकणौ । दोरिति वर्त्तते । काशिकः, काशिका, काशिकी । चैदिकः३ । दोरित्येव-देवदत्तं नाम वाहीकग्रामस्तत्र जातो देवदत्तः; देवदत्तशब्दस्य प्रान्देशे एव दुसंज्ञा, न वाहीकेष्विति न भवति; नाप्युत्तरेण तत्रापि दोरित्यनुवर्तनात् । प्राग्ग्रामेषु तु काश्यादित्वाद्भवत्येव-दैवदत्तिका देवदत्तिकी । येषां तु काश्यादीनां दुसंज्ञा न भवति तेषां पाठसामर्थ्याद्भवति । चेदीशब्दसाहचर्याच्च काशिशब्दो जनपद एव वर्तमान इमौ प्रत्ययावुत्पाद१५यति नान्यत्र-काशीयाः छात्राः । काशि, चेदि, देवदत्त, सांयाति, सांवाह, अच्युत, मोदमान, श्वकुलाल १० शकुलाद, हस्तिकूड़्को, नाम, हिरण्य, करण, हैहिरण्य, करणे, सिन्धुमित्र, सधमित्र, अरिन्दम, दाशमित्र, दासमित्र २० छागमित्र, दासग्राम, शौवावतान, गौवाशन, गौवासन, तारङ्गि, भारङ्गि, युवराज, उपराज, देवराज, ३० इति काश्यादयस्त्रिंशत् ॥ "वाहीकेषु ग्रामात्" (६।३।३६) । णिकेकणौ । कारन्तपिकः, कारन्तपिका कारन्तपिकी । शाकलिकः ३ । मान्थविकः ३। २० आरात्कः ३ । सैपुरकः ३ । स्कौनगरिकः “एदोद्देश एवेयादौ” ( ६।१।९) इति दुसंज्ञा । नापित वास्तुक इत्यत्र "उवर्णादिकण्” इतीकण् । वातानुप्रस्थकः, नान्दीपुरकः, कौकुटीवहकः, दासरूप्यकः इत्येषु “प्रस्थपुरवहान्तयोपान्त्यधन्वार्थात्” (६।३।४३ ) इति परत्वादकञ् । सौसुकीय इत्यत्र कोपान्यलक्षण ईयोऽपवादाच्च भवति ( कथं मौञ्जीयम् ? मौखं नाम वाहीकावधिरन्यदीयो ग्रामो न वाहीक ग्राम इत्येके, अन्ये तु दश द्वादश वा ग्रामा विशिष्टसनिवेशावस्थाना मौझं नामेति ग्रामसमूह एवायं न २५ग्रामः, नापि राष्ट्रम् ; येन राष्ट्रलक्षणोऽकञ् स्यात् इति मन्यन्ते। दोरित्येव-देवदत्तं नाम वाहीकग्रामः तत्र जातो देवदत्तः)॥ "वोशीनरेषु” (६।३।३७) उशीनरेषु जनपदेषु यो ग्रामस्तद्वाचिनो दुसंज्ञकाच्छेषेऽर्थे णिकेकणौ वा स्याताम् । आह्वजालिकः, आह्वजालिका आह्वजालिकी । सौदर्शनिकः ३ । पक्षे आह्वजालीयः, सौदर्शनीयः ॥ “वृजिमद्राद्देशात्कः” (६।३।३८) देशवाचिभ्यामाभ्यां शेषेऽर्थे कः स्यात् । राष्ट्राकोऽपवादः । दोरिति निवृत्तम् । वृजिकः मद्रकः (सुसर्वार्द्धदिक्शब्देभ्यो जनपदवाचिनः ३० प्रत्ययो भवति तत्र मद्रात् दिक्पूर्वपदात् 'मद्राद' (६।३।२४) इत्यब् विहितः शेषपूर्वपदात्त्वयं भवति ) सुमद्रकः सर्वमद्रकः अर्द्धमद्रकः सुवृजिकः सर्ववृजिकः अर्द्धवृजिकः पूर्ववृजिकः अपरवृजिकः। देशादिति किम् ? मनुष्यवृत्तेर्जिः, माद्रः ॥ "उवर्णादिकण्” (६।३।३९)। उवर्णान्ताद्देशवाचिन इकण् स्यात् । अणोऽपवादः । परत्वादीयणिकेकणोऽपि बाधते । शबरजम्ब्वां भवः शाबरजम्बुकः । नैषादकर्षकः । दाक्षिकर्षुकः । प्लाक्षिकर्षुकः । नापिकवास्तुर्वाहीकग्रामस्तत्र भवो नापितवास्तुकः । यस्तु प्राग्रामस्तस्मादुत्तरेण भवति-आवृ(ब्री ? )तमायौ भवः आवृ(व्री ? )तमायकः । ३६ जिहुषु जैह्रवक, इति परत्वाद्योपान्त्यलक्षणो राष्ट्रलक्षणश्चाकञ् । पेक्ष्वाक इत्यत्र तु कोपान्त्यलक्ष Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560