Book Title: Haim Prakash Maha Vyakaranam Purvarddham
Author(s): Kshamavijay
Publisher: Hiralal Somchand Kot Mumbai

View full book text
Previous | Next

Page 477
________________ ३९० महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुदीय" (६।३।२१७) । सलातुर आभिजनो निवासोऽस्य सालातुरीयः पाणिनिः ॥ "तूदीवर्मत्या एयण" (६।३।२१८)। आभ्यामाभिजननिवासार्थाभ्यामस्येत्यर्थे एयण स्यात् । तूदी वर्मती आभिजनो निवासोऽस्य तौदेयः वार्मतेयः । “गिरेरीयोऽस्त्राऽऽजीवे" (६।३।२१९)। गिरिर्य आभिजनो निवासस्तदभिधायिनः प्रथमान्तात्षष्ठ्यर्थे ईयः स्यात् , अनाजीवीत्यभिधेये । हृदोलः पर्वतः आभिजनो ५निवासोऽस्याऽस्राजीवस्य हृगोलीयः । भोजकटीयः । रोहितगिरीयः । अन्धश्मीयः । गिरेरिति किम् ? साङ्काश्यकोऽस्त्राजीवः "प्रस्थपुरे" (६।३।४२) इत्यादिनाकन् । अस्त्राजीव इति किम् ? ऋक्षोदः पर्वतः आभिजनो निवासोऽस्य आक्षोंदो ब्राह्मणः । पृथुः पर्वतः आभिजनो निवासोऽस्य पार्थवः । इत्याभिजनाधिकारः ॥ ९ ॥ कृतादयः सप्तदश व्याहरत्यादयो नव । एवं सङ्कलिताः सर्वे शेषार्थाः विंशतिः सषट् ॥ १ ॥ १. "नद्यादेरेय" (६॥३॥२)। शेषे । नद्या कृतादिर्नादेयः । वानेयः । “राष्ट्रादियः" (६३१३)। राष्ट्रियः। शेषे इत्यधिकारादनुवर्तनीयम् ॥ "दूरादेत्यः" (६।३।४)। दूरेत्यः । "उत्तरादाह" (६३५) औत्तराहः ॥ “पारावारादीनः" (६।३।६) पारावारीणः॥ "व्यस्तव्यत्यस्तात्" (६३७) । अपि । पारीणः । अवारीणः । अवारपारीणः । *अलङ्गामीत्यर्थेऽप्येवम्-पारमलङ्गामी, पारीण इत्यादि । “धुप्रागपागुदक्प्रतीचो यः" (६।।८)। १५ दिव्यं प्राच्यमपाच्यमुदीच्यं प्रतीच्यम् ॥ "ग्रामादीनश्च” (६।३।९)। ग्रामीणः ग्राम्यः ॥ "नद्या"। शेषे इति । अधिकारोऽयम् । अपत्यादिभ्यः संस्कृतभक्ष्यपर्यन्तेभ्योऽन्योऽर्थः शेषः । वक्ष्यमाणशेषार्थान्तर्गते "तस्येदम्" (६।३।१६० ) इत्यर्थे एयणादयो विधास्यन्ते । तस्येदंविशेषाश्चापत्यसमूहादयस्ततस्तेष्वपि वक्ष्यमाणा एयणादयो मा भूवन्निति शेषाधिकारः क्रियते । किञ्च सर्वेषु प्राग्जितात् कृतादिषु वक्ष्यमाणाः प्रत्ययाः यथा स्युरनन्तरेणैवार्थनिर्देशेन कृतार्थता मा विज्ञायीति साक२० ल्यार्थं शेषवचनम् । नादेय इति-एवं माहेयः वानेयः । वन्य इति तु “साधौ' (५।१।१५५) यः। शेष इति किम् ? नदीनां समूहो नादिकम् । नदी, मही, वाराणसी, श्रावस्ती, कौशाम्बी, वनकौशाम्बी, वनवासी, काशफरी, खादिरी, पूर्वनगर, पूर्वनगरी, पुर, वन, गिरि, (पुर् ?) वनगिरि, पूर्वनगिरि, पावा, मावा, माल्वा, दार्वा, सेतकी, सैतवी, इति नद्यादयः पञ्चविंशतिः (?)। इतः प्रभृति प्रकृतिविशेषोपादानमात्रेण प्रत्यया विधास्यन्ते कृतादयोऽर्था विभक्तयश्चोक्ता एवेति । २५"राष्ट्रा" शेषे इति-प्राग्जितीये शेषेऽर्थे इत्यर्थः । राष्ट्रे कृतः (?) क्रीतः कुशलो जातो भवो वा राष्ट्रियः । शेष इत्येव-राष्ट्रस्यापत्यं राष्ट्रिः । “दूरा०" । स्पष्टम् । “उत्त०" औत्तराह इति-औत्तरा स्त्री चेत् । औत्तराहीति उत्तराहिशब्दाद् भवेऽर्थेऽणि । “पारा." अवारः समुद्रः तस्य पारं परतटं राजदन्तादित्वात्पारावारः । पारावारे कृतादिः पारावारीणः । “व्यस्त० व्यस्तादिति पारशब्दात् अवारशब्दाच्च । व्यत्यस्तादिति पर्यस्तात् अवारपारशब्दादित्यर्थः । *अलङ्गामिनीत्यादि प्रकृतिप्रत्ययाविशेपात् अशेषार्थेऽपि लाघवायाऽत्र निरूपितः। अत्र सूत्रम्-पारावारं व्यस्तव्यत्यस्तं च" (७।३।१०१) १पारावारशब्दात्समस्ताब्यस्ताब्यत्यस्ताञ्च निर्देशादेव द्वितीयान्तादलङ्गामिन्यथें ईनः स्यात् । पारीण इति अस्य सूत्रस्यात्रोपन्यासकारणं सम्यम ज्ञायते-सम्पादकः। १ एयणादयश्च तस्येदमित्यर्थे विहितास्ततश्चापत्य समूहादिष्वपि प्राप्नुवन्ति तद्विशेषलात्तेषाम् । २ अपत्यसमूहादिषु अन्यत्रोपयुक्तखात्तेषाम् । न केवलमपत्यादिषु एयणादीनां निवृत्तये शेषाधिकारः क्रियते, यावत्सर्वेषु कृतजातादिषु अस्पेति षछ्यर्थपर्यन्तेष्वेयणादीनां प्रवृत्त्यर्थश्चेत्साह-किचे। ३ अयमर्थःसन्निहितखात् कृतलब्धकीतादिष्वथैषु एयणादीनां प्रवृत्तेर्व्यवहितेवर्थेषु प्रवृत्तिर्न भविष्यतीत्येवं शङ्का मा भूदित्यर्थः । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560