Book Title: Haim Prakash Maha Vyakaranam Purvarddham
Author(s): Kshamavijay
Publisher: Hiralal Somchand Kot Mumbai

View full book text
Previous | Next

Page 475
________________ ३८८ महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघु"गच्छति पथि दूते" ( ६।३।२०३ ) । द्वितीयान्ताद्गच्छत्यर्थे यथाविहितं प्रत्ययः स्यात् । स्रुघ्नं गच्छति स्रौनः चेत्पन्था दूतो वा स्यात् । मथुरां गच्छति माथुरः पन्था दूतो वा । एवं नादेयः, राष्ट्रियः । पथिस्थेषु गच्छत्सु तद्धेतुः पन्था अपि गच्छतीत्युच्यते, मथुरादिप्राप्तिर्वा पथो गमनम् । पथि-दूत इति किम् ? खुम्नं गच्छति साधुः । पाटलीपुत्रं गच्छति नौः, पण्य, वणिग् वा। ल इति गच्छतीत्यर्थाधिकारः ॥ ४ ॥ "भजति" (६।३।१०४) द्वितीयान्ताद्भजत्यर्थे यथाविहितं प्रत्ययो भवति । त्रुघ्नं भजति स्रौनः । माथुरः । नादेयः । राष्ट्रियः ॥ "महाराजादिकण्” (६।३।२०५) । महाराज भजति माहाराजिकः । “अचित्ताददेशकालात्” (६।३।२०६) देशकालवर्जितं यदचित्तमचेतनं ततो भजत्यर्थे इकण् स्यात् । अणादेर्बाधकः । अपूपान् भजति आपूपिकः । शाष्कुलिकः । मौदकिकः । १० पायसिकः । अचित्तादिति किम् ? देवदत्तः। अदेशकालादिति किम् ? स्रौनः। हैमनः ॥ “वासुदेवाऽर्जुनादकः” (६।३।२०७) । ईयाकमोरपवादः । वासुदेवं भजति वासुदेवकः । यदा वासुदेवशब्दोऽक्षत्रियवचनः संज्ञाशब्दस्तदोत्तरेणाकञ् न प्राप्नोति किन्तु "दोरीयः" (६।३।३२) इतीयः स्यादिति तद्ब्रहणम्-अर्जुनं भजति अर्जुनकः, क्षत्रियत्वादुत्तरेणाकञ् स्यादिति अर्जुनप्रहणम् । केनैव सिद्धे अकविधानं वासुदेवीं भजति वासुदेवकः, अर्जुनीमर्जुनक इत्येवमर्थम् (कप्रत्यये 'यादीदूतः के' इति १५ ह्रस्वत्वं स्यात् , अकप्रत्यये तु 'जातिश्च०' (३।२।५१) इति पुंवद्भवति ) । “गोत्रक्षत्रियेभ्योऽकञ् प्रायः" (६।३।२०८)। अणाद्यपवादः । गोत्र. ग्लुचुकायनिं भजति ग्लौचुकायनकः। औपगवकः । दाक्षकः । गार्गकः । गाायणकः । क्षत्रियम्. नाकुलकः । साहदेवकः । दौर्योधनकः । दौःशासनकः । बहुवचनं क्षत्रियविशेषपरिग्रहार्थम् । प्राय इति किम् ? पणिनोऽपत्यं पाणिनस्तं भजति पाणिनीयः । पौरवीयः । “सरूपाद् द्रेः सर्व राष्ट्रवत्" (६।३।२०९) । “राष्ट्रक्षत्रियात्सरूपाद्राजापत्ये २०दिरम्” ( ६।१।११४) इति प्रस्तुत्य सरूपाद्यो द्रिःप्रत्यय उक्तस्तदन्तस्य द्वितीयान्तस्य भजत्यर्थे सर्व प्रकृतिः प्रत्ययश्च राष्ट्रवद्भवति । राष्ट्रवाचिनी या प्रकृतिर्वृजिप्रमुखा ततश्च यः प्रत्ययो "वृजिमद्राद्देशात्कः" (६।३।३८) इत्यादिना विहितस्तदुभयं वाय॑ इत्यादेः सरूपस्य द्रिप्रत्ययान्तस्य भजतीत्यस्मिन्विषये भवतीत्यर्थः । वाज्यं वाज्यौं वृजीन् वा भजति वृजिकः । माद्रं माद्रौ मद्रान्वा भजति मद्रकः । अत्र कः प्रत्ययः ॥ पाण्ड्यं पाण्ड्यौ पाण्डून् वा भजति पाण्डवकः, आङ्गकः, वाङ्गकः, पाञ्चालकः, वैदेहकः, २५ औदुम्बरकः, तैलखलका, अत्र "बहुविषयेभ्यः” (६।३।४५) इत्यकञ् ॥ कौरवकः कौरवः, योगन्धरकः यौगन्धरः, अत्र "कुरुयुगन्धराद्वा" (६।३१५३ ) इति वाकञ् ॥ ऐक्ष्वाकः । अत्र "कोपान्त्याच्चाऽण्" (६।३।५६) इत्यण ॥ सरूपादिति किम् ? पौरवीयम्-अत्र पुरू राजा अनुखण्डो जनपद इति न सारूप्यम्, अत एव पुरुमगधेत्यादौ द्विस्वरत्वेऽणैव सिद्धे पुरुग्रहणमसरूपार्थं कृतम् । नेरिति किम् ? पञ्चालान् ब्राह्मणान् भजति पाञ्चाल:-अत्र "बहुविषयेभ्यः" इत्यकञ् न भवति । सर्वग्रहणं ३० प्रकृत्यऽतिदेशार्थं तच्च वाय॑माद्रपाण्ड्यकौरव्याः प्रयोजयन्ति; अन्यत्राऽविशेषात् । इति भजतीत्यर्थाधिकारः ॥ ५॥ "टस्तुल्यदिशि" (६।३।२१०) । सहार्थतृतीयान्तात्तुल्यदिश्यर्थे यथाविहितं प्रत्ययः ३३ स्यात् । तुल्या दिग् यस्य स तुल्यदिग् । सुदाम्ना एकदिग् सौदानी विद्युत् । यस्यां दिशि गिरिस्तस्यां १ तेन वृजिक मद्रक पाण्डवक इति सिद्धम् अन्यथा पाण्ज्यक इत्यादौ यकारश्रुतिः स्यात् । न वाच्यं तद्धितयखरे' इति यलोपप्राप्तिः अनापत्यत्वात् यकारस्य । २ आजक इत्यादि लिखितापेक्षया एतदुक्तम्, यावता आवन्तक इत्यादावस्येव विशेषः । अनापत्यवादावन्स इति स्थिते यलोपाप्रसात् । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560