Book Title: Haim Prakash Maha Vyakaranam Purvarddham
Author(s): Kshamavijay
Publisher: Hiralal Somchand Kot Mumbai

View full book text
Previous | Next

Page 473
________________ ३८६ महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलधुपाराशरिणो भिक्षवः । शैलालिनां धर्म आनायः सङ्को वा शैलालकम् । पाराशरकम् । अतिदेशाद्वेदित्रध्येतृविषयता चरणादकम् च स्यात् ॥ "कृशाश्वकर्मन्दादिन्" (६।३।१९०)। नटभिक्षुसूत्रे, अणोऽपवादः । वेदवच्च कार्यम् । कृशाश्वेन प्रोक्तं नटसूत्रं विदन्त्यधीयते वा कृशाश्विनो नटाः । कर्मन्देन प्रोक्तं भिक्षुसूत्रं विदन्त्यधीयते वा कर्मन्दिनो भिक्षवः । अतिदेशादकश्च-काश्विकं कार्मन्दकम् । ५नटसूत्रे कापिलेयशब्दादपीच्छन्त्येके-कापिलेयिनो नटाः । कापिलेयक आम्नायः । * इति प्रोक्ताधिकारः ॥* "उपज्ञाते" (६।३।१९१ ) । इति । विनोपदेशमित्यादि स्पष्टम्-यथा भद्रबाहुणोपज्ञातं भाद्रबाहवं शास्त्रम् । एवं पाणिनेन पाणिनिना वोपज्ञातं पाणिनीयम् ॥ "कृते" (६।३।१९२ ) । इति । तृतीयान्तात्कृते उत्पादितेऽर्थे यथाविहितमणादयः स्युः । यथा शिवेन कृतो ग्रन्थः शैवः । वाररुचानि १० वाक्यानि । जलूकेन जलूकया वा कृता जालूकाः श्लोकाः । जालुकिना जालुकाः श्लोकाः-अत्र "वृद्धेऽत्रः" (६।३।२८) इत्यन् । सिद्धसेनीयः स्तवः । इष्टकाभिः कृतः प्रासाद ऐष्टकः । नारदेन कृतं नारदीयं गीतम् । मनसा कृता मानसी कन्या । तक्ष्णा कृतः प्रासाद इत्यादावनभिधानान भवति । कृते ग्रन्थ एवेच्छन्त्यन्ये । आदिशब्दसन्निधापिता विशेषास्त्वेवम्-"नानि मक्षिकाऽऽदिभ्यः” (६।३।१९३) कृतेऽर्थे १५यथाविहितं प्रत्ययाः स्युः । मक्षिकाभिः कृतं माक्षिकं मधु । सरघाभिः सारघम् । गर्मुद्भिर्गार्मुतम् । नानीति किम् ? मक्षिकाभिः कृतं शकृत् । वातपैः कृतं वातपमित्यत्राणन्तं नाम, नेयान्तमितीयो न स्यात् । मक्षिका, सरघा, गर्मुत्, नर्मुका, पुत्तिका, क्षुद्रा, भ्रमर, वटर, वातप, इति मक्षिकादयः प्रयोगगम्याः ॥ "कुलालाऽऽदेरकम्” (६।३।१९४) कृते नाम्नि । कुलालेन कृतं कौलालकम् । पारुटकम् । नाम्नीत्यभिधेयनियमार्थ तेन घटघटीशरावोदश्चनान्ये(ो ?)व भाण्डं कौलालकम् , २० न यत्किञ्चित्कुलालकृतम् । शूर्पायेव (आदिशब्देन पिटकपटलिकापिच्छिकायेव ) भाण्डं वारुटकं नान्यत् । एवमन्यत्राप्यभिधेयनियमः । कुलाल, वरुट, कार, निषाद, चण्डाल, सेना, सिरन्ध्र, देवराजन् , देवराज, परिषद्, वधू, रू(भ)द्र, अनबुह् , ब्रह्मन् , कुम्भकार, अश्वपाक, रुद्र (रुरु ?) इति कुलालादयः सप्तदश ॥ “सर्वचर्मण ईनेनौ” (६।३।१९५) नाम्नीत्यधिकारादभिधेयनियमः । सर्वश्वर्मणा कृतः सर्वचक्षणः सार्वचक्षणः-अत्र सर्वशब्दस्य कृतापेक्षस्य चर्मशब्देनायोगेऽपि २५ "नाम नाम्नै.” (३।१।१८) इति समासः ॥ "उरसो याऽणो" (६।३।१८६) नाग्नि । उरसा कृतः उरस्यः औरसः ॥ “छन्दस्यः” (६।३।१९७) छन्दस्शब्दात् कृतेऽर्थे यो निपात्यते । नाम्नि । छन्दसा इच्छया कृतः छन्दस्यः, न तु प्रवचनेन गायत्र्यादिना वा । नाम्नीत्यधिकारादभिधेयव्यवस्था । निपातनात् कचिदन्यत्रापि भवति-औं श्रावयेति चतुरक्षरम् । अस्तु औषडिति चतुरक्षरम् । येयजा मह इति पश्चाक्षरम् । यजेति ब्यक्षरम् । ब्यक्षरो वषट्कारः । एष वै सप्तदशाक्षरः छन्दस्यो यज्ञमनु३० विहितः-अत्र स्वार्थे यः । यथानुष्टुबादिरक्षरसमूहश्छन्दस्तथैषां सप्तदशानामक्षराणां समूहः छन्दस्य उच्यते ॥ "अमोऽधिकृत्य ग्रन्थे" (६।३।१९८) । द्वितीयान्तादधिकृत्य प्रन्थे यथाविहितं प्रत्ययः स्यात् । अधिकृत्य प्रस्तुत्य उद्दिश्येत्यर्थः । तदपेक्षा द्वितीया । सुभद्रामधिकृत्य कृतो ग्रन्थः सौभद्रः । सुतारां सौतारः । भीमरथमधिकृत्य कृताख्यायिका भैमरथी। कथं वासवदत्तामधिकृत्य कुताख्यायिका वासवदत्ता, उर्वशी, सुमनोहरा, बलिबन्धनं, सीताहरणमिति ? उपचारादन्थे ताच्छब्यं ३५ भविष्यति ॥ "ज्योतिषम्" (६।३।१९९) । निपातोऽयम् । ज्योतीष्यधिकृत्य कृतो प्रन्थो ज्योति Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560