Book Title: Haim Prakash Maha Vyakaranam Purvarddham
Author(s): Kshamavijay
Publisher: Hiralal Somchand Kot Mumbai

View full book text
Previous | Next

Page 470
________________ प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे तद्धिताः । तस्येदमित्यर्थः ३८३ अत्रादिशब्दानुसन्धानात् "हलसीरादिक" (६।३।१६१)। अणोऽपवादः । हलस्येदं हालिकम् । एवं सैरिकम् । “समिध आधाने टेन्यण्" (६।३।१६२) । आधीयते समित् येन तदाधानम् । अणोऽपवादः । टकारो ड्यर्थः । समिधामाधानो मत्रः सामिधेन्यो मत्रः । सामिधेनी ऋक् । पञ्चदश सामिधेन्यः । “विवाहे द्वन्द्वादकल्" (६।३।१६३) । अणोऽपवादः । लकारः स्त्रीत्वार्थः । अत्रिभरद्वाजानां विवाहः अत्रिभरद्वाजिका । वसिष्ठकाश्यपिका । भृग्वङ्गिरसिका ।५ कुत्सकुशिकिका । गर्गभार्गविका । कुरुवृष्णिका । कुरुकाशिका । “अदेवासुराऽऽदिभ्यो वैरे" (६।३।१६४) । देवासुरादिवर्जिताहन्द्वाद्वैरे इदमर्थेऽकल् स्यात् । अणोऽपवादः । ईयं तु परत्वाद्वाधते । बाभ्रवशालङ्कायनानामिदं वैरं बाभ्रवशालङ्कायनिका । काकोलकिका, श्वावराहिका, श्वशृगालिका, अहिनकुलिका । अदेवासुरादिभ्य इति किम् ? दैवासुरम् , राक्षोऽसुरम् , । देवासुरादयः प्रयोगगम्याः । "नटान्नृत्ते ज्यः” (६।३।१६५) । नटानामिदं नृत्तं नाट्यम् । “छन्दोगौक्त्थिकयाज्ञिक-१० बढचाच धर्माऽऽनायसङ्के" (६।३।१६६) । छन्दोगादिभ्यश्चतुर्यो नटाञ्च धर्मादौ इदमर्थे ज्यः स्यात् । छन्दोगानां धर्म आम्नायः सङ्घो वा छान्दोग्यम् । औक्त्थिक्यम् । याज्ञिक्यम् । बाढूच्यम् । नाट्यम् । “आथर्वणिकादणिक लुक् च” (६।३।१६७ ) । अस्मादिदमर्थेऽण् इकलोपश्चास्य । अथर्वणा प्रोक्तं वेदं वेत्त्यधीते वा आथर्वणिकः न्यायादित्वादिकण, अतएव निपातनाद्गणपाठसामर्थ्यावा प्रोक्ताल्लब् न भवति । आथर्वणिकानां धर्म आनायः सङ्घो वा आथर्वणः । चरणाकनि प्राप्ते वचनम् । १५ "चरणादकम्" (६।३।१६८)। चरणशब्दो वेदशाखावचनस्तद्योगात्तदध्यायिषु वर्त्तते, चरणवाचिनो धर्मादौ इदमर्थेऽकञ् स्यात् । अणोऽपवादः । ईयं तु परत्वाद्वाधते । कठानां धर्म आम्नायः सङ्घो वा काठकः । चरकानां चारककः । कालापानां कालापकः । पैष्पलादानां पैप्पलादकः । मौदानां मौदकः । आर्चाभिनामा भकः । वाजसनेयिनां वाजसनेयकः । “गोत्राददण्डमाणवशिष्ये" (६।३।१६९) । गोत्रवाचिनो दण्डादिवर्जिते इदमर्थेऽकञ् स्यात् । अणोऽपवादः । ईयात्रौ तु पर- २० त्वाद्वाधते । औपगवकम् , कापटवकम् , दाक्षकम् , प्लाक्षकम् , गार्गकम् , गाायणकम् (ग्लौचुकायनकम् , म्लौचुकायनकम् ) अदण्डमाणवशिष्य इति किम् ? काव्यस्यमे काण्वाः-दण्डमाणवाः, शिष्या वा । एवं गौकक्षाः "शकलादेर्यवः(६।३।२७) इत्यब् । दाक्षेरिमे दाक्षाः प्लाक्षाः माहकाः "वृद्धेऽञः" (६।३।२८) इत्यञ् । दण्डप्रधाना माणवाः दण्डमाणवाः, आश्रमिणां रक्षापरिचरणार्थाः । शिष्या अध्ययनार्था अन्तेवासिनः । रैवतिकादेरीया" (६।३।१७०) । अस्माद्गोत्रवा. २५ चिन इदमर्थे ईयः स्यात् । रैवतिकीयं शकटम् । रैवतिकीयः सङ्घादिः । रैवतिकीया दण्डमाणवशिष्याः । गौरपीवीयं शकटम् । गौरग्रीवीयः सङ्घादिः । गौरपीवीया दण्डमाणवशिष्याः ॥ रैवतिक, गौरग्रीवि, स्वापिशिष्य, क्षैमधन्वि (१मधृति इति मुद्रितबृहद्वृत्तौ), औदमेघि, औदवाहि, वैजवापि, इति रैवतिकादयः सप्त । "कौपिञ्जलहास्तिपदादण्" (६।३।१७१) । आभ्यां गोत्रवाचिभ्यामिदमर्थेऽण् । अकादेरपवादः । कुपिञ्जलस्यापत्यं कौपिञ्जलः । हस्तिपादस्यापत्यं हास्तिपादः । ३० अतो निपातनादेवाण पादस्य च पद्भावः । तयोरिदं कौपिञ्जलं हास्तिपदं शकटम् । कौपिञ्जला हास्तिपदा दण्डमाणवशिष्याः । ननु यथाविहितमित्यण् सिद्ध एव, न चेयः प्राप्नोति, तदभीष्टौ हि रैवतिकादावेवैतौ पठ्येयाताम् , तथा अकञः प्राप्तौ वचनमनर्थकं स्यात् तथाप्यत्राणग्रहणाभावे दण्डमाणवशिष्येष्वकमर्थमेतत्स्यात्तत्र ह्यकञ् प्रतिषिद्ध इति । णित्वं ड्यर्थं पुंवद्भावार्थं च-कौपिञ्जली स्थूणः । हास्तिपदी स्थूणः । “सङ्घघोषाऽङ्कलक्षणेऽञ्यनित्रा" (६।३।१७२ ) अबन्ताद्यजन्तादिनन्ताच गोत्रवाचिनः "तस्येदम्" इत्यर्थे सङ्कादावण स्यात् । अकोऽपवादः । अबू, बिदानामयं बैदः सङ्घो ३६ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560