Book Title: Haim Prakash Maha Vyakaranam Purvarddham
Author(s): Kshamavijay
Publisher: Hiralal Somchand Kot Mumbai

View full book text
Previous | Next

Page 451
________________ ३६४ महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघु"अभक्ष्या०" । निषेध इति-भक्ष्याच्छादनयोरित्यर्थः । भक्ष्याच्छादनयोर्मयडभावपक्षे च "तालानुषि" (६।२।३२) इत्यादिको विधिः सावकाशः । अयं च भस्ममयमित्यादौ । तत्रोभयप्राप्तौ परत्वादनेन मयद् भवति-तालमयं धनुः । त्रपुमयं जतुमयं शमीमयं पयोमयं द्वमयं उष्ट्रमयं उमामयं ऊर्णामयं एणीमयं कोशमयं परशव्यमयं कंसीमयम् । एके तु तालानुषि द्रोः प्राणिवाचिभ्यश्च ५मयट नेच्छन्ति । ' आदिशब्दसंसर्गात् “शरदर्भकूदीतृणसोमवल्वजात्" (६।२।४७) । एभ्यः षड्भ्योऽभक्याच्छादनवर्जविकारावयवयोर्मयट् स्यात् । शरमयम् । “दोरप्राणिनः" (६।२।४९) । दुसंज्ञकादप्राणिवाचिनो यथायोगं भक्ष्याच्छादनवर्जविकारावयवयोर्मयट् स्यात् । अणोऽपवादः । आम्रमयं शालमयं शाकमयं काशमयं तन्मयं यन्मयम् । अप्राणिन इति किम् ? श्वाविधो विकारोऽवयवो वा १० शौवाविधम् , श्वाविन्मयम् । चाषं चाषमयम् । “व्रीहेः पुरोडाशे" (६।२५१)। नित्यं मयट् । अणोऽपवादः । ब्रीहिमयः पुरोडाशः । पुरोडाश इति किम् ? त्रैहः ओदनः, ड्रहं भस्म । “तिलयवादनाग्नि" (६।२।५२) आभ्यां विकारावयवयोर्मयट् स्यात् , अनाम्नि । अणोऽपवादः । तिलमयम् यवमयम् । अनामीति किम् ? तैलम् । यवानां विकारो यावः स एव यावकः । “पिष्टात्" (६।२१५३)। विकारे मयट, अनाग्नि । अणोऽपवादः । पिष्टमयम् । "नाग्नि कः” (६।२।५४)। १५पिष्टशब्दानानि विकारे कः स्यात् । पिष्टस्य विकारः पिष्टिका । "लुब्बहुलं पुष्पमूले” इति अस्थायमर्थः-विकारावयवयोर्विहितस्य प्रत्ययस्य पुष्पे मूले विकारतयाऽवयवतया विवक्षिते बहुलं लुप् स्यात् । मल्लिकेति-मल्लिकाया विकारोऽवयवो वा पुष्पं मल्लिका । एवं यूथिका नवमालिका मालती; एष्वणो मयटो वा लुपि "यादेगौणस्याकिपस्तद्धितलुक्यगोणीसूच्योः ” (२।४।९५)। ज्यादेः प्रत्ययस्य गौणस्याकियन्तस्य तद्धितलुकि लुग् भवति, गोणीसूचीसम्बन्धिनस्तु न स्यात् । पञ्च२० कुमार्यों देवताऽस्य पञ्चकुमारः, पञ्चभिर्धीवरीभिः क्रीतः पञ्चधीवा, पञ्चेद्राण्यो देवताऽस्य पञ्चेन्द्रः, पञ्चाग्निः एषु डीनिवृत्तौ तत्सन्नियोगशिष्टयोरागमादेशयोरपि निवृत्तिः । द्वे स्त्रियौ देवतेऽस्य अण् "द्विगोरनपत्ये०" (६।१।२४) इति लुप् द्विस्त्रः । पञ्चभिर्युवतिभिः क्रीतः पञ्चयुवा । एवं पञ्चखट्वः, पञ्चसखः । यदा सखिशब्दात् डयां पञ्चभिः सखीभिः क्रीतः इति वाक्ये इकणो लोपेऽनेन डीनिवृत्तिस्तदा “राजन्सखेः” (७।३।१०६) इति समासान्तः, यदा तु सखशब्दात्तदा ङीनि२५वृत्तौ सिद्धमेव । द्विपनुः । कुवल्या विकारः फलं कुवलम् । एवं बदरम् आमलकम् । जयादेरिति किम् ? पञ्चभिः प्रेयोभिः क्रीतः पञ्चप्रेयान् । गौणस्येति किम् ? अवन्तेरपत्यं स्त्री अवन्ती, एवं कुन्ती; "कुन्त्यवन्तेः स्त्रियाम" (६।१।१२१) इत्यपत्यप्रत्ययलुप् । कुरू!-अत्र हि तद्धितलुकि कृते जातौ ज्यूङावित्यगौणत्वम् । अकिप इति किम् ? कुमारीमिच्छति कुमारीयतीति विप् , तस्य लोपे कुमारी । पञ्चकुमार्यो देवताऽस्य पञ्चकुमारी, एवं पञ्चेन्द्राणी पश्चयुवती । तद्धितलुकीति किम् ? औपगवीत्वम् । ३० कथं हरीतक्याः फलं (विकारो वा) हरीतकी, एवं कोशातकी; अत्र लुबन्तस्य स्त्रीत्वात् पुनर्गौरादिलक्षणो डीः । अगोणीसूच्योरिति किम् ? पञ्चभिर्गोणीभिः क्रीतः पञ्चगोणिः । एवं पञ्चसूचिः ॥ इति स्त्रीप्रत्ययनिवृत्तौ लुबन्तस्य स्त्रीत्वात्पुनः स्वीप्रत्ययः । जातेर्जातिः। पाटल्याः पाटलाया वा पाटलं पाटला वा । यदाहा-पुष्पे लीबेऽपि पाटला । पाटलीत्यपि । कुन्दम् सिन्दुवारम् कदम्बम् करवीरम् अशोकम् चम्पकम् कर्णिकारम् कोविदारम् । विदार्या मूलं विदारीति-एवं अंशुमती, (बृहती,) हरिद्रा माधवी ३५ मुस्ता । कचिन्न भवति-वरणस्य पुष्पाणि वारणानि । एरण्डस्य मूलानि ऐरण्डानि । बिल्वस्य बैल्वानि Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560