Book Title: Haim Prakash Maha Vyakaranam Purvarddham
Author(s): Kshamavijay
Publisher: Hiralal Somchand Kot Mumbai

View full book text
Previous | Next

Page 458
________________ प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे तद्धिताः । देवतार्थावधिकाराः ३७१ देवता अस्य मरुत्वतीयं मरुत्वत्यम् । वास्तोष्पतिः शक्रः, “वाचस्पतिवास्तोष्पतिदिवस्पतिदिवोदासम्" (३।२।३६) इत्यलुप्समासः । वास्तोष्पतिर्देवतास्य वास्तोष्पतीयम् वास्तोष्पत्यम् । गृहमेधशब्दोऽकारान्तः । गृहमेधो देवता अस्य गृहमेधीयं गृहमेध्यम् ॥ "वावृतुपियूषसो यः” (६।२।१०९)। अणोऽपवादः । वायुर्देवताऽस्य वायव्यम् । एवं ऋतव्यम् पितृव्यम्, उषा देवतास्य उषस्यम् । "उषस्शब्दः स्त्रीलिङ्गो दिवो दुहितरं देवतां वक्ति" इति मनोरमायाम् ॥ "महाराजप्रोष्ठपदादिकण्"५ (६।२।११०)। आभ्यामिकण् स्यात् । अणोऽपवादः । महाराजो देवताऽस्य माहाराजिकः, माहाराजिकी । प्रौष्ठपदिकः प्रौष्ठपदिकी । “कालाद्भववत्" (६।२।१११)। कालविशेषवाचिभ्यो यथा भवेऽर्थे प्रत्यया वक्ष्यन्ते तथा साऽस्य देवतेत्यर्थेऽपि स्युः । वत्सर्वसादृश्यार्थः, तेन याभ्यः प्रकृतिभ्यो येन विशेषेण ये प्रत्यया भवन्ति, तथैव ते इहापि भवन्ति । यथा मासे भवं मासिकं सांवत्सरिकं हैमनं वासन्तं प्रावृषेण्यम् , तथा मासो देवताऽस्य मासिकमित्यादि तथैव ॥ "आदेश्छन्दसः१० प्रगाथे” (६।२।११२) (सेति प्रकृतिरस्येति प्रत्ययार्थश्चानुवर्तते । तयोर्यथाक्रमं विशेषणे आदेश्छन्दस इति प्रगाथे इति च ) सेति प्रथमान्तादादिभूताच्छन्दसोऽस्येति षष्ठ्यर्थे प्रगाथेऽभिधेये यथाविहितं प्रत्ययः स्यात् । यत्र द्वे ऋचौ प्रग्रन्थनेन (प्रकृष्टरचनाविशेषेण ) प्रकर्षगानेन वा (उच्चारविशेषेणेत्यर्थः) तिस्रः क्रियन्ते स मनविशेषः प्रगाथः । पडिरादिरस्य प्रगाथस्य पाङ्कः प्रगाथः । एवमानुष्टभः, जागतः ॥ “योद्धप्रयोजनायुद्धे” (६।२।११३) । प्रथमान्ताद्योद्धृवाचिनः प्रयोजनवाचिनश्च १५ अस्येति षष्ठ्यर्थे युद्धेऽभिधेये यथाविहितं प्रत्ययः स्यात् । विद्याधरा योद्धारोऽस्य युद्धस्य वैद्याधरं युद्धम् ॥ प्रवृत्तिसाध्यं फलं प्रयोजनम् । सुभद्रा प्रयोजनमस्य सौभद्रमेवं सौतारं युद्धम् । अत्र सुभद्रादिशब्दस्तत्प्राप्तौ वर्तते इति प्रयोजनम् । ( योद्धप्रयोजनादिति किम् ? मासोऽस्य युद्धस्य । युद्ध इति किम् ? सुभद्राप्रयोजनमस्य वैरस्य ) ॥ "भावघञोऽस्यां णः” (६।२।११४) । भावे यो घञ् तदन्तादस्यामिति स्त्रीलिङ्गे सप्तम्यर्थे णः स्यात् । प्रपातोऽस्यां तिथौ वर्तते इति प्रपाता । एवं दाण्डघाता, २० मौसलपाता भूमिः । स्त्रीलिङ्गग्रहणादिह न भवति-दण्डपातोऽस्मिन्दिवसे । इति करणानुवृत्तेः कचिन्न भवति-द्रोणपाकोऽस्यां स्थाल्याम् । केवलाच भावे घनन्तान भवति ॥ "श्यैनम्पाता-तैलम्पाता" (६।२।११५) श्येनतिलशब्दयोर्भावघमन्ते पातशब्दे परे मो न्तो निपात्यते, प्रत्ययस्तु पूर्वेणैव सिद्धः । श्येनपातोऽस्यां वर्त्तते श्यैनम्पाता । तिलपातोऽस्यां वर्त्तते तैलम्पाता तिथिः क्रियाभूमिः क्रीडा वा ॥ "प्रहरणात्क्रीडायां णः” (६।२।११६) । ( दण्डं ) प्रहरणमस्यां क्रीडायां दाण्डा । एवं मौष्टा २५ पादा क्रीडा । यत्राद्रोहेण घातप्रतिघातौ स्यातां सां क्रीडा । "भावपञोऽस्यां णः" इत्यनन्तरो णो नानुवर्तते, क्रीडाया अर्थान्तरत्वात् । यथा "श्रवणाश्वत्थानाभ्यः" (६।२।८) इत्यत्रोपात्तोऽप्रत्ययः “षष्ठ्याः समूहे" ( ६।२।९) इत्यत्र नानुवर्तते । (अन्यथा "भावघयोऽस्यां णः” इत्यतोऽधिकारायातेनैव सिद्ध्यति ) ततो यथाविहितं प्रत्ययः स्यादिति वचनादणेव स्यादितीह पुनर्णग्रहणम् ॥५१॥ तद्वेत्त्यधीते ॥ ५२ ॥ [सि० ६२११७] द्वितीयान्ताद्वेत्यधीते वेत्यर्थयोरणादयः स्युः । वैयाकरणः ॥ "न्यायादेरिकण्" (६।२।११८) नैयायिकः ॥५२॥ "तद्वे." । वैयाकरण इति एवं मौहूर्तः, औत्पातः, नैमित्तः । केचित्तु मुहूर्तनिमित्तशब्दौ न्यायादौ पठन्ति तन्मते मौहूर्तिकः, नैमित्तिकः । छन्दोऽधीते छान्दसः । नैरुक्तः । घटं वेत्ति पटं वेत्तीत्यादावनभिधानान भवति । केचित्तु वेदनाऽध्ययनयोरेकविषयतायामेवेच्छन्ति; तन्मते अमिष्टोमं यज्ञं ३५ Jain Education International For Personal & Private Use Only www.jainelibrary.org


Page Navigation
1 ... 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560