Book Title: Haim Prakash Maha Vyakaranam Purvarddham
Author(s): Kshamavijay
Publisher: Hiralal Somchand Kot Mumbai

View full book text
Previous | Next

Page 466
________________ प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे तद्धिताः । भवाद्यर्थाः ३७९ वैभ्यस्तत्र भवे व्यः स्यात् । अणोऽपवादः । परितः सर्वतो भवं मुखं परिमुखम् । अत एव वचनादव्ययीभावः । वर्जनार्थो वा परि:- मुखात् परि परिमुखम्, “पर्यपाङ्वयें” ( ३।१।३२ ) इत्यनेनाव्ययी - भावः । परिमुखे भवः पारिमुख्यः । परिहनु तत्र भवः पारिहनव्यः । पर्योष्ठयः । परिमुखादेरिति किम् ? औपकूलम्, औपशाखम्, औपकुम्भम्, औपखलम्, आनुकुम्भम् आनुकूलम्, आनुखलम् । अव्ययीभावादिति किम् ? परिग्लानो मुखाय परिमुखस्तत्र भवः पारिमुखः । परिमुख, परिहनु, ५ पर्योष्ठ, पर्युलूखल, परिरथ, परिसिर, परिसीर, उपसीर, अनुसीर, उपस्थूण १०, उपस्थूल, उपकपाल, उपकलाप, अनुपथ, अनुगङ्ग, अनुतिल, अनुशीत, अनुमाष, अनुयव, अनुयूप, २० अनुवंश, अनुपद, २२ इति परिमुखादयो द्वाविंशतिः । अनुवंशाद्दिगादित्वाद्योऽपि - अनुवंश्यः । " अन्त:पूर्वादिकण” ( ६।३।१३७ ) । अन्तःशब्दपूर्वादव्ययीभावाद्भवे इकण् स्यात् । अणोऽपवादः । अगारस्यान्तः अन्तरगारम्, तत्र भव आन्तरगारिकः, आन्तर्गेहिकः, आन्तर्वेश्मिकः, आन्तःपुरिकः, १० अव्ययीभावादित्येव - अन्तर्गतमगारस्य, अन्तःस्थं वा अगारं अन्तरगारम्, तत्र भवमान्तरगारम्, आन्तःपुरम्, आन्तःकरणम् || "पर्यऽनोग्रमात्" ( ६।३।१३८ ) । पर्यनुपूर्वग्रामशब्दान्तादव्ययीभावाद्भवे इकण् स्यात् । अणोऽपवादः । ग्रामात्परि परिश्रामम्, ग्रामस्य समीपमनुग्रामम्, तत्र भवः पारिप्रामिकः, आनुग्रामिकः । अव्ययीभावादित्येव - परितो ग्रामः परिग्रामस्तत्र भवः पारिग्रामः ॥ “उपाज्जानुनी विकर्णात्प्रायेण” ( ६।३।१३९) उपपूर्वजान्वादिशब्दान्तादव्ययीभावादिकण् १५ स्यात्, प्रायेण । तत्र भवे (- यस्तत्र बाहुल्येन भवति, अन्यत्र च कदाचिद्भवति तस्मिन्नित्यर्थः ) । जानुनः समीपमुपजानु, प्रायेणोपजानु भवति, अन्यत्र कदाचित्, औपजानुकः सेवकः । एवं ( औपजानुकं शाटकम् ) औपनीविकं ग्रीवादाम, कार्षापणं वा । औपकर्णिकः सूचकः । प्रायेणेति किम् ? नित्यम्भवे मा भूत् - औपजानवं मांसम् ( औपजानवं गडु, ) जानुशब्दो देहावयवो नोपजानुशब्द इति दिगादिदेहांशादिति यो न स्यात् ।। " रूढावन्तः पुरादिकः” ( ६।३।१४० ) । एकपुरुषपरिग्रहे स्त्रीसमुदाये, २० उपचारात्तन्निवासेऽपि रूढावन्तः पुरशब्दादिकः स्यात् । अन्तःपुरे भवा अन्तःपुरिका स्त्री । रूढाविति किम् ? पुरस्यान्तर्गतम् अन्तःपुरम् । यथान्तरङ्गुलो नख इति । तत्र भवः आन्तःपुरः । पुरस्यान्तरन्तःपुरमिति अव्ययीभावादिकण् स्यात्, आन्तःपुरिक इति ॥ " कर्णललाटात्कलु” ( ६।३।१४१ ) । रूढौ–प्रकृतिप्रत्ययसमुदायश्चेत् कचिदूढो भवति । कर्णिका कर्णाभरणविशेषः, पद्माद्यवयवश्च । ललाटिका- ललाटमण्डनम् । रूढावित्येव - कर्णे भवं कर्ण्यम्, ललाट्यम्; दिगादिदेहांशाद्यः । लकारः २५ स्त्रीत्वार्थः । ** इति भवार्थप्रकरणम् । 93 " तस्य व्याख्याने च ग्रन्थात् " ( ६ | ३ | १४२ ) ग्रन्थः शब्दसन्दर्भः । स व्याख्यायते ( अवयवशः कथ्यते ) येन तद्व्याख्यानम् । तस्येति षष्ठ्यन्ताद्व्याख्यानेऽर्थे तत्रेति सप्तम्यन्ताच्च भवेऽर्थे यथाविहितं प्रत्ययः स्यात् । चकारस्तत्र भवे इत्यस्यानुकर्षणार्थः । वाक्यार्थसमीपस्थश्चकारः । पूर्व - ३० वाक्यार्थं समुञ्चिनोति । कृतां व्याख्यानं कृत्सु भवं वा कार्त्तम् । अत्र सूत्रे युगपदुभयोस्तस्य व्याख्याने तत्र भवे चेत्यर्थयोरुपादानं वक्ष्यमाणः सकलोऽप्यपवाद विधिरनयोरर्थयोर्यथा स्यादित्येवमर्थम् । ननु ३२ १ पुरस्य शरीरस्य अन्तर्गतं चित्तस्थं गृहस्य वाऽन्तर्गतम् । २ रूढाविति वचनात् अव्ययीभावादिति निवृत्तम्, अव्ययीभावे रूढेरसम्भवात् । अन्तःपुरमिति ह्यत्र राज्ञोऽन्तः पुरमिति राज्ञः स्त्रीवर्ग उच्यते नासावव्ययीभावार्थों भवति । अव्ययीभावो हि पूर्वपदार्थप्रधानोऽन्तरर्थप्रधान इति पूर्वेणेकणेत्र भवतीति । ३ कर्णे भवेति भवार्थस्तु व्युत्पत्तिमात्रम्, पद्माद्यवयवस्य कर्णे अभावात् । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560