Book Title: Haim Prakash Maha Vyakaranam Purvarddham
Author(s): Kshamavijay
Publisher: Hiralal Somchand Kot Mumbai

View full book text
Previous | Next

Page 452
________________ प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे तद्धिताः । वैकारिकाः । चातुरर्थिकाः ३६५ 1 क्वचिद्विकल्प:- शिरीषस्य पुष्पाणि शिरीषाणि, शैरीषाणि । हीबेरस्य मूलानि ह्रीबेराणि, हैबेराणि । कचित्पुष्पमूलाभ्यामन्यत्रापि भवति - आमलकस्य विकारो वृक्षः आमलकी । बदरी । व्रीहेर्विकारः स्तम्बो व्रीहिः । " फले" इत्यस्यायमर्थः - विकारेऽवयवे वा फले विवक्षिते प्रत्ययस्य लुप् स्यात् । आमलकमिति - आमलक्या विकारोऽवयवो वा फलमामलकम् । एवं बदर्या बदरं, कुवल्याः कुवलम्, भल्लातक्या भल्लातकम्, ब्रीहिः यवः मुद्द्रः माषः गोधूमः निष्पावः तिलः कुलत्थ: हरीतकी पिप्पली कोशातकी ५ पाकी अर्जुनपाकी कर्कटी नखरख ( ज ? ) नी शष्कण्डी दण्डी दोडी दाडी पथ्या अम्लिका चिचा द्राक्षा घुक्षा ध्वाड्डा मृद्वीका कणा बला एला शाला काला गर्गरिका कण्टकारिका शेफालिका ओषधिः कर्कारुः । हरितक्यादिभ्यो लुपि प्रकृतिलिङ्गमेव । तत्र पूर्वस्य स्त्रीप्रत्ययस्य लुपि पुनः स एव स्त्रीप्रत्ययः । यद्यप्यामलकादीनि प्रकृत्यन्तराणि सन्ति, तथाप्यामलक्यादिभ्यः प्रत्ययश्रुतिनिवृत्त्यर्थं वचनम् । , अत्रायं विशेष:-- “ लक्षादेरण" ( ६।२।५९ ) । फले बिकारेऽवयवे च विवक्षिते । विधानसा - १० मर्थ्याच्चास्य लुप् न स्यात् । प्लाक्षं फलम् एवं नैयग्रोधम् । लक्ष, न्यग्रोध, अश्वत्थ, इङ्गुदी, वेणु, बृहती, सगु, सकु, क्रतु इति नवकः प्रक्षादिः । " जम्ब्वा वा " ( ६।२।६० ) । जम्बूशब्दाद्विकारे ऽवयवे बाफले विवक्षिते अण्प्रत्ययो वा स्यात् । पक्षे यथाप्राप्तं प्रत्ययस्तस्य च लुप् । जम्ब्वा विकारोऽवयवो बा फलं जाम्बवम्, पक्षे जम्बू: जम्बु । लुपि स्त्रीनपुंसकते । “न द्विरद्रुवयगोमयफलात् " ( ६।२।६१ ) । द्रुवयं गोमयं फलं च वर्जयित्वाऽन्यस्मान्नाम्नो विकारावयवयोर्द्वः प्रत्ययो न स्यात् । १५ कपोतस्य विकारोऽवयवो वा कापोतः कापोतस्य विकारोऽवयवो वेति “दोरप्राणिनः " ( ६।२।४९ ) इति मयट् न भवति । एवं बैल्वः ऐणेयः शामीलः औष्ट्रकः कांस्यः पारशवः । अद्रुवयगोमयफलादिति किम् ? द्रौवयं खण्डम् | गौमयं भस्म । कापित्थो रसः । कथं कपोतस्य मांसं कापोतम् तस्य विकारः कापोतो रसः, पलाशस्यावयवः पालाशी शाखा, तस्याऽवयवः पालाशी समित् इति ? विकारेऽपि प्रकृतिशब्दो वर्त्तते - मुदैः शालीन् भुते; मुद्गविकारै: शालिविकारानिति गम्यते । गोभिः सन्नद्धो २० वहति-गोविकारैश्वर्मभिरिति गम्यते । अवयवेऽप्यवयविशब्दो वर्त्तते - पूर्वे पञ्चालाः, उत्तरे पञ्चालाः । ग्रामो दग्धः पटो दग्ध इति । तत्र विकारवृत्तेः प्रकृतिशब्दादवयववृत्तेरवयविशब्दाच्च प्रत्ययो भवति । चिकारविकारोऽपि वा विकारै एव; अवयवावयवोऽप्यवयव इति । "अवेर्दुग्धे सोढदूसमरी सम्” ( ६ |२| ६४ ) । अविशब्दादुग्धेऽर्थे सोढादयस्त्रयः प्रत्ययाः स्युः । अविसोढं अबिदूसं अविमरीसम् । इति वैकारिकाः प्रत्ययाः । २५ तदत्रास्ति १ तेषां निवासः २ तस्माददूरभवं ३ तेन निर्वृत्तं ४ चेत्यर्थचतुष्टयेऽणादयो मतुव यथार्हं देशे नाम्नि च वक्तव्याः । औदुम्बरं १ शैवं २ वैदिशं पुरं ३ कौशाम्बी पुरी ४ ॥ *उदुम्बरावती 'मधुमान् || "नडकुमुदवेतसमहिषाडित् ” ( ६ | २|७४ ) | मतुः । नान् कुमुद्वान् ॥ "नडशादादू डुलः” ( ६।२/७५ ) नड्डुलम्, शाद्वलम् ॥ ५० ॥ →→ इति चातुरर्थिकाः ॥ ● तदत्रास्तीत्यादिचातुरर्थिकप्रत्यय सङ्क्षेपस्तत्र " तदत्रास्ति” ( ६।२।७० ) तदिति प्रथमान्तादति सप्तम्यर्थे यथाविहितं प्रत्ययः स्यात्, प्रथमान्तं चेदस्तीति स्यात् । अत्रापि इति करणो विवक्षार्थोऽनुवर्त्तत एव तेन प्रसिद्धे नाम्नि भूमादौ चार्थे भवति; अत एव चोभयप्राप्तौ परोऽपि मत्वर्थीयोऽनेन ३३ १ कापोतं प्रति उत्तरं दत्वा पालाश प्रत्याह विकार एवेति । प्रकृतेरपीत्यर्थः । २ क्रियतेऽनेनार्थप्रतीतिरिति करणः शब्दः । Jain Education International For Personal & Private Use Only ३० www.jainelibrary.org

Loading...

Page Navigation
1 ... 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560