________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे तद्धिताः । वैकारिकाः । चातुरर्थिकाः
३६५
1
क्वचिद्विकल्प:- शिरीषस्य पुष्पाणि शिरीषाणि, शैरीषाणि । हीबेरस्य मूलानि ह्रीबेराणि, हैबेराणि । कचित्पुष्पमूलाभ्यामन्यत्रापि भवति - आमलकस्य विकारो वृक्षः आमलकी । बदरी । व्रीहेर्विकारः स्तम्बो व्रीहिः । " फले" इत्यस्यायमर्थः - विकारेऽवयवे वा फले विवक्षिते प्रत्ययस्य लुप् स्यात् । आमलकमिति - आमलक्या विकारोऽवयवो वा फलमामलकम् । एवं बदर्या बदरं, कुवल्याः कुवलम्, भल्लातक्या भल्लातकम्, ब्रीहिः यवः मुद्द्रः माषः गोधूमः निष्पावः तिलः कुलत्थ: हरीतकी पिप्पली कोशातकी ५
पाकी अर्जुनपाकी कर्कटी नखरख ( ज ? ) नी शष्कण्डी दण्डी दोडी दाडी पथ्या अम्लिका चिचा द्राक्षा घुक्षा ध्वाड्डा मृद्वीका कणा बला एला शाला काला गर्गरिका कण्टकारिका शेफालिका ओषधिः कर्कारुः । हरितक्यादिभ्यो लुपि प्रकृतिलिङ्गमेव । तत्र पूर्वस्य स्त्रीप्रत्ययस्य लुपि पुनः स एव स्त्रीप्रत्ययः । यद्यप्यामलकादीनि प्रकृत्यन्तराणि सन्ति, तथाप्यामलक्यादिभ्यः प्रत्ययश्रुतिनिवृत्त्यर्थं वचनम् ।
,
अत्रायं विशेष:-- “ लक्षादेरण" ( ६।२।५९ ) । फले बिकारेऽवयवे च विवक्षिते । विधानसा - १० मर्थ्याच्चास्य लुप् न स्यात् । प्लाक्षं फलम् एवं नैयग्रोधम् । लक्ष, न्यग्रोध, अश्वत्थ, इङ्गुदी, वेणु, बृहती, सगु, सकु, क्रतु इति नवकः प्रक्षादिः । " जम्ब्वा वा " ( ६।२।६० ) । जम्बूशब्दाद्विकारे ऽवयवे बाफले विवक्षिते अण्प्रत्ययो वा स्यात् । पक्षे यथाप्राप्तं प्रत्ययस्तस्य च लुप् । जम्ब्वा विकारोऽवयवो बा फलं जाम्बवम्, पक्षे जम्बू: जम्बु । लुपि स्त्रीनपुंसकते । “न द्विरद्रुवयगोमयफलात् " ( ६।२।६१ ) । द्रुवयं गोमयं फलं च वर्जयित्वाऽन्यस्मान्नाम्नो विकारावयवयोर्द्वः प्रत्ययो न स्यात् । १५ कपोतस्य विकारोऽवयवो वा कापोतः कापोतस्य विकारोऽवयवो वेति “दोरप्राणिनः " ( ६।२।४९ ) इति मयट् न भवति । एवं बैल्वः ऐणेयः शामीलः औष्ट्रकः कांस्यः पारशवः । अद्रुवयगोमयफलादिति किम् ? द्रौवयं खण्डम् | गौमयं भस्म । कापित्थो रसः । कथं कपोतस्य मांसं कापोतम् तस्य विकारः कापोतो रसः, पलाशस्यावयवः पालाशी शाखा, तस्याऽवयवः पालाशी समित् इति ? विकारेऽपि प्रकृतिशब्दो वर्त्तते - मुदैः शालीन् भुते; मुद्गविकारै: शालिविकारानिति गम्यते । गोभिः सन्नद्धो २० वहति-गोविकारैश्वर्मभिरिति गम्यते । अवयवेऽप्यवयविशब्दो वर्त्तते - पूर्वे पञ्चालाः, उत्तरे पञ्चालाः । ग्रामो दग्धः पटो दग्ध इति । तत्र विकारवृत्तेः प्रकृतिशब्दादवयववृत्तेरवयविशब्दाच्च प्रत्ययो भवति । चिकारविकारोऽपि वा विकारै एव; अवयवावयवोऽप्यवयव इति । "अवेर्दुग्धे सोढदूसमरी सम्” ( ६ |२| ६४ ) । अविशब्दादुग्धेऽर्थे सोढादयस्त्रयः प्रत्ययाः स्युः । अविसोढं अबिदूसं अविमरीसम् । इति वैकारिकाः प्रत्ययाः ।
२५
तदत्रास्ति १ तेषां निवासः २ तस्माददूरभवं ३ तेन निर्वृत्तं ४ चेत्यर्थचतुष्टयेऽणादयो मतुव यथार्हं देशे नाम्नि च वक्तव्याः । औदुम्बरं १ शैवं २ वैदिशं पुरं ३ कौशाम्बी पुरी ४ ॥ *उदुम्बरावती 'मधुमान् || "नडकुमुदवेतसमहिषाडित् ” ( ६ | २|७४ ) | मतुः । नान् कुमुद्वान् ॥ "नडशादादू डुलः” ( ६।२/७५ ) नड्डुलम्, शाद्वलम् ॥ ५० ॥
→→ इति चातुरर्थिकाः ॥ ●
तदत्रास्तीत्यादिचातुरर्थिकप्रत्यय सङ्क्षेपस्तत्र " तदत्रास्ति” ( ६।२।७० ) तदिति प्रथमान्तादति सप्तम्यर्थे यथाविहितं प्रत्ययः स्यात्, प्रथमान्तं चेदस्तीति स्यात् । अत्रापि इति करणो विवक्षार्थोऽनुवर्त्तत एव तेन प्रसिद्धे नाम्नि भूमादौ चार्थे भवति; अत एव चोभयप्राप्तौ परोऽपि मत्वर्थीयोऽनेन ३३
१ कापोतं प्रति उत्तरं दत्वा पालाश प्रत्याह विकार एवेति । प्रकृतेरपीत्यर्थः । २ क्रियतेऽनेनार्थप्रतीतिरिति करणः शब्दः ।
Jain Education International
For Personal & Private Use Only
३०
www.jainelibrary.org