________________
३६४
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघु"अभक्ष्या०" । निषेध इति-भक्ष्याच्छादनयोरित्यर्थः । भक्ष्याच्छादनयोर्मयडभावपक्षे च "तालानुषि" (६।२।३२) इत्यादिको विधिः सावकाशः । अयं च भस्ममयमित्यादौ । तत्रोभयप्राप्तौ परत्वादनेन मयद् भवति-तालमयं धनुः । त्रपुमयं जतुमयं शमीमयं पयोमयं द्वमयं उष्ट्रमयं उमामयं ऊर्णामयं एणीमयं कोशमयं परशव्यमयं कंसीमयम् । एके तु तालानुषि द्रोः प्राणिवाचिभ्यश्च ५मयट नेच्छन्ति ।
' आदिशब्दसंसर्गात् “शरदर्भकूदीतृणसोमवल्वजात्" (६।२।४७) । एभ्यः षड्भ्योऽभक्याच्छादनवर्जविकारावयवयोर्मयट् स्यात् । शरमयम् । “दोरप्राणिनः" (६।२।४९) । दुसंज्ञकादप्राणिवाचिनो यथायोगं भक्ष्याच्छादनवर्जविकारावयवयोर्मयट् स्यात् । अणोऽपवादः । आम्रमयं
शालमयं शाकमयं काशमयं तन्मयं यन्मयम् । अप्राणिन इति किम् ? श्वाविधो विकारोऽवयवो वा १० शौवाविधम् , श्वाविन्मयम् । चाषं चाषमयम् । “व्रीहेः पुरोडाशे" (६।२५१)। नित्यं मयट् ।
अणोऽपवादः । ब्रीहिमयः पुरोडाशः । पुरोडाश इति किम् ? त्रैहः ओदनः, ड्रहं भस्म । “तिलयवादनाग्नि" (६।२।५२) आभ्यां विकारावयवयोर्मयट् स्यात् , अनाम्नि । अणोऽपवादः । तिलमयम् यवमयम् । अनामीति किम् ? तैलम् । यवानां विकारो यावः स एव यावकः । “पिष्टात्"
(६।२१५३)। विकारे मयट, अनाग्नि । अणोऽपवादः । पिष्टमयम् । "नाग्नि कः” (६।२।५४)। १५पिष्टशब्दानानि विकारे कः स्यात् । पिष्टस्य विकारः पिष्टिका । "लुब्बहुलं पुष्पमूले” इति
अस्थायमर्थः-विकारावयवयोर्विहितस्य प्रत्ययस्य पुष्पे मूले विकारतयाऽवयवतया विवक्षिते बहुलं लुप् स्यात् । मल्लिकेति-मल्लिकाया विकारोऽवयवो वा पुष्पं मल्लिका । एवं यूथिका नवमालिका मालती; एष्वणो मयटो वा लुपि "यादेगौणस्याकिपस्तद्धितलुक्यगोणीसूच्योः ” (२।४।९५)। ज्यादेः प्रत्ययस्य गौणस्याकियन्तस्य तद्धितलुकि लुग् भवति, गोणीसूचीसम्बन्धिनस्तु न स्यात् । पञ्च२० कुमार्यों देवताऽस्य पञ्चकुमारः, पञ्चभिर्धीवरीभिः क्रीतः पञ्चधीवा, पञ्चेद्राण्यो देवताऽस्य पञ्चेन्द्रः, पञ्चाग्निः एषु डीनिवृत्तौ तत्सन्नियोगशिष्टयोरागमादेशयोरपि निवृत्तिः । द्वे स्त्रियौ देवतेऽस्य अण् "द्विगोरनपत्ये०" (६।१।२४) इति लुप् द्विस्त्रः । पञ्चभिर्युवतिभिः क्रीतः पञ्चयुवा । एवं पञ्चखट्वः, पञ्चसखः । यदा सखिशब्दात् डयां पञ्चभिः सखीभिः क्रीतः इति वाक्ये इकणो लोपेऽनेन
डीनिवृत्तिस्तदा “राजन्सखेः” (७।३।१०६) इति समासान्तः, यदा तु सखशब्दात्तदा ङीनि२५वृत्तौ सिद्धमेव । द्विपनुः । कुवल्या विकारः फलं कुवलम् । एवं बदरम् आमलकम् । जयादेरिति किम् ?
पञ्चभिः प्रेयोभिः क्रीतः पञ्चप्रेयान् । गौणस्येति किम् ? अवन्तेरपत्यं स्त्री अवन्ती, एवं कुन्ती; "कुन्त्यवन्तेः स्त्रियाम" (६।१।१२१) इत्यपत्यप्रत्ययलुप् । कुरू!-अत्र हि तद्धितलुकि कृते जातौ ज्यूङावित्यगौणत्वम् । अकिप इति किम् ? कुमारीमिच्छति कुमारीयतीति विप् , तस्य लोपे कुमारी ।
पञ्चकुमार्यो देवताऽस्य पञ्चकुमारी, एवं पञ्चेन्द्राणी पश्चयुवती । तद्धितलुकीति किम् ? औपगवीत्वम् । ३० कथं हरीतक्याः फलं (विकारो वा) हरीतकी, एवं कोशातकी; अत्र लुबन्तस्य स्त्रीत्वात् पुनर्गौरादिलक्षणो डीः । अगोणीसूच्योरिति किम् ? पञ्चभिर्गोणीभिः क्रीतः पञ्चगोणिः । एवं पञ्चसूचिः ॥ इति स्त्रीप्रत्ययनिवृत्तौ लुबन्तस्य स्त्रीत्वात्पुनः स्वीप्रत्ययः । जातेर्जातिः। पाटल्याः पाटलाया वा पाटलं पाटला वा । यदाहा-पुष्पे लीबेऽपि पाटला । पाटलीत्यपि । कुन्दम् सिन्दुवारम् कदम्बम् करवीरम् अशोकम् चम्पकम् कर्णिकारम् कोविदारम् । विदार्या मूलं विदारीति-एवं अंशुमती, (बृहती,) हरिद्रा माधवी ३५ मुस्ता । कचिन्न भवति-वरणस्य पुष्पाणि वारणानि । एरण्डस्य मूलानि ऐरण्डानि । बिल्वस्य बैल्वानि
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org