________________
३६३
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे तद्धिताः । वैकारिकप्रत्ययाधिकारः स्यात् । दुमयटोऽपवादः । हाटकस्य विकारो हाटको निष्कः । हैमो निष्क इत्यत्र परत्वाद्धेमादिलक्षणोऽबेव । अर्थग्रहणं स्वरूपविधिव्युदासार्थम् । मान इति किम् ? हाटकमयी यष्टिः । “द्रोर्वयः" (६।२।४३ ) मानविकारे । यस्यापवादः। द्रोर्विकारो दुवयं मानम् । "तुलाद्यैः पौतवं मानं द्रुवयं कुडवादिभिः” इति अभिधानचिन्तामणौ । “मानाक्रीतवत् (६।२।४४ ) । मीयते परिच्छिद्यते येन तन्मानं इयत्ता परिच्छित्तिहेतुः सङ्ख्यादिरच्यते । मानवाचिनः शब्दाद्विकारे क्रीतवत्प्रत्यय-५ विधिः स्यात् । यथा शतेन क्रीतं शत्यं शतिकम् , तथा शतस्य विकारः शत्यः शतिकः । एवं साहस्रः नैष्किकः । वत् सर्वविधिसादृश्यार्थः, तेन लुबादिकस्यापि अतिदेशो भवति-द्विशतः त्रिशतः द्विसहस्रः द्विसाहस्रः द्विनिष्कः द्विनैष्किकः । "हेमादिभ्योऽ" (६।२।४५) एभ्यो यथायोगं विकारेऽवयवे च नित्यमञ् स्यात् । हेम्नो विकारो हैमं शरासनम् । हैमी यष्टिः । हेमन् , रजत, उदुम्बर, नीवुदार, रोहीतक, बिभीतक, कण्डकार, गवीधुका, पाटली, श्यामाक, बाहिण, इति हेमादय एका-१० दश । बहुवचनमाकृतिगणार्थम् । हेनोऽण्बाधनार्थ अब्वचनम् , अणि हि सति “अणि" (७।४।५२) इत्यन्त्यस्वरादे न स्यात् । पाटलीश्यामाकबार्हिणानां दुलक्षणस्य, शेषाणां तु वैकल्पिकस्य मयटो बाधनार्थम् । “एक.” एकस्वरान्नानो यथासम्भवं भक्ष्याच्छादनवर्जिते विकारेऽवयवे च नित्यं मयट् स्यात् । मृन्मयमिति-एवं वाङ्मयं त्वङ्मयं सुङ्मयं गीर्मयं धूर्मयम् । “गो." गोः पुरीषम् गोमयम् । यद्यपि पुरीषं विकारतया न प्रसिद्धं तथापि दोषधातुमलमूलं शरीरमिति विवक्षायां १५ 'तात्स्ध्यात्तद्वदुपचार' इति गोः पुरीष पयश्च विकारो भवति । एकस्वरादित्येव सिद्धे पुरीषे नियमार्थ वचनम् । “अपो." अपां विकारः आप्यं अम्मयम् । एकखरमयटोऽपवादः ॥ ४७ ॥
ह्योगोदोहादीनञ् हियङ्गुश्चास्य ॥४८॥ [सि० ६२०५५] ह्योगोदोहशब्दाद्विकारे नाम्नीनञ् , प्रकृतेहियङ्गुरादेशश्च सात् । हैयङ्गवीनम् नवनीतं घृतं वा ॥४८॥
२० "योगो०" । सूत्रं स्पष्टम् ॥ ४८ ॥
प्राण्यौषधिवृक्षेभ्योऽवयवे च ॥ ४९ ॥ [सि०६।२।३१] एभ्यो विकारेऽवयवे चाणादयः स्युः । कापोतं सक्थि मांसं वा । दौर्व बैल्वं काण्डं भस वा ॥४९॥
"प्राण्यौ०" । एभ्योऽवयवे विकारे च यथाई प्रत्ययाः स्युः । तत्र कापोतं सक्थीति प्राणिनोऽवयवे, २५ मांसमिति च विकारे । दौर्वं काण्ड मिति औषधेरवयवे, भस्मेति च विकारे । बैल्वं काण्डमिति वृक्षस्यावयवे, भस्मेति च विकारे । प्राणिनश्चेतनावन्तः, औषधयः फलपाकान्ताः, वृक्षाः पुष्पवन्तः फलवन्तश्च । वृक्षविशेषत्वात् वनस्पतिवीरुधामपि वृक्षग्रहणेन ग्रहणम् , प्राणिग्रहणेनैव चेतनायत्त्वेन वृक्षौषधिग्रहणे सिद्धे तदुपादानमिह शास्त्रे प्राणिग्रहणेन त्रसा एव गृह्यन्ते, न च स्थावरा, इति ज्ञापनार्थम् ॥४९॥
अभक्ष्याच्छादने वा मयट् ॥ ५० ॥ [सि० हारा४६] ३० भक्ष्याच्छादनवर्ज यथार्ह विकारावयवयोर्मयवा । भसमयं भासनम् । निषेधे-मौद्गः सूपः । कार्यासः पटः । “लुब्बहुलं पुष्पमूले" (६।२।५७) "फले” (६।२।५८) वैकारिकस्य । मल्लिका पुष्पम् । विदारी मूलम् । आमलफलमित्यादि ।
* इति वैकारिकाः ।
३४
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org