________________
३६२ महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुआजारं हालं । लकारः स्त्रीत्वार्थः । "श्वादि.” शुनां समूहः शौवम् । एवं अह्नामाह्नम्, चक्रिणां चाक्रम् , दण्डिनां दाण्डम् । अणैव सिद्धे "नोऽपदस्य.” (७।४।६१) इत्यन्त्यस्वरादिलोपार्थमञ्वचनम् , अणपवादबाधनार्थं च । श्वादयः प्रयोगगम्याः । “ग्राम०" सूत्रं स्पष्टम् । आदिशब्दात् “पुरु
षात्कृतहितवधविकारे चैय" (६।२।२९) । पुरुषशब्दात् कृतादिषु चतुरर्थेषु, चकारात्समूहे ५च एयञ् स्यात् । कृतादौ यथाई विभक्तियोगः । पुरुषेण कृतः पौरुषेयो ग्रन्थः, पुरुषाय हितं पौरुषेयमहच्छासनम्, पुरुषस्य वधो विकारो वा पौरुषेयः, पुरुषाणां समूहः पौरुषेयम् ।। ४५ ॥
विकारे ॥ ४६॥ [सि० ६।२।३०] षष्ठ्यन्ताद्विकारेऽणादयः स्युः ॥४६ ॥ "विका०" । द्रव्यस्यावस्थान्तरं विकारः ॥ ४६ ॥
वाऽश्मनो विकारे ॥ १७ ॥ [ सि०७४।६३ ] विकारार्थे तद्धितेऽश्मनोऽन्त्यस्वरादेर्वा लुक् । आश्मनः आश्मः । "पुजतोः षोऽन्तश्च" (६।२।३३) त्रापुष जातुषम् । “पयोद्रोर्यः” (६।२।३५) पयस्यं द्रव्यम् । “एकखरात्" (६।२।४८) मयट् । मृन्मयम् । “गोः पुरीषे” (६।२।५०) गोमयम् । “अपो यश्वा"
(६।२।५६) आप्यं अम्मयम् ॥४७॥ १५ "वाऽश्म." । स्पष्टम् । एवं भस्मनो विकारो भास्मनः । मृत्तिकाया मार्तिकः । अर्द्धस्य आर्द्धः । हलस्य हालः । सीरस्य सैरः । वेदीनां वैदः । वृजीनां वार्जः । त्रिगर्तानां त्रैगर्त्तः । रंहूनां रांहवः "तस्येदम्” ( ६।३।१६०) इत्येवाणादिसिद्धावर्द्धादिषु विकारेणापवादबाधनार्थं वचनम् ।
आदिशब्दात् “तालाद्धनुषि" (६।२।३२)। विकारेऽण् । दुलक्षणस्य मयटोऽपवादः । तालस्य विकारः तालं धनुः । धनुषीति किम् ? तालमयं काण्डम् । "त्रपु०" सूत्रं स्पष्टम् । “पयो०" पय२० सोऽणोपवादः । द्रोरेकस्वरमयटः । पयसो विकारः पयस्यम् । द्रोर्दारुणो विकारो द्रव्यम् ।
आदिशब्दात् “शम्या लः” (६।२।३४ ) शमीशब्दाद्विकारेऽवयवे चाण्, तत्सन्नियोगे चास्य लोऽन्तः । शम्या विकारोऽवयवो वा शामीलं भस्म, शामीली शाखा । "उष्ट्रादकम्” (६।२।३६) विकारेऽवयवे च । उष्ट्रस्य उष्ट्रया वा विकारोऽवयवो वा औष्ट्रकं मांसम् , औष्ट्रिका जङ्घा । “उमो
द्वा" (६।२।३७) विकारावयवयोरकञ् । उमा अतसी, तस्या विकारोऽवयवो वा औमकम् २५ औमम् । ऊर्णाया विकारः और्णकः, और्णः कम्बलः । “एण्या एय" (६।२।३८) विकारावय
वयोः । अणोऽपवादः । ऐणेयं मांसम् , ऐणेयी जङ्घा । स्त्रीलिङ्गनिर्देशात् पुंल्लिङ्गादणेव-ऐणं मांसम् । ऐणी जङ्घा । "कौशेयम्" (६।२।३९) कोशशब्दात् विकारे एयञ् निपात्यते । कोशस्य विकारः कौशेयं वस्त्रं सूत्रं वा । निपातनं रूढ्यर्थम् , तेन वस्त्रसूत्राभ्यामन्यत्र भस्मादौ न स्यात् । “परशव्याघलुक च" (६।२।४०) परशवे इदं परशव्यम् , तस्माद्विकारेऽण् स्यात, यकारस्य च लुक् । ३० परशव्यस्यायसो विकारः पारशवम् । अण् सिद्ध एव, यलुगर्थं वचनम् । यग्रहणेन च सस्वरयकारलोपः स्यात् , तेनोत्तरसूत्रे "स्वरस्य परे प्राविधौ” (७।४।११०) इत्यस्यानुपस्थानाद्यलोपे "अवर्णेवर्णस्य" (७।४।६८) इतीकारलोपः स्यात् । "कंसीयायः ” (६।२।४१) कंसाय इदं कंसीयम् , "परि
णामिनि तदर्थे” (७।१।४४) इति यः । कंसीयशब्दाद्विकारे ज्यः स्यात् , तद्योगे य लुक् च । कंसीयस्य ३४ विकारः कांस्यम् । "हेमार्थान्माने" (६।२।४२) हेमवाचिशब्दात् माने विकारे वाच्येऽण्
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org