________________
प्रक्रियावृत्तिरूपे श्रीहेमप्रकाशे तद्धिताः । सामूहिकपत्ययाधिकारः ३६१ आदिशब्दात् “धेनोरनजः" (६।२।१५) धेनुशब्दात् समूहे इकण् स्यात् , न चेत्स नबः परः स्यात् । धेनूनां समूहो धैनुकम् । अनब इति-अधेनूनां समूह आधेनवम्-उत्सादित्वादन् । अनब इति निषेधेन तदन्तविधेापितत्वात् ब्राह्मणराजन्यकं वानरहस्तिकं गौधेनुकम् । "ब्राह्म" ब्राह्मणानां समूहो ब्राह्मण्यम् । एवं माणव्यं वाडव्यम् । “गणि" गणिकानां समूहो गाणिक्यम् । ब्राह्मणादीनां यवचनं पुंवद्भावार्थम्-ब्राह्मणाः प्रकृता अस्यां यात्रायां "तयोः समूहवञ्च बहुषु" (७३।३) इति ५ यः प्रत्ययः । ब्राह्मण्या यात्रा यस्य स ब्राह्मण्ययात्रः । वाडव्ययात्रः । ण्ये हि पुंवद्भावो न स्यात् , यथा गाणिक्यायात्रः । "केशा०" पक्षे अचित्तलक्षण इकण् । “वाऽश्वा." पक्षे औत्सर्गिकोऽण् आश्वम् । “पा०" पर्शशब्दात् समूहे डण् स्यात् । अचित्तेऽकणोपवादः । डित्त्वादन्त्यस्वरादिलोपः।
आदिशब्दात् “ईनोहः क्रतो” (६।२।२१) अहनशब्दात्समूहे क्रतो वाच्ये ईनः स्यात् , अह्नां समूहः अहीनः क्रतुः । क्रताविति किम् ? आह्नमन्यत् श्वादिपाठादम् । “पृष्ठायः" (६।२।२२ ) १० समूहे ऋतौ वाच्ये पृष्ठानां समूहः पृष्ठयः क्रतुः । पृष्ठशब्दोऽहःपर्यायः । रथन्तरादि सामपर्याय इत्यन्ये । क्रतावित्येव-पाठिकम् । “चरणाद्धर्मवत्" (६।२।२३) चरणं कठकालापादि तस्माद्यथा धर्मे प्रत्ययाः स्युः, तथा समूहेऽपि । वत् सर्वसादृश्यार्थस्तेन यकाभ्यः प्रकृतिभ्यो यः प्रत्ययो यथा धर्मे स्यात्ताभ्यः स प्रत्ययस्तथैवेहापि स्यादिति । यथा कठानां धर्मः काठकम् , कालापकं छान्दोग्यं औक्थिक्यं बाढच्यं आथर्वणिकम् । तथा समूहेऽपि काठकमित्यादि ।। ४२ ॥
गोरथवाताबल्कव्यलूलम् ॥ ४३ ॥ [सि० ६।२।२४ ] एभ्यस्त्रिभ्य एते त्रयः स्युः । लित्प्रत्ययान्तानां स्त्रीत्वम्-गोत्रा, रथकट्या । वातूलः ॥४३॥
"गोर०" । लित्प्रत्ययान्तानामिति "लिन्मिन्यनिण्यणिरुयुक्ता" इति लिङ्गानुशासनवचनात् । एतप्रत्ययान्तानां स्त्रीत्वम् । तत्र लित्प्रत्ययान्ता यथा. गोत्रा । मिप्रत्ययान्ता यथा. सूमिः-स्थूणा, अयःप्रतिमा च, वर्मिः वल्मीककृमिः । निप्रत्ययान्ता यथा. वेनिः-व्याधिः, केशरचनादि च । सोनिः सवनम् ।२० अनिप्रत्ययान्ता यथा. अटनिर्धेनुः, प्रान्तः । कटनि:-शैलमेखला । धमनिः शिरा । णिप्रत्ययान्ता यथा. वाणिः-व्यूतिः, मूलं च । निश्रेणिः-अधिरोहणी, खर्जुरी च । अणिप्रत्ययान्ता यथा. सरणिः-पन्थाः, श्रेणिश्च । प्रहणिः-कोष्ठस्थानम् , रोगविशेषश्च । करणिः सादृश्यम् । रुयुक्ताः क्तिक्यपशप्रभृतय इति । वातूल इति ऊलप्रत्ययस्य लित्वाभावान्न स्त्रीत्वम् ॥ ४३ ॥
पाशादेश्च ल्यः॥४४॥ [सि०६।२।२५] गवादिभ्यः पाशादेश्च ल्यः स्यात् ॥ १४ ॥ "पाशा." । पाशादिभ्यो गोरथवातशब्देभ्यश्च समूहे ल्यः स्यात् ॥ ४४ ॥
व्यक्ये ॥४५॥ [सि० १।२।२५] ओदौतोः क्यवर्जे यादौ प्रत्ययेऽवाचौ स्याताम् । गव्या वात्या पाश्या । "श्वादिभ्योऽञ्" (६।२।२६) शौवम् । "खलादिभ्यो लिन्" (६।२।२७)। खलिनी ऊकिनी । “ग्रामजन ३० बन्धुगजसहायात्तल" (६।२।२८) ग्रामता ॥४५॥
( इति सामूहिकाः । "प्यक्ये" । अक्य इति किम् ? उपोयत औयत । पाश्येति-पाश तृण खल धूम अङ्गार पोटगल पिटक पिटाक शकट हल नल वन इति पाशादयो द्वादश १२ । भिक्षाविपाठादङ्गारहलशब्दाभ्यामणपि-३४
है. प्रका• पूर्वा० ४६
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org