________________
३६० महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघु
षष्ठयाः समूहे ॥ ४२ ॥ [ सि० ६२९] षष्ठ्यन्तात्समूहेऽणादयः स्युः । चापम् । “भिक्षादेः” (१२।१०) भैक्षं गार्भिणम् । *गोत्रोक्षादिभ्योऽकञ्-औपगवकम् । औक्षकम् । "केदाराण्याको” कैदार्य कैदारकम् । “कवचिहस्त्यचित्ताच्चेकण्” (६।२।१४) कावचिकम् । हास्तिकम् । आपूपिकम् । ५कैदारिकम् । “ब्राह्मणमाणववाडवाद्यः” (६।२।१६) ब्राह्मण्यम् "गणिकाया ण्य" (६।२।१७) गाणिक्यम् । "केशाद्वा" (६।२।१८) कैश्यं कैशिकम् । “वाऽश्वादीयः" (६।२।१९) अश्वीयं आश्वम् । “पाद् ड्वण्” (६।२।२०) पशूनां समूहः पार्श्वम् ॥ ४२ ॥ ___“षष्ठया." । गोत्रादिभ्योऽकम् वक्ष्यते, अचित्तादिकण प्रतिपदं वक्ष्यते केदाराण्ण्यश्चेत्येवमादयः ।
ततोऽन्यदिहोदाहरणं द्रष्टव्यम् । चाषाणां समूहः चाषम् । एवं काकं बाकं शौकं भैक्षुकं वाडवम् । १० वनस्पतीनां समूहो वानस्पत्यम् स्त्रैणम् पौंस्नम् । पञ्चानां कुमारीणां समूहः पञ्चकुमारीत्यत्र तु समूहः
समाहार एव, स च समासार्थः, समासेनैव च गत इति तद्धितो नोत्पद्यते । यद्युत्पद्येत को दोषः स्यात् ? उत्पन्नस्यापि ह्यस्य "द्विगोरनपये यस्वरादेर्लुबद्विः” ( ६।१।२४) इति लुपा भवितव्यं तथा चाविशेषः । नैवम् । “ड्यादेौणस्य.” (२।४।९५) इत्यादिना डीनिवृत्तिः स्यात् "तस्येदम्” (६।
३।१६०) इत्येवाणादिसिद्धौ समूहविवक्षायां तदपवादबाधनार्थो योगः । “भिक्षा.” । भिक्ष१५ शब्दोऽकारान्तोऽपीत्येके । भिक्षा, गर्भिणी, युवति, क्षेत्र, करीष, अङ्गार, चर्मन् , वर्मन् , चर्मिन् ,
वर्मिन् , पद्धति, सहस्र, अथर्वन, दक्षिणा, खण्डिक, युग, वरत्रा, युगवरत्रा, हल, बन्ध, हलाबन्ध (ली. ल. ?) औलुक्य इति भिक्षादयो द्वाविंशतिः । भिक्षादीनामचित्तेकणो बाधनार्थं वचनम् ,
औलुक्यशब्दस्य गोत्राको बाधनार्थः पाठः, युवतेरण् सिद्ध एव पुंवद्भावबाधनार्थस्तु पाठः, अन्ये तु युवतिशब्दं न पठन्ति तन्मते पुंवद्भावे सति युवतीनां समूहो यौवनमित्येव भवति । "सुरूपमति२० नेपथ्यं कलाकुशलयौवनम् । यस्य पुण्यकृतः प्रेष्यं सफलं तस्य यौवनम्" ॥ १ ॥
आदिशब्दात् "क्षुद्रकमालवात्सेनानान्नि" (६।२।११) क्षुद्रकमालवशब्दात्समूहेऽर्थेऽण् स्यात् । क्षुद्रकाश्च मालवाश्च क्षुद्रकमालवास्तेषां समूहः क्षौद्रकामालवी; एवं नामा काचित्सेना । गोत्राकञ्बाधनार्थं वचनम् । समूहाधिकारे हि तदन्तस्यापि ग्रहणम्-"धेनोरनञः” ( ६।२।१५) इति प्रतिषे
धात्। *गोत्रेत्यादि-"गोत्रोक्षवत्सोष्ट्रवृद्धाऽजोरभ्रमनुष्यराजराजन्यराजपुत्रादकञ्" २५(६।२।१२) गोत्रप्रत्ययान्तेभ्य उक्षादिभ्यो दशभ्यश्च समूहेऽकञ् स्यात् । औपगवकमिति–एवं गार्गकं
वात्सकं "तद्धितयस्वरेऽनाति” (२।४।९२) इति यलुक् । गाायणकं वात्स्यायनकम् । औक्षकमिति-एवं वात्सकं औष्ट्रकं वार्द्धकं आजकं औरभ्रक मानुष्यकं राजकं राजन्यकं "तद्धितयस्वरेऽनाती"ति यलोपे प्राप्ते सूत्रम्-"न राजन्यमनुष्ययोरके" (२।४।९४) अनयोर्यकारस्य अके परे लुग् न स्यात् । राजपुत्रकम् । । "केदा०”[अत्र “केदाराण्ण्य श्च” (६।२।१३) इति सूत्रम् ] ३० अचित्तेकणोऽपवादः । “कव०" । कवचिन् हस्तिन् इत्येताभ्यां अचित्तात् , चानुकृष्टात् केदाराच्च ___ समूहे इकण् स्यात् । लिङ्गविशिष्टस्यापि ग्रहणात् हस्तिनां हस्तिनीनां वा समूहो हास्तिकम् । ३२ केदाराच्चैवं त्रैरूप्यम् ।
१ उक्षकवचिप्रभृतयः प्रतिपदोक्तखात् केदाराणण्यश्चेत्यादिषु द्रष्टव्या इति 'गोत्रादकम्' इत्यत्र न उक्ताः । २ द्वयोरप्येकार्थवात्समूह एव समाहार इत्यर्थः । ३ तद्धितलुकि सत्यामिति शेषः । ४ ईयादीनामित्यर्थः । ५ अन्यथा प्रत्ययः प्रकृत्यादेः' इति न्यायात् समुदायस्यागोत्रखात् क्षौद्रकमालवकमिति न सिध्येत् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org