________________
३५९
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे तद्धिताः
पित्रो महट् ॥ ४०॥ [सि० ६।२।६३ ] पितृमातृभ्यां मातापित्रोर्डामहट् स्यात् । पितामहः पितामही । मातामहः मातामही॥४०॥
"पित्रो०" माता च पिता च पितरौ तयोः पित्रोः । पितामह इति-पितुः पिता पितामहः । पितु. र्माता पितामही । मातुः पिता मातामहः । मातुर्माता मातामही ॥ ४० ॥
रागाहो रक्त ॥४१॥[सि० ६।२।१] येन कुसुम्भादिना वस्त्रादि रज्यते स रागस्तसाट्टान्ताद्रक्तमित्यर्थेऽण् स्यात् । कुसुम्भेन रक्तं कौसुम्भं वस्त्रम् । “लाक्षारोचनादिकणू” (६।२।२ ) लाक्षिकः, रौचनिकः पटः ॥४१॥ ___ "रागा."। येनेत्यादि-शुक्लस्य वर्णान्तरापादनमिह रञ्जेरर्थः। टन्तिादिति तृतीयान्तादित्यर्थः । कौसुम्भमिति-एवं काषायम् कौकुमम् मालिष्ठम् हारिद्रम् माहारजनम् । वाऽधिकारात् पक्षे वाक्यं समासश्च भवतिकुसुम्भेन रक्तम्, कुसुम्भरक्तमित्यादि । रागशब्देन प्रसिद्धा एव कुसुम्भादयो रागा गृह्यन्ते, तेनेह न १० भवति-कृष्णेन रक्तम् , लोहितेन पीतेन रक्तमिति; एते हि वर्णा ,व्यवृत्तयो न तु रागाख्याः । कथं काषायौ गईभस्य कर्णौ, हारिद्रौ कुकुटस्य पादाविति ? काषायाविव काषायौ हारिद्राविव हारिद्रौ इत्युपमानोपमेयभावेन तद्गुणाध्यारोपाद्भविष्यति । "लाक्षा." । अणोऽपवाद इकण् ।
इत्यादिशब्दसम्बन्धात् “शकलकर्दमाद्वा” (६।२।३)। आभ्यां रागविशेषवाचिभ्यां टान्ताभ्यां रक्तार्थे इकण् वा स्यात् । शाकलिकं शाकलम् । कार्दमिकं कार्दमम् । "नीलपीतादकम्" (६।२।४)।१५ आभ्यां रागविशेषवाचिभ्यां रक्तार्थे यथासङ्ख्यम् अ क इत्येतौ स्याताम् । नीलेन, लिङ्गविशिष्टग्रहणात् नील्या वा रक्तं नीलम् । पीतेन रक्तं पीतकम् । केचित्तु पीतकशब्दादप्यप्रत्ययमिच्छन्ति, पीतकेन कुसुम्भप्रथमनिर्यासेन रक्तं पीतकम् । गुणवचनत्वात् केन च सिद्धेऽणपवादार्थ वचनम् । “उदितगुरोर्भाधुक्तेऽन्दे” (६।२।५) उदितो गुरुर्यस्मिन् भे नक्षत्रे तद्वाचिनस्तृतीयान्तायुक्तेऽर्थे यथाविहितः प्रत्ययः स्यात् , स चेयुक्तोऽर्थोऽब्दः संवत्सरः स्यात् । पुष्येण उदितगुरुणा युक्तं वर्ष पौषम् , २० अत्र च "तिष्यपुष्ययोर्भाणि” (२।४।९०) । तस्य नक्षत्रस्य सम्बन्ध्यण् भाण , यो भादित्युल्लेखेन विधीयते । तिष्यपुष्ययोर्यकारस्य भाणि परतो लुक् स्यात् । एवं तैषं वर्षम्, पौषं तैषमहः, पौषी तैषी रात्रिः। "चन्द्रयुक्तात्काले लस्वप्रयुक्त" (६।२।६)। चन्द्रेण युक्तं यन्नक्षत्रं तद्वाचिनस्तृतीयान्ताद्युक्तेऽर्थे यथाविहितः प्रत्ययः स्यात् (चेयुक्तोऽर्थः कालो भवति ), अप्रयुक्ते तु कालवाचके शब्दे तस्य लुप् स्यात् । पुष्येण चन्द्रयुक्तेन युक्तमहः पौषमहः पौषः कालः । लुम्वऽप्रयुक्ते अद्य पुष्यः ।२५ पुष्ये पायसमभीयात् । “द्वन्द्वादीयः” (६।२।७) । चन्द्रयुक्तं यन्नक्षत्रं तहन्द्वात्तृतीयान्तायुक्ते काले ईयः स्यात् । राधानुराधाभिश्चन्द्रयुक्ताभिर्युक्तं राधानुराधीयमहः । अद्य राधानुराधीयम् । एवं तिष्यपुनर्वसवीया रात्रिः । अद्य तिष्यपुनर्वसवीयम् । “श्रवणाऽश्वत्थानान्यः” (६।२।८) आभ्यां चन्द्रयुक्तनक्षत्रवाचिभ्यां तृतीयान्ताभ्यां युक्ते काले अकारः प्रत्ययः स्यात्, नाम्नि, प्रत्ययान्तं चेत्कालविशेषस्य नाम स्यात् । श्रवणेन चन्द्रयुक्तेन युक्ता श्रवणा रात्रिः । अश्वत्था पौर्णमासी । सत्यप्य-३० न्वर्थयोगे न कालमात्रमेवोच्यते, अपि तु कालविशेष एवेति नामत्वम् (नान्नीति किम् ? श्रावणमह इत्यादि।)॥४१॥
१ उपलक्षणमिदमन्येषामपि वर्णानां वर्णान्तरापादन मिह रजेरर्थः । २ ट इत्येकदेशेन समुदायोपलक्षणखात्तृतीया लभ्यते । ३ द्रव्येषु कुसुम्भादिषु वृत्तिर्येषां द्रव्याश्रयी गुण इति कृत्वा । ४ रज्यतेऽनेनेति रागशब्दव्युत्पत्तेरघटनात् । ५ अत्र अद्येत्यस्याधारमेव न सामानाधिकरण्यम् । ६ इदं सूत्रं विनापि नीलपीतगुणयोगानीलं पीतं च. पीतात्तु स्वार्थिकेन कुत्सितार्थेन वा कपा पीतकमिति च सेत्स्यतीत्याशङ्का ।
३२
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org