________________
३५८
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुलस्य या कौशल्यः कोशलाः । अजादीनामजादस्य वा आजाद्यः आजादाः । एभ्य इति किम् ? कुमारी नाम जनपदः, क्षत्रिया च; ततो राजन्यपये वालेव-कौमारः । “पाण्डो”। पाण्डुशब्दात्सरूपाद्यथाहं राजापत्ये द्रियण् स्यात्, पाण्डूनां राजा पाण्डोरपत्यं वा पाण्ड्यः पाण्ड्यौ पाण्डवः । कथं पाण्डवाः यस्य दासाः ? तस्य क्षत्रियस्य राष्ट्रसरूपस्य य ईश्यो जनपदो यश्च तस्य क्षत्रियसरूपस्य ५राष्ट्रस्य ईशिता । क्षत्रियः स एव गृह्यते प्रत्यासत्तेः, अत्र तु कुरवो जनपदस्तस्य राजा पाण्डुरिति शिवाद्यण् भवति । डकारोऽन्त्यस्वरादिलोपार्थः, णकारो वृद्धिनिमित्तपुंवद्भावप्रतिषेधार्थः पाण्ड्याभार्यः । "शकादि.” शक इत्यादि-एवं जतः कम्बोजः चोलः केरल: आधारयः विधारयः उपधारयः अपधारयः मुरलः खसः । शकादयः प्रयोगगम्याः।
इत्यादिशब्दग्रहणात् “कुन्त्यवन्तेः स्त्रियाम्" (६।१।१२१)। आभ्यां परस्य द्रेय॑स्य लुप् स्यात् , १० स्त्रियामभिधेयायाम् । कुन्तेरपत्यं स्त्री कुन्ती, एवमवन्ती । स्त्रियामिति किम् ? कौन्त्यः आवन्त्यः । प्रकृतस्य
दुर्लविज्ञानात् स्वार्थिकस्य ज्यटोऽद्रिसंज्ञकस्य लुप् न स्यात्-कौन्ती । “कुरोर्वा" (६।१।१२२)। कुरोः परस्य द्रेय॑स्य स्त्रियां वा लुप् स्यात् । कुरोरपत्यं स्त्री कुरूः, कौरव्यायणी "कौरव्यमाण्डूकासुरेः” (२।४।७० ) इति डायन् ॥ “द्रेरऽमणोऽप्राच्यभर्गादेः" (६।१।१२३) प्राच्यान भर्गा
दीश्च वर्जयित्वाऽन्यस्मात्परस्यायोऽणश्च द्रेः स्त्रियां लुप् स्यात् । अञ्. शूरसेनस्यापत्यं स्त्री शूरसेनी । १५ एवमप्राच्या ॥ अण्. मद्री, दरद्, मत्सी । द्रेरिति किम् ? औत्सी औपगवी । द्रावनुवर्तमाने पुनर्द्रिग्रहणं भिन्नप्रकरणस्यापि दुर्लुबर्थम्-पर्शः, रक्षाः, असुरी । पशु, रक्षस् , असुर, राष्ट्र इति राष्ट्रसरूपक्षत्रियवाचिनः । एषामपत्यं सङ्घः स्त्रीत्वविशिष्टो विवक्षितः इत्यत्रणोः "शकादिभ्यो दुर्लुप्" इति लुपि पुनः पादिलक्षणः स्वार्थिकोऽण् , तस्यापि स्त्रियामनेन लुप् । अबण इति किम् ? औदुम्बरी-साल्वांशत्वादिञ् । अप्राच्यभर्गादेरिति किम् ? पाञ्चाली वैदेही पैप्पली मागधी कालिङ्गी वैदर्भी आङ्गी वाङ्गी २० सौह्मी पौण्ड्री शौरमसी । पञ्चालादयः प्राच्या राष्ट्रसरूपाः क्षत्रियाः । भर्गादि. भार्गी । भर्ग, करूष,
कलश, केकय, कश्मीर, साल्व, सुस्थाल, उरश, यौधेय, शौक्रेय, शौभ्रेय, घार्तेय, धार्तेय, ज्यावानेय, त्रिगत, भरत, उशीनर, इति भर्गादिः । यौधेयादिज्यावानेयान्तानां स्वार्थिकस्यानो ट्रेलृप्प्रतिषिध्यते । यौधेयीनां सङ्घादि यौधेयमिति सङ्घाद्यणर्थम् । लुपि हि सत्यामबत्वाभावात् सङ्घाद्यण न स्यात् ।
प्रकृतस्य त्वनः प्रसङ्गाभावान्न प्रतिषेधः । भरतोशीनरशब्दावुत्सादिषु पठ्येते, तयोरिहोपादानात्सत्य२५ प्यणपवादे चेत्यस्मिन् उत्साद्ययं बाधित्वा द्रिसंज्ञक एवाञ् भवतीति ज्ञाप्यते, तेन भरतानां राजानो
भरता उशीनराणां उशीनरा इति राशि विहितस्याबो "बहुष्वस्त्रियाम्” इति लुप् सिद्धा भवति । उत्साधनस्तु द्रिसंज्ञाया अभावान्न स्यात् । नापि “यत्रबो०" (६।१।१२६) इत्यादिना प्राप्तिः, राज्ञामगोत्रत्वात्।
KI TT
इत्यपत्यप्रत्ययानामधिकारः समर्थितः । मूले तु वर्णिकामानं वृत्तौ किमपि विस्तृतः ॥ ३८ ॥
३० पितृमातुयंडुलं भ्रातरि ॥ ३९ ॥ [ सि० ६।२।६२ ]
आभ्यां यथासङ्ख्यं भ्रातरि व्यड्डुलौ स्याताम् । पितृव्यः । मातुलः ॥ ३९ ॥ ३२ "पितृ०” । सूत्रं स्पष्टम् ॥ ३९ ॥
१अयमर्थः-यदि राष्ट्रक्षत्रिययोरेकशब्दवाच्यता भवति, तदानीं ज्यण् भवति ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org