________________
६५७
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे तद्धिताः । अपत्यमत्ययाधिकारः पश्चालाः । सौराष्ट्रक इति-अयं केवलं राष्ट्रवाची । न तु क्षत्रियस्वरूपः । एवं दाशरथिरिति । अयं हि केवलक्षत्रियवाची नतु राष्ट्रवरूपः ।
आदिशब्दात् “गान्धारिसाल्वेयाभ्याम्" (६।१।११५) गान्धारिसाल्वेयशब्दौ इयणन्तौ सरूपी राष्ट्रक्षत्रियवचनौ । ताभ्यां प्राग्वत् दिसंज्ञोऽञ् स्यात् । दुलक्षणस्य व्यस्थापवादः (वचनभेदो यथासायनिवृत्त्यर्थः) गान्धारीणां राजा गान्धारे राज्ञोऽपत्यं वा गान्धारः । गान्धारौ । गान्धारयः ।५ बहुवबो लुप् । एवं साल्वेयः । साल्वेयौ । साल्वेयाः । एकत्वद्वित्वयोस्त्वपत्यार्थविवक्षायां "अब्राह्मणात्” ( ६।१।१४१) इति लुप् न स्यात् , विधानसामर्थ्यात् । अन्यथा न्यविधावेवानयोः प्रतिषेधः क्रियेत, तथा च पूर्वेणैवाऽन् सिद्ध्यति ॥ ३६॥
पुरुमगधकलिङ्गशूरमसद्विखरादण ॥३७॥ [सि० ६।१।११६ ] पुर्वादिभ्यो द्विखरेभ्यश्वाण द्रिः स्यात् । पौरवः । आङ्गो राजाऽपत्यं वा ॥ ३७॥ १०
"पुरु०” । पौरव इति । पुरोरपत्यं पौरवः । पुरवः । मगधानां राजा मगधस्यापत्यं वा मागधः । मगधाः । एवं कालिङ्गः कलिङ्गाः । शौरमसः शूरमसाः । द्विस्वर. आङ्गः अङ्गाः । एवं वाङ्गः वङ्गाः । सौह्मः सुराः । पौण्ड्रः पुण्ड्राः । दारदः दरदः । द्विस्वरत्वेनैव सिद्धे पुरुग्रहणमराष्ट्रसरूपार्थम् । अस्ति राजा पुरुर्नाम नतु राष्ट्रम् । तस्यौत्सर्गिकेणैवाणा सिद्धे बहुषु लुबर्थमिदमविधानम् । अजैव सिद्धे अग्विधानं सङ्घाद्यबाधनार्थम् । तेनाकम् भवति । पौरवकं मागधकं कालिङ्गकम् , शौरमसकम् , १५ आङ्गकम्, वाङ्गकम् । अवन्ताद्धि गोत्रात् "-अब्यविनः" (६।३।१७२) इत्यण् बाधकः स्यात् । ___ आदिशब्दात् “साल्वांशप्रत्यग्रथकलकूटाऽश्मकादिर" (६।१।११७ ) साल्वा नाम जनपदस्तदंशेभ्यः प्रत्यप्रथादिभ्यश्च इनिभ्यः सरूपेभ्यो यथाई राजन्यपत्ये दिरिब् स्यात् । उदुम्बराणां राजा उदुम्बरस्यापत्यं वा औदुम्बरिः । “उदुम्बरास्तिलखला मकारा युगन्धराः । भुलिङ्गाः शरदण्डाश्च साल्वांशा इति कीर्तिताः ॥ १॥ अजमीढाजकुन्दबुधास्तूदुम्बरादिविशेषाः, तेऽपि साल्वांशा एव । २० प्रत्यप्रथाविग्रहणमसाल्वांशार्थम् ॥ ३७॥
दुनादिकुर्विकोशलाऽऽजादाभ्यः ॥३८॥ [सि० ६।१।११८] दुसंज्ञेभ्यो नादेः कुरोरिदन्तेभ्यः कोशलाऽऽजादाम्यां च द्रियः स्यात् । आम्बष्ठयो राजाऽपत्यं वा । एवं नैषध्यः कौरव्यः आवन्त्यः कौशल्य: आजाबः ॥ "पाण्डोर्यण्” (६।१।११९) पाण्ड्यः ॥ "शकादिभ्यो दुर्लुप्" (६।१।१२०)। शकः । यवनः ॥ ३८॥
इत्यपत्यप्रत्ययाधिकारः । "दुना०" आम्बष्ठानां राजा आम्बष्ठस्यापत्यं वा आम्बष्ठयः, आम्बष्ठाः । सौवीराणां सौवीरस्य वा सौवीर्यः सौवीराः । काम्बव्यः काम्बवाः । दायः दार्वाः । द्विस्वरलक्षणोऽण् परत्वादनेन बाध्यते । एवं दुसंज्ञकाः ॥ निषधानां निषधस्य वा नैषध्यः निषधाः । नैचक्यः निचकाः । नेप्यः नीपाः इत्यादि नादयः ।। कुरूणां कुरोर्वा कौरव्यः कुरवः । अवन्तीनामवन्तेर्वा आवन्त्यः अवन्तयः । कौन्त्यः कुन्तयः । वासात्यः वसातयः । चैद्यः चेदयः । काश्यः काशयः इत्यादि इदन्ताः । कोशलानां कोश-३१
१ ननु गान्धार इत्यत्र लुबभावे फलमस्ति यतो लुप्ते गान्धारिरिति स्यात् , स्थिते तु गान्धारः; साल्वेय इत्यत्र तु किं फलम् ? उच्यते । अत्रालुपि सङ्घादिविवक्षायामण् लुपि तु 'गोत्राददण्ड'-इत्यकञ् स्यात् । २ ननु दुलक्षणभ्यस्य बाधनेन विधानमिदं चरितार्थमिति कुतो विधानसामर्थ्यादित्युक्तमित्याह अन्य० । ३ अगान्धारिसाल्वेयदुनादिकुर्वितकोशलाऽऽजादाय इत्यनया युक्त्या प्रतिषेधे कृते राष्ट्रक्षत्रियादित्यनेनाञ् भविष्यतीत्यर्थः ।
२५
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org