________________
३५६ महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुयनिः । जनपदसमानशब्दात् क्षत्रियात् "दुनादि०" (६।१।११८) इत्यादिना ज्य एव-कौशल्य इति । कार्मार्यायणिः । छाग्यायनिः । वार्ष्यायणिः । “द्विखरादणः" (६।१।१०९)। द्विखरादणन्तादपत्ये आयनिन् स्यात् । कर्तुरपत्यं कार्बस्तस्य का यणिः, हर्तुळियणिः, पोतुः पौत्रायणिः, । औत्सर्गिकोऽण् । यास्कायनिः, शिवाधण् । द्विखरादिति किम् ? औपगविः (अण इति किम् ? दाक्षेः दाक्षा५यणः । प्लाक्षेः प्लाक्षायणः) । वृद्धादेवायं विधिः । अवृद्धात्तूत्तरेण विकल्पः । अङ्गानां राजा आङ्गस्तस्य
आङ्गिः आङ्गायनिर्वा । “अवृद्धाहोर्नवा" (६।१।११०) अवृद्धवाचिनो दुसंज्ञकादपत्ये आयनिञ् वा स्यात् । आम्रगुप्तायनिः । आम्रगुप्तिः । पञ्चालानां राजा पाश्चालस्तस्यापत्यं पाञ्चालायनिः । पाञ्चालिः । नापितस्यापत्यं नापितायनिः । नापित्यः। पक्षे नापितस्ये नास्ति तदाधनाथ हि कुर्वादिषु
तस्य पाठः । अवृद्धादिति किम् ? दाक्षेर्दाक्षायणः । दोरिति किम् ? अकम्पनस्यापत्यमाकम्पनिः । १० "पुत्रान्तात्" (६।१।१११) पुत्रशब्दान्ताहुसंज्ञकादपत्ये आयनिन्प्रत्ययो वा स्यात् । गार्गीपुत्रायणिः । गार्गीपुत्रिः । पूर्वेणायनिवि सिद्धे वचनमिदमुत्तरसूत्रप्राप्तकागमाभावार्थम् । उत्तरेण च कागमोऽपि । ततो गार्गीपुत्रकायणिरिति तृतीयरूपं स्यात् । “चर्मिवर्मिगारेटकार्कव्यकाकलंकावाकिनाच कश्चान्तोऽन्त्यवरात्" (६।१।११२) एभ्यः सप्तभ्यः पुत्रान्ताच दुसंज्ञकादपत्ये आयनिञ् वा स्यात् । तत्सन्नियोगे चैषां कान्तः स्यात् । चार्मिकायणिः चार्मिणः । वार्मिकायणिः वार्मिणः । १५“संयोगादिनः" (७४।५३) इति प्रतिषेधादणि अन्त्यस्वरादिलोपो न स्यात् । गारेटकायनिः गारेटिः ।
कर्कटस्यापत्यं कार्कट्यस्तस्यापत्यं कार्कट्यकायनिः कार्कट्यायनः । यदा त्वव्युत्पन्नः कार्कट्यशब्दस्तदा पक्षे इबेव कार्कटियः । काककायनिः काकिः । लाङ्काकायनिः लाकेयः । लङ्कशब्दं केचिदकारान्तमिच्छन्ति; तन्मते लाङ्कायनि: लातिः । वाकिनकायनिः वाकिनिः । पुत्रान्ताहोः, गार्गीपुत्रकायणिः गार्गीपुत्रिः । ककारस्यान्त्यस्वरात्परतो विधानं चर्मिवर्मिणो नकारलोपार्थम् । यद्येवं परादिरेव क्रिय२० ताम् । तथा सति प्रत्ययस्य व्यञ्जनादित्वात्पुंवद्भावो न सिद्धयेत् । चर्मिण्या अपत्यं चार्मिकायणिः ।
"अदोरायनिः प्रायः" (६।१।११३) अदुसंज्ञकादपत्ये आयनिःप्रत्ययो वा स्यात् , प्रायः । ग्लुचुकायनिः ग्लौचुकिः । अहिचुम्बकायनिः आहिचुम्बकिः । त्रिपृष्टायनिः । पृष्टिः । श्रीविजयायनिः ।
विजयिः । अदोरिति किम् ? औपगविः । रामदत्तिः । रामदत्तायनिः पिता पुत्रश्च । आयनिअन्तादणो लुप् । प्रायोग्रहणात् कचिन्न स्यात् । दाक्षिः प्लाक्षिः ॥ ३४ ॥ ___ राष्ट्रक्षत्रियात्सरूपाद्राजापत्ये दिरञ् ॥३५॥ [सि० ६।१।११४ ] राष्ट्रक्षत्रियसरूपाच्छब्दाद्राष्ट्रार्थाद्राजार्थे क्षत्रियार्थावापत्येऽञ् स्यात् , स च द्रिसंज्ञः ॥३५॥ "राष्ट्र"। अत्र विकल्पो नास्ति (अपत्येऽनुवर्त्तमाने राजनीत्यधिकारस्य भणनात् ) ॥ ३५ ॥
बहुष्वस्त्रियाम् ॥ ३६ ॥ [ सि० ६१।१२४ ] बहुत्वे च दूरस्त्रियां लुक् । विदेहानां राजानोऽपत्यानि वा विदेहाः । स्त्रियस्तु वैदेह्यः । ३० सरूपादिति किम् ? । सौराष्ट्रको राजा । एवं दाशरथिः ॥ ३६ ॥
"बहु०" । बहुष्विति यन्तस्य विशेषणं न निमित्तम् । तत्र हि पञ्चालानां निवासः पञ्चालनिवासः इत्यादौ । पश्चाल अब् आम् निवास इति स्थितेऽन्तरङ्गानपि विधीन् बहिरङ्गा लुप् बाधते इति ३३ बहुवचनस्य लुपि दुर्लप् न स्यात् । विदेहा इति-एवमैक्ष्वाकः ऐक्ष्वाको इक्ष्वाकवः । पाञ्चालः पाञ्चालौ
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org