________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे तद्धिताः । अपत्यप्रत्ययाधिकारः ३५५ न्तकारुलक्ष्मणादिश्च” (६।१।१०२) । चकारात् ब्योऽपि । सेनान्त. हारिषेणिः हारिषेण्यः । कारु तान्तुवायिः तान्तुवाय्यः । तोन्नवायिः तौनवाय्यः । वार्द्धकिः वार्धक्यः । कौम्भकारिः कौम्भकार्यः । रथकारनापिततक्षभ्यो ज्य एव, कुर्वादिपाठात् । कुर्वादौ जातिवाचिन एव पाठाद्रथकारादिनपीति (एके)॥ लक्ष्मण. लाक्ष्मणिः लाक्ष्मण्यः । ऋषिवृष्ण्यन्धककुरुभ्यः" (६।१।६१) अण् , ड्यात्यूडन्तेभ्यस्त्वेयण , परत्वादाभ्यां बाध्यते॥ जातसेनिः जातसेन्यः । वैष्वक्सेनिः वैष्वक्सेन्यः । औग्रसेनिः५ औग्रसेन्यः । तन्तुवाय्या अपत्यं तान्तुवायिः तान्तुवाय्य इत्यादि । “सुयानः सौवीरेष्वायनिम्" (६।१।१०३)। सौवीरदेशे योऽर्थस्तस्मिन् वर्तमानात् सुयानोऽपत्ये आयनिञ् स्यात् । सौयामायनिः । सौवीरेभ्योऽन्यत्र सौयामः । “पाण्टाहृतिमिमताण्णश्च" ( ६।१।१०४) । इबन्ताभ्यां पाण्टाहृतिशब्दान्मिमतशब्दाच्च सौवीरवर्तिभ्यामाभ्यामण आयनिम् च स्याताम् । पाण्टाहृतेरपत्यं युवा सौवीरगोत्रः पाण्टाहृतः । पाण्टाहृतायनिर्वा ॥ मिमतस्य मैमतः मैमतायनिर्वा ॥ सौवीरेष्वित्येव-१० पाण्टाहतायन: "यबिबः" (६।११५४) इति आयनण् । मैमतायनः । अत्र नडादित्वात् अनन्तरो मैमतिः । “भागवित्तितार्णविन्दवाऽकशापेयान्निन्दायामिकण्वा" (६।१।१०५) । सौवीरेषु वृद्धे वर्तमानेभ्य एभ्यो यून्यपत्ये इकण्वा स्यात् , निन्दायां गम्यायाम् । भागवित्तरपत्यं युवा निन्दितः भागवित्तिकः भागवित्तायनो वा जाल्मः । तार्णबिन्दविकः तार्णबिन्दविर्वा । आकशापेयिकः आकशापेयिर्वा । निन्दायामिति किम् ? अन्यत्र भागवित्तायनः तार्णबिन्दविः आकशापेयिरित्येव भवति । १५ "सौयामायनियामुन्दायनिवाायणेरीयश्च वा" (६।१।१०६) । एग्य आयनिबन्तेभ्यः सौवीरेषु वृद्धे वर्तमानेभ्यो यून्यपत्ये ईयश्चकारादिकण च प्रत्ययो वा स्यात् , ताभ्यां मुक्तेऽण्प्रत्ययः । निन्दायां गम्यायाम् । सुयानोऽपत्यं सौयामायनिस्तस्यापत्यं युवा निन्दितः सौयामायनीयः सौयामायनिकः सौयामायनिर्वा अणों लुप् । यमुन्दस्यापत्यं यामुन्दायनिस्तिकादित्वादायनिन् । तस्यापत्यं युवा निन्दितः यामुन्दायनीयः । यामुन्दायनिकः यामुन्दायनिर्वा । वृषस्यापत्यं वार्ष्या-२० यणिः "दगुकोशल." (६।१।१०८) इत्यादिसूत्रेण यकारादिरायनिम् । तस्य वार्ष्यायणीयः वार्ष्यायणिकः वार्ष्यायणिर्वा । कश्चित्त्वन्येभ्योऽपीच्छति । तैकायनेरपत्यं युवा तैकायनीयः ॥ निन्दायामित्येव-अन्यत्र सौयामायनिः यामुन्दायनिः वार्ष्यायणियुवा अणेव । "जिदार्षादणिनोः” (६।१।१४०) इति तस्य लुप् ॥ “तिकादेरायनिम्" (६।१।१०७) इमादेरपवादः । तैकायनिः। तिक, कितव, संज्ञा, बाल, शिखा (बालशिख ?) उरश, शाट्य, सैन्धव, यमुन्द, रूप्य, १० पूर्णिक २५ ग्राम्य, नील, अमित्र, गोकक्ष्य, कुरु, देवर, देवर, (धेवर) धैवर । २० । देवरथ, तैतिल, शैलाल, औरश, कौरव्य, भौरिकि, भौलिकि, चौपयत, चैतयत, चैटयत, ३० शैकयत, क्षैकयत (क्षैतयत ?) ध्वाज, वत, ध्वाजवत, चन्द्रमस्, शुभ, श्रुभ, गङ्ग, गङ्गा, वरेण्य, ४० वन्ध्या बिम्बा, अरद्ध, अरद्धा, आरद्ध, वह्यका, खल्य, लोमका, उदन्य, यज्ञ, ५० नीड, आरथ्य, लङ्कव, भीत, उतथ्य, सुयामन् , उखा, खल्वका, शल्यका, जाजल, ६० वसु, उरस् , ६२ इति तिकादयो द्वाषष्टिः ॥ शाट्य-३० शब्दो यजन्तो घ्यणन्तो वा । शाट्यायनिः ॥ यमन्तादायनणेवेत्येके । शाट्यायनः ॥ औरशशब्देन क्षत्रियप्रत्ययान्तेन साहचर्यात् कौरव्यशब्दः क्षत्रियप्रत्ययान्त एवेह गृह्यते, अन्यस्मादिबेव । तस्य च "बिदार्षादणियोः” (६।१।१४० ) इति लुप् । कौरव्यः पिता, कौरव्यः पुत्रः । आयनिअस्तु "अब्राह्मणात्" (६।१।१४१) इति प्राप्तापि लुप् न भवति, विधानसामर्थ्यात् । नहीच आयनिञो वा लुपि कश्चिद्विशेषः । कौरव्यः पिता । कौरव्यायणिः पुत्रः ॥ "दगुकोशलकारच्छागवृषाद्यादिः" (६।१।१०८) । एभ्यः पञ्चभ्योऽपत्ये यकारादिरायनिञ् स्यात् । दागव्यायनिः । कौशल्या-३६
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org