________________
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञ हैमलघु
33
(६।१।११३) इत्यस्य चापवादः । (आन्यकुलीनः राजकुलीनः - अत्र "अवृद्धाहोर्नवा " (६।१।११०) इत्यायनिनो“ऽत इम”श्च ) । " यैय०" यश्च एयकञ् च यैयकनौ । केवलात्कुलशब्दात्कुलान्ताच्च एतौ वा स्याताम्, न चेत्कुलशब्दः समासे वर्त्तते । ताभ्यां मुक्ते ईनश्च । कुल्य इत्यादि - एवं कुलान्तादपि - बहुकुल्यः, बाहुकुलेयकः, बहुकुलीनः आढ्यकुलीन इति । अत्र "अवृद्धादोर्नवा" इत्यायनिञः ५ “अत इन”श्चापवादः । पूर्वसूत्रेण औत्सर्गिक ईन एव । " दुष्कु० | पक्षे औत्सर्गिक ईनः । "महा०” । अञ्च ईनश्च अभीननौ । महेत्याकारनिर्देशान्महतां कुलं महत्कुलम्, तस्यापत्यं महत्कुलीन इत्यत्र ईन एव । "कुर्वा ० " । कौरव्य इति । अक्षत्रियवचनस्येह कुरोर्ग्रहणम् । क्षत्रियवचनात्तु “दुनादिकुर्वित्कोशला जादाञ्यः” (६।१।११८) इति यः । अयं चानयोर्विशेषः - तस्य दिसंज्ञत्वाद्बहुषु लुप्, कुरवः; अस्य तु द्विसंज्ञाया अभावात्कौरव्याः, ततो यूनि तिकादिपाठादायनिन्, कौरव्यायणिः । १०अस्माच्च “अत इञ्” तस्य " ञिदार्षादणिनोः ” ( ६।१।१४० ) इति लुप् । कौरव्यः । कुरुशब्दश्च तिकादिष्वपि पठ्यते । कौरवायणिः । उत्साद्यन् तु व्यायनिब्भ्यां च बाधितः । कुरुशब्दादपत्ये न भवति । (शङ्कु, ) शाङ्कव्य इति- बहुषु शाङ्कव्याः इति । स्त्री शाङ्कव्या । लोहितादिपाठात् पौत्रादौ यनि शाङ्कव्यः । बहुषु लुप् शङ्कवः । स्त्री शाङ्कव्यायनी ॥ कुरु, शङ्कु, शंकन्धु, शांकभू, पैथकारिन्, मैतिमत्, पितृमत्, पितृमन्तु, वाचू, हॅन्ट, १० हृदिक, शलाका, कालाका, ऐरका, पैंदका, खेदाका, १५ केशिनी मैंति, कवि, हैन्ति, पिण्डी, २० ऐन्द्रजालि, धानुजि, वैरींजकि, दामोष्णीषि, गौणकारि,
३५४
कैशोरि, कौपिञ्जलादि, गैंर्गर, हेतू, खूष, ३० अँविमारक, अजमारक, चैफद्दक, कुट, कैंटल, मुँर, दभ्र, सूर्पणाय, रैथावनाय, श्यावरथ ४० श्यामथ, श्यावप्रथ, श्यापत्र, श्यापुत्र, सैंत्यंकार, वलभीकार, कर्णकार, पथिकार बृहतीकार वान्तवृक्ष ५० आर्द्रवृक्ष, मूँढ, शॉक, इन, रथकार, नापित, तक्षन्, शुभ्र ५८ इति कुर्व्वादयोऽष्टपञ्चाशत् । अत्र हन्तानां सामान्याणो हृदिकस्य तु वृष्ण्यणोऽपवादो २० यः । शलाकादीनां केशिन्यन्तानामेयणः । मानुषीनामत्वेऽणोऽपि । केशिनीशब्दस्य स्त्रीलिङ्गपाठादेव पुंवद्भावो न भवति । कैशिन्यैः । पुंवद्भावे तु कैश्य इति स्यात् । पुंल्लिङ्गनिवृत्त्यर्थस्तु स पाठो न भवति । “गाथिविदथिकेशिपणिगणिनः” (७।४।५४ ) इत्यपत्ये ऽण्यन्त्यस्वरादेले प्रतिषेधात् । केशिन्शब्दाद्धि व्यविधानेऽण् न सम्भवत्येव । मतिकविहन्तिपिण्डीनामेयणः । ऐन्द्रजाल्यादीनां कापिञ्जलाद्यन्तानामायनणः । गर्गरादीनामिनः । तक्षनशब्दस्य शिवाद्यणा समावेशार्थः पाठः, शुभ्रस्यैयणा ॥
इत्यादिशब्दोपादानात् “सम्राजः क्षत्रिये” (६।१।१०१) । अपत्ये यः । सम्राजोऽपत्यं साम्राज्यः २६ क्षत्रियश्चेत्, अन्यत्राणेव - साम्राजः । अन्ये साम्राजिरित्याहुस्तत्र सम्राट् बाह्वादिषु द्रष्टव्यः । “सेना
१ शकानामन्धुरिव पृषोदरादित्वात् अलोपः । २ शाकेभ्यो भवति । ३ पन्थानं करोति । ४ मतिरस्यास्ति । ५ पितरि मन्तुः विप्रियं यस्य । ६ वक्तीत्येवंशीलः । ७ हन्ति तृच् । ८ कालमकति । ९ ईरयति 'कीचक' - इति । १० पद्यते 'कीचक' - इति पदका । ११ खदनं 'भिदादयः' खदां कायति । १२ केशा अस्याः सन्ति । १३ मन्यते । १४ कवते मन्यादित्वादिः । १५ वध्यात् हन्ति । १६ पिण्डते अच् गौरादिलात् ङयां पिण्डी । १७ इन्द्रं जलति तस्यापत्यं । १८ धनोः राशेर्जातः त० | १९ विराजते त० । २० दामयुक्तमुष्णीषं यस्य त० । २१ गणान् करोति त० । २२ किशोरस्यापपत्यम् । २३ कपिंजलानादत्ते त० । २४ गगं राति । २५ हन्ति 'पुत' - इति । २६ 'खलिफलि' इति मञ्जूषः । २७ अवीनामजानां मारकः २८ दकारो द्विः । २९ 'नाम्युपान्त्य' - इति के कुटः । ३० 'तृपिवपि' इति कुटलः । ३१ 'ऋष्वजि'इति । ३२ सूर्पं नयति कर्म्मणोऽण् । ३३ श्यावं पिङ्गलं नयति । श्यावः पिङ्गलो रथो यस्य । श्यायन्ते श्याः गामुकास्तैः प्रथते । श्यावैः पिङ्गलैः प्रथते । श्या गत्वरः पत्रं पुत्रो यस्य । ३४ सत्यं वलभीं कर्णान्पन्थानं बृहतीं करोति । ३५ वान्ता आर्द्रा वृक्षा यस्याम् । ३६ मुत्यति स्म । ३७ शकयते आराधयितुम् ॥ - नापिताय निरिति परत्वात् 'अवृद्धाद्दोर्नवा' इत्यपि ॥ ३८ कैशिन्य इति । पुंवद्भावे नु कैश्य इति स्यात् स्थिते तु 'अवर्णवर्णस्य' इति खरादेशस्य स्थानित्वात् 'नोपदस्य' – इति न भवति ॥ ३९ लुक्प्रतिषेधात् इति । अयमर्थः - केशिन् शब्दस्याणि अन्त्यखरादिलुकप्रति षेधोऽनर्थकः स्यात् यद्यस्मात् ञ्यः स्यात् ॥
I
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org