________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे तद्धिताः । अपत्यप्रत्ययाधिकारः ३५३
मातृपित्रादेर्डेयणीयणौ ॥ ३१ ॥ [सि० ६।१।९०] मातृपितृपूर्वावसुरेतौ स्याताम् । मातृष्वसेयः मातृष्वतीयः । पैतृष्वसेयः पैतृष्वतीयः । "श्वशुराद्यः" (६।१।९१) श्वशुर्यः ॥ ३१ ॥
"मातृ०" । वचनभेदान्न यथासख्यम् । मातृपित्रादेः स्वसन्तस्य ग्रहणादिह न भवति । परममातृध्वसुरपत्यम् । परमपितृष्वसुरपत्यम् । मातृपितृशब्दयोकारान्तयोनिर्देशादिह न भवति । मातुःस्वस्रः५ मातु:ध्वस्रः । पैतुःस्वस्रः पैतुःध्वस्रः । अत्र "अलुपि वा” (२।३।१९) इति विकल्पेन षत्वम् । "श्वशु०" । श्वशुरस्यापत्यं श्वशुर्यः । “सम्बन्धिनां सम्बन्धे” (७४।१२१) इति इह न भवतिश्वशुरो नाम कश्चित्तस्यापत्यं श्वाशुरिः । अयं श्वशुरशब्दो द्वितालव्य इति श्रीवल्लभकृताभिधानचिन्तामणिवृत्ती, मध्यदन्त्य इत्यूष्मप्रभेदनाममालायाम् ।। ३१ ॥
जातौ राज्ञः ॥ ३२॥ [सि० ६।११९२] राज्ञोऽपत्ये यः स्यात् । जातौ गम्यमानायाम् ॥ ३२ ॥ "जातो.” राजन् य इति स्थिते ॥ ३२ ॥ सूत्रम्
___ अनोऽट्ये ये ॥ ३३ ॥ [सि०७४।५१ ] अन्नन्तस्य व्यवर्जे यादौ तद्धिते परेऽन्त्यस्वरादे ग न स्यात । राजन्यः, क्षत्रियजातिश्चेत । "क्षत्रादियः” (६।१।९३) । तथा । क्षत्रियः । “मनोर्याणी षश्चान्तः” (६।११९४)। जातौ । १५ मनुष्याः मानुषाः । “माणवः कुत्सायाम्" (६।१९५)। मनोरपत्यं मूढं माणवः॥३३॥ ___ "अनो०" राजन्य इति । एवं सामनि साधुः सामन्यः । एवं वेमन्यः । मूर्द्धनि भवो मूर्धन्यः । अट्य इति किम् ? राज्ञो भावः कर्म वा राज्यम् । अट्य इति पर्युदासनमा सानुबन्धट्यवर्जनादन्यस्मिन् सानुबन्धयेऽपि प्रतिषेधो भवति । तक्ष्णोऽपत्यं ताक्षण्यः (कुर्वादित्वात् व्यः) । अन इति किम् ? छत्रिषु साधुः छत्र्यः । क्षत्रियजातिश्चेदिति-अन्यराज्ञोऽपत्यं राजन इति । "क्षत्रा."१२० तथेति-जातौ गम्यायामित्यर्थः । क्षत्रस्यापत्यं क्षत्रियस्तज्जातीयश्चेत् , क्षात्रिरन्यः । “मनो."। यश्च अण् च याणौ । एतत्सन्नियोगे मनुशब्दस्य षकारोऽन्तो भवति । मनोरपत्यानि मनुष्याः, मानुषा इति । जाताविति किम् ? मानवः । मानवाः (मानवीः प्रजाः पश्य ) अत्र हि अपत्यमानं विवक्षितं न जातिस्तेन षोऽन्तो न भवति । वृद्धापत्यविवक्षायां तु लोहितादित्वाद्य-मानव्यः। मानव्यौ । मनवः। मानव्यायनी । मनुष्यमानुषशब्दाभ्यां सत्यसति चापत्येऽर्थेऽनभिधानादपत्ये पुनरन्यः प्रत्ययो न २५ भवति । “माण.” मनुशब्दादौत्सर्गिकेऽणि कुत्सायां गम्यायां नकारस्य णकारो निपात्यते ॥ ३३ ॥
कुलादीनः ॥ ३४ ॥ [सि०६१।९६] कुलान्तात् केवलाच्च कुलादपत्ये ईनः । बहुकुलीन:; कुलीनः । “यैयकमावसमासे वा" (६।१।९७)। कुल्यः, कौलेयकः, कुलीनः । समासे तु आढ्यकुलीनः । “दुष्कुलादेयण वा" (६।१।९८)। दौष्कुलेयः दुष्कुलीनः । “महाकुलाद्वाऽत्रीनौ ” (६।११९९) माहाकुलः ।३० माहाकुलीनः । महाकुलीनः । “कुर्वादेयः” (६।१।१००) कौरव्याः । शाङ्कव्याः॥३४॥
"कुला." उत्तरसूत्रे समासे प्रतिषेधादिह कुलान्तः, केवलश्च गृह्यते । कुलीन इति-एवं ईषदपरिसमाप्तं कुलं बहुकुलम् तस्यापत्यं बहुकुलीनः । एषु 'अत इनः' (६।१।३१) "अदोरायनिः प्रायः" ३३
है. प्रका० पूर्वा० ४५
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org