________________
३५२ महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुजातिशब्दोऽस्येव, स्त्रियामपत्ये प्रत्ययानवणार्थ लुब्वचनम् । अस्नियामित्येव सिद्धे प्रत्ययान्तरबाधनार्थ गैरविधानम् ॥ २८॥
क्षुद्राभ्य एरण वा ॥ २९ ॥ [ सि० ६।१।८०] अङ्गहीना व्यभिचारिण्यो वा स्त्रियः क्षुद्रास्ताभ्य एरण वा स्यात् । काणेरः काणेयः । दासेरः ५दासेयः । नाटेरः नाटेयः ॥ "गोधाया दुष्टे णारश्च" (६।१।८१) गौधारः गौधेरः । अदुष्टे
तु गौधेयः । “भ्रातुये।" (६।१।८८) भ्रातृव्यः ॥ २९ ॥ ___"क्षुद्रा०" । व्यभिचारिण्य इति-अनियतपुंस्का इत्यर्थः । नाटेय इति–एवं कईनाया अपत्यं काईनेरः काईनेयः ॥ “गोधा" । णारश्चेति चकारादेरण् । गोधाया दुष्टमपत्यं गौधारः गौधेरः;
योऽहिना गोधायां जन्यते ॥ गौधेयोऽन्यः-शुभ्रादित्वादेयण् । १० इत्यादिशब्दानुवृत्तेः “जण्टपण्टात्" (६।१।८२)। आभ्यामपत्ये णारः। जाण्टारः । पाण्टारः ।
कौमुद्यां तु अनयोः स्थाने जडपण्डशब्दो दृश्येते । जडस्यापत्यं जाडारः । पण्डस्यापत्यं पाण्डारः। केचित्तु पक्षस्यापत्यं पाक्षार इत्यपीच्छन्ति ॥ "चतुष्पाञ्य एयम्" (६।१।८३)। अपत्ये । अणादीनामपवादः । कमण्डल्या अपत्यं कामण्डलेयः । कमण्डलुशब्दश्चतुष्पाजातिविशेषे । शितिबाह्वाः शैतिबाहेयः । मद्रबाबा माद्रबाहेयः । जम्ब्वा, जाम्बेयः । शबलायाः शाबलेयः। बहुलाया बाहुलेयः । सुरभेः १५ सौरभेयः ॥ "गृष्टयादेः” ( ६।१।८४ ) एभ्य एयञ्, अपत्ये । गृष्टेरपत्यं गार्टेयः । चतुष्पाद्वाचिनो
गृष्टिशब्दात्पूर्वेणैव सिद्धे अचतुष्पादार्थमुपादानम् । गृष्टि, हृष्टि, हलि, वालि, विश्रि, कुद्रि, अजबस्ति, मित्रयु इति गृष्ट्यादयोऽष्टौ । बकारस्य मित्कार्यार्थत्वान्मित्रयुशब्दस्यानेन एयनि "सारवैश्वाक०" (७४।३०) इति अयुलोपे ततोऽत इबि'ति इमि तस्य "बिदा दणियोः" (६।१।१४०) इति लुपि मैत्रेयः पिता, मैत्रेयः पुत्र इति ॥ "वाडवेयो वृषे” (६।११८५) । वृषो यो गर्भे वीज निषिञ्चति । २० वडवाया वृषो वाडवेयः । अपत्येऽणेव-वाडवः । निपातनमेयणेयजोरुभयोरपि वृषे व्यवस्थापनार्थम् ।
अन्यथाऽन्यतरोऽपये प्रसज्येत ॥ "रेवत्यादेरिकण्” (६।१।८६) । अपये । रैवतिकः । आश्वपालिकः । रेवती, अश्वपाली, मणिपाली, द्वारपाली, वृकवञ्चिन , वृकग्राह, कर्णग्राह, दण्डग्राह, कुकुटाक्ष, इति रेवत्यादयो नव । द्वारपाल्यन्तानामेयणोऽपवादः । यदि मानुषीनाम तदाऽणोपि । वृकवश्चिनोऽणः शेषाणामिनः ॥ "वृद्धस्त्रियाः क्षेपे णश्च" (६।१।८७ ) वृद्धप्रत्ययान्तात्त्रीवाचिनः २५ शब्दादपत्ये णः प्रत्ययो भवति । चकारादिकण् । क्षेपे गम्यमाने-पितुरसंविज्ञाने मात्रा व्यपदेशोऽपत्यस्य क्षेपः । गार्या अपत्यं युवा गार्गः गार्गिको वा जाल्मः । “वृद्धायूनि" ( ६।१।३० ) इति यूनीमौ प्रत्ययौ । वृद्धग्रहणं किम् ? कारिकेयो जाल्मः । स्त्रिया इति किम् ? औपगविर्जाल्मः । क्षेपे इति किम् ? गार्गेयो माणवकः । मातुः संविज्ञानार्थमिदमुच्यते ॥ "भ्रातु.” । भ्रातुरपत्यं भ्रातृव्यः । यत्तु शत्रुरपि भ्रातृव्य उच्यते स उपचारात् । एकद्रव्याभिलाषश्चोपचारनिमित्तम् ॥ २९ ॥
ईयः स्वसुश्च ॥ ३० ॥[सि०६।१८९] भ्रातुः स्वसुश्च ईयः। भ्रात्रीयः स्वस्रीयः ॥३०॥ ३२ ईय." । भ्रातुरपत्यं भ्रात्रीयः । स्वसुरपत्यं खस्रीयः ॥ ३० ॥
१ 'दितेश्चैयण्वा' इत्यधिकारे यदि क्रियेत तदैयण चतुष्पाच्य इत्यधिकारे खेयञ् स्यादित्यर्थः ।
50
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org