________________
३५१
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे तद्धिताः । अपत्यप्रत्ययाधिकारः दौहाईम् ॥ सुहृदो भावः कर्म वा राजादित्वात् ट्यणि सौहार्यम् । दौहार्यम् । बहुलाधिकारान्मित्रामित्रार्थयोः सुहृदुहृच्छब्दयोः सौहृदं दौर्हदमित्यपि स्यात् । सुभगस्य भावः सौभाग्यम् । दौर्भाग्यम् । सुभगाया अपत्यं सौभागिनेयः । दौर्भागिनेयः । एकपदत्वाण्णत्वम् । सक्तुप्रधानाः सिन्धवस्तेषु भवः साक्तुसैन्धवः । पानसैन्धवः लावणसैन्धवः माहासैन्धवः । सौरसैन्धवः । कच्छादित्वादण् । तंत्र तदन्तविघेरपीष्टत्वात् । "प्राचां नगरस्य” (७।४।२६ ) प्राचा देशे वर्त्तमानस्य नगरान्तस्य शब्दस्य ५ मिति तद्धिते उभयपदवृद्धिः स्यात् । सुमनगरे भवः सौह्मनागरः । पौण्डनागरः । वान (वाजु. (ब्राज ) बृ. वृत्तौ ) नागरः । वैराटनागरः । गैरिनागरः । प्राचामिति किम् ? उदीचा माडनगरः । "अनुशतिकादीनाम्" (७।४।२७) । एषां णिति तद्धिते उभयपदवृद्धिः स्यात् । अनुशतिकस्येदमानुशातिकम् । अनुशतिकस्यापत्यमानुशातिकिः । अनुशतिक, अनुहोड, अनुसंवत्सर, अनुसंवरण, अनुरहत्, अगारवेणु, असिहत्या, अस्यहत्या, अस्यहेति, (अश्वि(स्य) हत्य) अस्यहेतु, अनिषाद, १० अधेनु, कुरुषत, (कुरुरुत ?) कुरुपञ्चाल, अधिदेव, अधिभूत, इहलोक, परलोक, सर्वलोक, सर्वपुरुष, सर्वभूमि, वध्योग, प्रयोग, अभिगम, परस्त्री, पुष्करसद्, उदकशुद्ध, सूत्रनड, चतुर्विद्या, शातकुम्भ, सुखशयन, इत्यनुशतिकादयश्चतुस्त्रिंशत् ३४ । आकृतिगणोऽयम् । तेन राजपौरुष्यादयष्टयणन्ता अत्रैव पठ्यन्ते । राजपौरुष्यम् । पारिमाण्डल्यम् । प्रातिभाव्यम् । सार्ववैद्यम् । प्रत्ययान्तरे त्वादेरेव वृद्धिः । राजपुरुषायणिः (अवृद्धात् इत्यायनिब् ) "देवतानामात्वादौ" (७।४।२८ ) १५ देवतार्थशब्दानामात्वादौ विषये ब्णिति तद्धिते उभयपदवृद्धिः स्यात् । अग्निश्च विष्णुश्च देवता अस्य आग्नावैष्णवं सूक्तम् । ऐन्द्रापौष्णं हविः । आग्निमारुतं कर्म । आग्नीवारुणीमनड्वाहीमालभेत । आत्वादाविति किम् ? स्कन्दविशाखयोरिदं स्कान्दविशाखम् । ब्राह्मप्रजापत्यम् । "वेदसहश्रुतावायुदेवतानाम्" (३।२।४१) इत्यत आरभ्य "उषासोषस” ( ३।२।४६) इति यावदात्वादयः । “आतो नेन्द्रवरुणस्य” (७।४।२९) आकारान्तात्पूर्वपदात्परस्य इन्द्रस्य वरुणस्य त्वादिस्वरवृद्धिर्न स्यात् ।२० अग्निश्च इन्द्रश्च अग्नेन्द्रौ । तौ देवता अस्य आनेन्द्रं सूक्तम् । सौमेन्द्रं हविः । ऐन्द्रावरुणम् । मैत्रावरुणं हविः । आत इति किम् ? आमीवारुणम् । “ई: षोमवरुणेऽमे" ( ३।२।४२) इतीकारः उत्तरपदस्येत्येव-ऐन्द्राग्नम् एकादश कपालं पुरोडाशं निर्वपेत् । ननु चेन्द्रस्याद्यः स्वरः सन्धिकार्येण हियतेऽपरो "अवर्णेऽवर्णस्य” (७४।६८) इत्यनेन, ततोऽस्वर एवेन्द्रशब्दस्ततः किं प्रतिषेधेन । सत्यम् । किन्त्वनेनैतत् ज्ञाप्यते-"बहिरङ्गमपि पूर्व पूर्वोत्तरपदयोः कार्य भवति पश्चात्सन्धिकार्यम्",२५ तेन पूर्वेषु कामशम इत्यादि सिद्धं भवति । अन्यथात्र यदि पूर्व सन्धिः स्यात्तदा इकारे सन्धिनाहते प्राग्ग्रामाणामित्युत्तरपदवृद्धिप्राप्तौ पुकारसम्बन्धिन उकारस्य वृद्धिः स्यादिति ॥ "कुलटा०” । आबन्तत्वादेयण सिद्धः, आदेशार्थ वचनम् । अत एवादेशस्यैव विकल्पो नत्वेयणः । या तु कुलान्यटन्ती शीलं भिनत्ति ततः परत्वात् क्षुद्रालक्षण एरणेव-कौलटेर इति । कौलटेरोऽसतीसुतः । "स तु कौलटिनेयः स्याद्यो भिक्षुकसतीसुतः । द्वावप्येतौ कौलटेयौ०" इत्यभिधानचिन्तामणौ ।३० "चटका" । चटकादपत्यमात्रे गैरः प्रत्ययः स्यात् । स्त्रियां त्वपये विहितस्य गैरस्य लुप् । लिङ्गविशिष्टस्यापि ग्रहणात् चटकस्य चटकाया वा अपत्यं पुमान् चाटकैरः, स्त्री तु चटका । चटकेति ३२
१ ननु सुहृदुईच्छन्दयोर्मित्रामित्रार्थयोरिति विशेषणं किमर्थ मित्रामित्रार्थयोरेव सुहृदुईदूपसमासान्तविधानेनाव्यभिचारात् । सत्यम् । सुहृदयदुहृदयशब्दयोः क्रूरारार्थयोर्यदा 'तस्येदम्' इत्यणि 'हृदयस्य हृल्लास.' इत्यनेन हृदादेशस्तदापि सुहृदुहृच्छब्दी स्त इति तद्यवच्छेदार्थ मित्रामित्रार्थयारित्युक्तम् । २ न केवलं सिन्धु इत्यस्य केवलस्य कच्छादौ पाठात् केवलाप्रत्ययः किंतु सिध्वन्तेति पाठात्तदन्तादपीत्यर्थः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org