SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ ३५० महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलधुसैप इति उथापत्यूङ इत्यस्यापवादः । “अदोर्नदीमानुषी०" ( ६।१।६७) इति तस्यापवादोऽयमिति । एवं सीताया अपत्यं सैतः । सन्ध्यायाः सान्ध्यः । वेणाया वैणः । रेवाया रैवः । शुद्धायाः शौद्धः । कुलायाः कौलः । मह्या माहः । सीतादयो नद्यः ॥ २६ ॥ इतोऽनिजः ॥ २७ ॥ [सि० ६।१।७२] ५ इश्वर्जेदन्ताद्विस्वरादेयण् स्यात् , अपत्ये । नाभेयः। “शुभ्रादिभ्यः” (६।१७३)। एयण् । शौभ्रेयः । गाङ्गेयः ॥२७॥ ___“इतो.” । नाभेय इति । एवमत्ररात्रेयः । अहेराहेयः । दुलेदौलेयः । बलेर्बालेयः । निधे धेयः । इत इति किम् ? दाक्षिः । अनिय इति किम् ? दाक्षायणः । द्विस्वरादित्येव-मरीचेरपत्यं मारीचः । कथमजबस्तेरपत्यमाजबस्तेयः, शकन्धेः शाकन्धेयः, परिधेः पारिधेयः, शकुनेः शाकुनेयः, अतिथे१० रातिथेय इति ? शुभ्रादित्वाद्भविष्यति । "शुभ्रा०" यथायोगमित्रादीनामपवादः । शौभ्रेयः । शुभ्र, विष्टपुर, विष्टपर, ब्रह्मकृत, शतद्वार, शताहार, शालाथल, (शालायल ?) टीक, शालूक, १० कुकलाश, प्रवाहण, भाण, भारत, भारम, कुदत्त, कपूर, इतर, अन्यतर, आलीढ, २० सुदत्त, सुदक्ष, तुद, अकशाप, वादन, शतल, शकल, (शक) शबल, खडूर कुशम्ब ३० शुक्र, विग्र, वीज, अश्व, वीजाश्व, अजिर, मवक्र, मखण्डु, मकष्टु, मघष्टु, ४० मृकण्डु, मृकण्डु, जिह्माशिन् अजबस्ति, १५शकन्धि, परिधि, अणीचि, कणीचि, शकुनि, अतिथि, ५० अनुदृष्टि, शलाकाभ्रू, लेखाधू, रोहिणी, रुक्मिणी, किकशा, विवशा, गन्धपिङ्गला, षडोन्मत्ता, कुमारिका ६० कुबेरिका, अम्बिका, अशोका, श्वन , गङ्गा, पाण्डु, विमा, विधवा, कद्रू, गोधा, ७० सुदामन् सुनामन् ७२ इति शुभ्रादयो द्वासप्ततिः ७२ । मवक्रान्तानामियोऽपवाद एयण, मखण्ड्वादीनां विमात्रन्तानामणः, विधवाया एरणः, कद्रूगोधयोश्चतुष्पादे यञः। सुदामन सुनाम्नोरिजा शुभ्रस्य तु ब्येन समावेशार्थः पाठः । बहु२० वचनमाकृतिगणार्थम् । अत्र विशेषास्त्वेवम् ॥ "श्यामलक्षणाद्वासिष्ठे" (६।१।७४) । श्यामेयो वाशिष्ठः, श्यामायनोऽन्यः । अश्वादित्वात् वृद्धे आयनञ् , अवृद्धे तु श्यामिः । लाक्षणेयो वासिष्ठः, लाक्षणिरन्यः ।। "विकर्णकुषीतकात्काश्यपे" (६।१।७५) वैकर्णेयः काश्यपः, वैकर्णिरन्यः । कौषीतकेयः काश्यपः, कौषीतकिरन्यः ॥ "भ्रुवो ध्रुव च” (६।११७६) भ्रुवोऽपत्यं भ्रौवेयः ॥ २७ ॥ २५ कल्याणादेरिन् चान्तस्य ॥ २८ ॥ [ सि० ६।१७७] एभ्य एयण् स्यात् , अन्तस्य चेन् । काल्याणिनेयः । *कचिदुभयपदवृद्धिः । सौभागिनेयः । पारस्त्रैणेयः । “कुलटाया वा” (६।११७८) अन्तस्येन् । कौलटिनेयः कौलटेयः। "चणकाण्णैरः स्त्रियां तु लुप्” (६।११७९)। तस्य । चाटकैरः चटका ॥ २८॥ कल्या० । कल्याणादिभ्योऽपत्ये एयणप्रत्ययः, इन् चान्तस्यादेशः स्यात् । कल्याणी, सुभगा, दुर्भगा, ३० बन्धकी, जरती, बलीवर्दी, ज्येष्ठा, कनिष्ठा, मध्यमा, परस्त्री, अनुदृष्टि, अनुसृष्टि, इति कल्याणादयो द्वादश । पररुयन्तानां "छ्याप्त्यूङः” (६।११७० ) इति, अनुदृष्टेः शुभ्रादित्वादेयण सिद्ध एव, इनादेश एव विधीयते । अनुसृष्टेरुभयम् । *क्वचिदित्यादि । अत्र सूत्रपद्धतिरेवम्-"हृद्भगसिन्धोः " (७।४।२५ ) एतदन्तानां णिति तद्धिते पूर्वपदोत्तरपदस्य चादेः स्वरस्य वृद्धिः स्यात् । सुहृदः ३४ सुहृदयस्य वा इदं भावः कर्म वा "तस्येदम्” (६।३।१६० ) इत्यणि । युवाद्यणि वा सौहार्दम् , एवं Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004040
Book TitleHaim Prakash Maha Vyakaranam Purvarddham
Original Sutra AuthorN/A
AuthorKshamavijay
PublisherHiralal Somchand Kot Mumbai
Publication Year1937
Total Pages560
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy