________________
प्रक्रियावृत्तिरूपे श्रीमप्रकाशे तद्धिताः । अपत्यप्रत्ययाधिकारः
३४९
1
गोनर्दीयः । भोजकटीयः । कोशवृक्षीयः । 'गोमयहृदीयः । एकचक्रकः । क्रोडं नाम प्राग्ग्रामस्तत्र भवः क्रोडीयः । देवदत्तं नाम प्राग्ग्रामस्तस्य काश्यादिपाठात् णिकेकणौ । दैवदत्तिका, दैवदत्तिकी । पूर्वसूत्रे देशग्रहणम् ऐंवकारेण सम्बद्धमिति पुनरिह देशग्रहणम् । देश एवेति नियमनिवृत्त्यर्थं वचनम् । इति दुसंज्ञाप्रकरणम् ॥ २४॥
अथ प्रकृतम् -
अदोर्नदीमानुषीनाम्नः ॥ २५ ॥ [ सि० ६ १६७ ]
दुसंज्ञवर्णानदीनानो मानुषीनाम्नश्चापत्ये अण् स्यात् । यामुनः । दैवदत्तः ।। २५ ।।
“अदो०” । यामुन इति । यमुनाया अपत्यं यामुनः प्रणेता । ऐरावत उध्यः । वैतस्तः पलालशिराः । नार्मदो नीलः । अथ मानुषी, दैवदत्त इति - एवं सौदर्शनः । सौतारः । स्वायम्प्रभः । अदोरिति किम् ? चान्द्रभागेयः । वासवदत्तेयः । नदीमानुषीग्रहणं किम् ? सुपर्ण्याः सुपर्णाया वाऽपत्यं १० सौपर्णेयः । विनताया वैनतेयः । देव्यावेते इत्येके । पक्षिणावित्यन्ये । नामग्रहणं किम् ? शैौभनेयः । शोभनाशब्दो नद्यां मानुष्यां च वर्त्तते न तु नामत्वेन । एयणोऽपवादो योगः ।
आदिशब्दात् । “पीलासाल्वामण्डूकाद्वा” (६|१|६८ ) । पैलः पैलेयः । साल्वः साल्वेयः । माण्डूकः माण्डूकः । पीलासाल्वाभ्यां द्विस्वरैयणि मण्डूकादिनि प्राप्ते वचनम् । वाग्रहणं मण्डूकस्य अर्थम् ॥ " दितेश्चैण वा" ( ६।१।६९) दितिशब्दान्मण्डूकशब्दाच्चापत्ये एयण् वा स्यात् । दैतेयः १५ दैत्यः । माण्डूकेयः माण्डूकि: । चकारो मण्डूकार्थः । पीलासाल्वाभ्यां ह्यण्विकल्पादेवे यण् सिद्धः । मण्डूके त्रैरूप्यं सिद्धमेव । वाग्रहणं दितेर्यार्थम् । “ इतोऽनिनः " ( ६।१।७२ ) इत्येव दितेरेयणि सिद्धे, “अनिदम्यणपवादे च ० " ( ६।१।१५ ) इत्यनेन तस्य बाधायां प्रतिप्रसवार्थं वचनम् ॥ २५ ॥
ङयाङः ॥ २६ ॥ [ सि० ६ १९/७० ]
_भ्यश्चतुर्म्य यण् स्यात् । सौपर्णेयः । त्रैशलेयः । यौवतेयः । *कद्रूपाण्डूवर्जीवर्णस्य २० एये लुगू वक्तव्या - कामण्डलेयः । द्विखरनद्यर्थात्तु नैयण - सैप्रः ।। २६ ।।
"ङया०' । ङी च आप् च तिश्च ऊङ् च ङयापूत्यूङ् तस्मात् ।
""
ऊङन्तस्य विशेषमाह । “अकद्रू पाण्ड्वोरुवर्णस्यैये" ( ७१४१६९) कद्रश्च पाण्डूश्च कद्रूPost | कद्रूपrust अकद्रूपाण्ड्वौ तयोः, वेदाः प्रमाणमित्यादिवद्वैधिकरण्येऽपि विशेषणविशेष्यभावः । *कद्रूपाण्डूवर्जस्योवर्णान्तस्य एये तद्धिते परे लुक् स्यात् । कमण्डल्वा अपत्यं कामण्डलेय इति । एवं २५ मद्रबाह्वा माद्रबाहेयः । शितिबाह्वाः, शैतिबाहेयः । जम्ब्वा जाम्बेयः । लेखाभ्रुवः लैखाभ्रेयः । अत्र परत्वादुवादेशो बाध्यते । अकद्रूपाण्डोरिति किम् ? काद्रवेयः । पाण्डवेयः ( उवर्णस्येति किम् ? वैमात्रेयः। एय इति किम् ? माण्डव्यः ) || + द्विवरेत्यादि । अत्र सूत्रम् “द्विखरादनद्या : ( ६।१।७१ ) । द्विस्वरात् ङयाप्त्यूङन्तादनदीवाचिनोऽपत्ये एयण् स्यात् । दात्तेयः । गौप्तेयः । अनद्या इति किम् ? २९
१ वाहीकेषु बाधक : 'कखोपान्त्य' इतीयः । २ ननु प्राचीति क्रियताम्, देशाधिकारे सति किं पुनर्देशग्रहणेनेत्याहएवकारेण सम्बद्धमिति तदनुवृत्तावेवकारोऽप्यनुवर्त्तेत तन्निवृत्यर्थं पुनर्ग्रहणमित्यर्थः ३ ननु प्राचीतिसूत्रकरणसामर्थ्यादेवकाररहित एव देश इत्यनुवर्त्तिष्यते । यदि ह्येवकारसंबद्धं देश इत्यनुवर्त्तिष्यते तदा प्राचीत्येदपि न कुर्यात् पूर्वेण सामान्येन सिद्धवात् । सत्यम् । प्राचीतिकृते सूत्रसामर्थ्यात् प्राचिकालेऽपि दुसंज्ञा स्यादित्यप्याशङ्का स्यादिति देशग्रहणम् । पूर्वसूत्रे सामान्ये देशे दुसंज्ञा, सामान्यमध्ये विशेषो ब्रुडित एव ततः किं वचनेनेत्याह-- देश एवेति । ४ अन्यथा वाग्रहणं विनापि ह्युत्तरेण चानुकुष्टेभ्य एभ्यस्त्रिभ्योऽप्येयण् । अनेन त्वण् भवति । मण्डूकात्तु कथमपीज् न स्यात् ।
For Personal & Private Use Only
Jain Education International
www.jainelibrary.org