________________
३४८
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघु___ "सङ्ख्याः " । सङ्ख्या च सम् च भद्रश्च सङ्ख्यासम्भद्रं तस्मात् अण् सिद्ध एव, आदेशार्थं वचनम् । शेषं स्पष्टम् ।
अनादिशब्दसंसर्गात् "कन्यात्रिवेण्याः कनीनत्रिवणं च" (६।१।६२) आभ्यामण इमावादेशौ च । कन्याया अपत्यं कानीनो व्यासः, कर्णश्च । त्रिवेण्या अपत्यं त्रैवणः, एयणोऽपवादः । ५“शुङ्गाभ्याम्भारद्वाजे" (६।१।६३) । शुङ्गस्य शुङ्गाया वा अपत्यं शौङ्गो भारद्वाजः । शौङ्गिः शौङ्गेयश्चान्यः । नामग्रहणे लिङ्गविशिष्टस्यापि ग्रहणमिति सिद्धे परत्वात् "द्विस्वरादनद्याः" (६।१।७१) इत्येयण प्राप्नोतीति बाधनार्थम् । द्विवचनेन स्त्रीलिङ्गः शुङ्गाशब्द उपादीयते । “विकर्णच्छगलाद्वात्स्यात्रेये” (६।१।६४ ) वैकर्णो वात्स्यः, वैकर्णिरन्यः । छागल आत्रेयः, छागलिरन्यः । "णश्च विश्रवसो विश्लक च वा” (६।१।६५) विश्रवसोऽण् । तद्योगे णकारोऽन्तादेशो णसन्नियोगे १० विश्लोपश्चास्य वा स्यात् । विश्रवसोऽपत्यं वैश्रवणः । विष्लुकि तु रावणः । आदेशार्थं वचनम् ॥ २३॥
____ अनन्तरमुपयोक्ष्यमाणां दुसंज्ञां क्षेपणाह ।
वृद्धिर्यस्य खरेष्वादिः ॥ २४ ॥ [सि० ६।१।८] यस्यादिखरो वृद्धिसंज्ञः स्यात, स दुः स्यात् ॥ "त्यदादिः" (६१७)। तथा । त्यदादयो दुःसंज्ञाः स्युः ॥ “संज्ञा दुर्वा (६।११६)। देवदत्तीयाः । देवदत्ताः ॥ २४ ॥ १५ "वृद्धि०" वृद्धिसंज्ञ इति-यथा आम्रगुप्तायनि । 'अवृद्धाहोर्नवा" (६।१।११०) इत्यायनिः ।
आम्बष्ठ्यः “दुनादि०” (६।१।११८) इति यः । शालीयः, आर्षभीयः, एनिकायनीयः, औपगवीयः, "दोरीयः” ( ६।३।३२) इतीयः ॥ “त्यदा०” । सर्वाद्यन्तर्गतस्त्यदादिर्गणः तथेति-दुसंज्ञ इत्यर्थः । यथा तदीयं यदीयं "दोरीयः" इतीयः ॥ "संज्ञा०”। संज्ञा संव्यवहाराय हठान्नियुज्यते
सा दुसंज्ञा वा स्यात् । देवदत्तीया दैवदत्ताः । २० अत्रादिशब्दसम्बन्धात् “एदोद्देश एवेयादौ" (६।१।९)। देश एव वर्तमानस्य यस्यादिः स्वर
एकार ओकारो वा स्यात् , स ईयादौ प्रत्यये विधातव्ये दुः स्यात् । सैपुरिका सैपुरिकी । स्कौनगरिका स्कौनगरिकी । सेपुरं, स्कोनगरं च वाहीकग्रामौ । सिन्वन्तीति विच् गुणः । सयां पुरं सेपुरम् । तत्र भवा "व्यादिभ्यो णिकेकणौ" (६।३।३४) इत्यधिकारे "वाहीकेषु प्रामात्" (६।३।३६) इति णिक इकण्वा ॥ देश इति किम् ? 'दैववाचकं नन्द्यध्ययनम् । एवकाराद्देशेऽन्यत्र च वर्त्तमानस्य न स्यात् । कोडं नाम २५ उदग्ग्रामः । देवदत्तं नाम वाहीकग्रामस्तत्र भवः क्रौडः देवदत्तः, अत्र न णिकेकणौ। क्रोडशब्दः स्वाङ्गेऽपि वर्त्तते । देवदत्तः पुंस्यपि क्रियाशब्दश्चेति । ईयादाविति किम् ? आयनियादौ न स्यात् । सेपुरस्थः पुरुषोऽप्युपचारात्सेपुरस्तस्यापत्यं सैपुरायणिः । वृद्धादायनित्र (न च वक्तव्यं देशे एव न वर्तत इति मुख्याभिधेयापेक्षया देशे एव वर्त्तते इत्युक्तमन्यथा उपचारेण स्वार्थं त्यजन्त्येव )। "प्राग्देशे" (६।१।१०) अस्मिन्वर्त्तमानस्य यस्यादिस्वर एकार ओकारो वा स्यात् , स ईयादौ विधातव्ये दुः स्यात् । ३० कः पुनः प्राग्देशः ? पूर्वोत्तरेण वहन्त्या ईशानतो नैर्ऋती गच्छन्त्याः शरावतीनद्याः यः पूर्वतो दक्षिणतो वा भवति स प्राग्देशः, यस्तु पश्चिमत उत्तरतो वा स उदक् । यदाहुः-"प्रागुदश्चौ विभजते हंसः रोदके यथा। विदषां शब्दसंसिद्ध्यै सा वः पायाच्छरावती" ॥२॥ एणीपचने भवः एणीपचनीयः।
१ देवान् वक्ति बाहुलकात् णकः । देववाचकेन कृतं प्रोक्तं वा 'कृते' 'तेन प्रोक्ते' वा अण् । अवश्यं नन्दतीति ‘णिन् चावश्यक' इति णिन् । नन्दिनोऽध्ययनं नन्दन्ति भव्यप्राणिनोऽनया नन्दी चासावध्ययनं च इति वा ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org