________________
३४७
प्रक्रियावृतिरूपे श्रीहैमप्रकाशे तद्धिताः । अपत्यप्रत्ययाधिकारः "कुर्वादेयः” (६।१।१००) कौरव्यस्थापत्यम् "अत इज्” तस्य लुप् । कौरव्यः पिता, कौरव्यः पुत्रः ॥ तिकादिषु औरशशब्दसाहचर्यात् कौरव्यशब्दः क्षत्रियगोत्रवृत्तिर्विज्ञायते, अयं तु ब्राह्मणगोत्रवृत्तिरित्यत आयनिञ् न भवति ।। आर्षात्-, वासिष्ठः पिता, वासिष्ठः पुत्रः । वैश्वामित्रः पिता, वैश्वामित्रः पुत्रः । ऋष्यणन्तादिञ् तस्य लुप् ॥ आत्रेयः पिता, आत्रेयः पुत्रः "इतोऽनिञः" (६।१।७२) इत्येयणन्तादिन् तस्य लुप् ॥ जिदार्षादिति किम् ? औपगवः पिता, औपगविः पुत्रः, औत्सर्गिकाणन्तादिञ् ।५ कौहडः कौहडिः पुत्रः शिवाद्यणन्तादिन् । अणियोरिति किम् ? दाक्षेरपत्यं दाक्षायणः ॥ "अब्राह्मणात्" (६।१।१४१) अस्मादृद्धप्रत्ययान्ताधूनि विहितस्य प्रत्ययस्य लुप् स्यात् । अङ्गस्यापत्यमाङ्गः "पुरुमगध०" इत्यादिनाण सस्यापत्यं 'द्विस्वरादणः' (६।१।१०९) इत्यायनि, तस्य लुप् । आङ्गः पिता पुत्रश्च ॥ एवं सौह्मः पिता पुत्रश्च ॥ मगधस्यापत्यं मागधः। “पुरुमगध०" इत्यण् । तस्यापत्यम् "अत इ" (६।१।३१) तस्य लुप् । मागधः पिता पुत्रश्च ॥ एवं कालिङ्गः, शौरमसः पिता पुत्रश्च । तथा १० नाकुलः । साहदेवः । वासुदेवः आनिरुद्धः । रान्ध्रसः । श्वाफल्कः पिता पुत्रश्च । एभ्यः "ऋषिवृष्ण्यन्धककुरुभ्यः” ( ६।१।६१) इत्यण् । तत इबो लुप् ॥ भाण्डीजाडियः । कार्णखारिः। मायूरिः। कापिअलिः पिता पुत्रश्च-अत्र "अत इब्" इतीम् । तत आयनणो लुप् ॥ श्वशुर्यः, कुलीनः पिता पुत्रश्च । अत्रेको लुप् ॥ अब्राह्मणादिति किम् ? गार्यः पिता गाायणः पुत्रः । “पैलादेः” (६।१।१४२) एभ्यो यूनि विहितस्य प्रत्ययस्य लुप् स्यात् । ब्राह्मणार्थमप्राच्यार्थं वचनम् । पीलायाः अपत्यं पैलः । १५ "पीलासाल्वामण्डूकाद्वा” (६।१।६८) इत्यण् । तस्यापत्यं "द्विस्वरादणः" इत्यायनिञ् । तस्य लुप् । पैलः पिता पुत्रश्च ।। शलङ्कोरपत्यं शालङ्किः । "शालङ्कयौदि०” (६।१।३७) इत्यादि निपातनात्तस्यापत्यं "यभित्र" (६।१।५४ ) इत्यायनण् । तस्य लुप् । शालङ्किः पिता पुत्रश्च ॥ पैल, शालङ्कि, सात्यकि, सात्यङ्कामि, औदन्यि, औदञ्चि, औदमज्जि, औदव्रजि, औदभृञ्जि, औदमेघि, औदशुद्धि, औदकशुद्धि, दैवस्थानि, पैङ्गलौदयनि, राणि, राहक्षिति, भौलङ्गि, औद्गाहमानि, औजिहानि, औज्जहानि, इति पैला-२० दयो विंशतिः । "प्राच्येऽजोऽतौल्वल्यादेः” (६।१।१४३) प्राच्यगोत्रे य इञ् तदन्तात् तौल्वल्यादिवर्जिताइन्यपत्ये विहितस्य प्रत्ययस्य लुप् स्यात् । ब्राह्मणार्थं वचनम् । पान्नागारिः । मान्थरणिः क्षैरकलम्भिः पिता पुत्रश्च । अत्र सर्वत्रात इञ् । ततो "यभित्र” इत्यायनण् तस्य लुप् । प्राच्यग्रहणं किम् ? दाक्षिः पिता । दाक्षायणः पुत्रः । इत्र इति किम् ? राघवः पिता । राघविः पुत्रः । तौल्वल्यादिवर्जनं किम् ? तौल्वलिः पिता । तौल्वलायनः पुत्रः । तैल्वलिः पिता । तैल्वलायनः पुत्रः ।२५ दालीपिः पिता । दालीपायनः पुत्रः । अत्र दिलीपशब्दस्यात एव निपातनादिनि वृद्धिराकारः । अपरे दलीप इति प्रकृत्यन्तरमाहुः ॥ तौल्वलि तैल्वलि तैल्वकि धारणि रामणि दालीपि दैवोति दैवमति दैवयज्ञि प्राटाहति प्रादाहति चाफड(दृ?)कि आसुरि पौष्करसादि आनुराहति आनुति नैमिश्रि नैमिश्लि नैमिशि आशि, बान्धकि, (बाद्धकि, ?) यासि, आसिनासि, आसिबाद्धकि, चौंकि, पौष्पि, आहिंसि, वैरकि, वैलकि, वैशीति वैहति वैकर्णि, वार्कलि, कारेणुपालि, इति तौल्वल्यादिः ।
३० "अपत्यार्थप्रत्ययानां बहुत्वादिविशेषिणाम् । इत्युक्तं लुप्प्रकरणमेवं शब्दोपजीवनात्" ॥ १ ॥२२॥
अणो विशेषमाह । सङ्ख्यासम्भद्रान्मातुर्मातुर्च ॥ २३ ॥ [सि० ६११६६] सङ्ख्यार्थात्सम्भद्राभ्यां च परस्य मातुरण मातुरादेशश्च । पाण्मातुरः । साम्मातुरः ॥ २३ ॥ ३४
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org