________________
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघु-- इत्येव-कुवल्याः फलं कुवलं तस्येदं कौवलम् ॥ "गर्गभार्गविका" (६।१।१३६) । अस्मान्द्वात्प्रागजितीये विवाहे योऽकल्प्रत्ययस्तस्मिन्नणो लुप्रतिषेधो निपात्यते । गर्गाणां वृद्धानां भृगूणां वृद्धानां यूनां च विवाहः गर्गभार्गविका । अत्रिभरद्वाजिकादिवदप्राप्तः प्रतिषेधो निपात्यते ॥ "यूनि लुप्" (६।१।१३७) यून्यपत्ये विहितस्य प्रत्ययस्य प्रागजितीयेऽर्थे स्वरादौ प्रत्यये विषयभूते अनुत्पन्न एव ५लुब् भवति । लुपि सत्यां यो यतः प्राप्नोति स तत उत्पद्यते । पण्टाहृतस्यापत्यं पाण्टाहृतिस्तस्यापत्यं
युवा पाण्टाहृतः । “पाण्टाहृतिमिमताण्णश्च” (६।१।१०४) इति णः । तस्य छात्रा इति प्रागजितीये स्वरादौ चिकीर्षिते णस्य लुप् । तत इबन्तं प्रकृतिरूपं सम्पन्नमिति । "वृद्धेऽत्रः” (६।३।२८) इत्यञ् भवति । पाण्टाहृताः ॥ भगवित्तस्यापत्यं भागवित्तिः । तस्यापत्यं युवा भागवित्तिकः । “भागवित्तितार्णबिन्दव०" ( ६।१।१०५) इत्यादिना इकण् । तस्य छात्रा इति पूर्ववदिकणि निवृत्तेऽब्१०भागवित्ताः ॥ वृषस्यापत्यं वार्ष्यायणिस्तस्यापत्यं युवा वार्ष्यायणीयः “सौयामायनि.” ( ६।१।१०६) इत्यादिना ईयः । तस्य छात्रा इति पूर्ववदीयस्य लुपि "दोरीयः” (६।३।३२) इतीयः वार्ष्यायणीयाः ॥ कपिञ्जलादस्यापत्यं कापिञ्जलादिस्तस्यापत्यं युवा कापिञ्जलाद्यः । कुर्वादित्वात् ज्यः । तस्य छात्राः पूर्ववत् । न्यस्य लुपि "वृद्धेऽबः" इत्यञ् । कापिञ्जलादाः ॥ ग्लुचुकस्यापत्यं ग्लुचुका
यनिः, तस्यापत्यं युवा ग्लौचुकायनः । औत्सर्गिकोऽण् । तस्य छात्रा इति पूर्ववत् अणो लुपि पुनः १५ शैषिकोऽणेव भवति-ग्लौचुकायनाः ॥ स्वर इत्येव-पाण्टाहृतमयम् । वार्ष्यायणीयरूप्यम् । प्रागजितीय
इत्येव-भागवित्तिकाय हितं भागवित्तिकीयम् ॥ “वायनणायनिजोः" (६।१।१३८) अनयो!न्यपत्ये विहितयोः प्राग्जितीये स्वरादौ प्रत्यये विषयभूते लुब् वा स्यात् । गर्गस्यापत्यं गाय॑स्तस्य युवापत्यं गाायणः “यभिम" ( ६।११५४) इत्यायनण् । तस्य छात्रा गार्गीया गाायणीया वा ।
"दोरीयः” ( ६।३।३२) इतीयः ॥ चिङ्कस्यापत्यं चैकिः तस्य युवापत्यं चैङ्कायनः । तस्य छात्राः २० चैकीयाः चैङ्कायनीया वा ॥ आयनियः खल्वपि-होतुरपत्यं हौत्रस्तस्यापत्यं युवा हौत्रायणिः "द्विस्वरादणः” (६।१।१०९) इत्यायनिञ् । तस्य छात्रा हौत्रीया हौत्रायणीया वा । “दोरीयः" इतीयः ।। आयनणो णित उपादानात् अितः पूर्वेण नित्यमेव लुप् । अत्रेरपत्यमात्रेयस्तस्यापत्यं भारद्वाजो युवा आत्रेयायणः । “आत्रेयाद्भारद्वाजे" (६।११५२) इत्यायनञ् । तस्य छात्रा आत्रेयीयाः ॥"दोनोवा" (६।१।१३९) । (प्राग्जितीये स्वर इति निवृत्तम् )। द्रिसंज्ञो य इञ् तदन्तात्परस्य युवप्रत्ययस्. ज् वा २५स्यात् । उदुम्बरस्यापत्यमौदुम्बरिः । 'साल्वांश०' (६।१।११७) इत्यादिनेञ् । तस्य युवापत्यं औदु
म्बरिः औदुम्बरायणो वा । “यभित्रः” इत्यायनण् ॥ द्रिग्रहणं किम् ? दाक्षेरपत्यं दाक्षायणः । इन इति किम् ? अङ्गस्यापत्यमाङ्ग: “पुरुमगध०" (६।१।११६) इत्यण् । तस्यापत्यमिति "द्विस्वरादणः” ( ६।१।१०९) इत्यायनिञ् । तस्य "अब्राह्मणात्" ( ६।१।१४१) इति नित्यं लुप् । आङ्गः पिता आङ्गः पुत्रः ॥ अब्राह्मणादिति नित्यं लुप्राप्तौ विकल्पोऽयम् । “त्रिदार्षादणिजोः" ३०(६।१।१४०)। बित् आर्षश्च योऽपत्यप्रत्ययस्तदन्तात्परस्य युवप्रत्ययस्य अण इञश्च लुब् भवति । वचनभेदाद्यथासङ्ख्याऽभावः । भितः, तिकस्यापत्यं तैकायनिः “तिकादेरायनिम्” (६।१।१०७) तस्या
पत्यमौत्सर्गिकोऽण् । तस्य लुप् तैकायनिः पिता तैकायनिः पुत्रः ॥ बिदस्यापत्यं बैदः । विदादित्वादञ् । ३३ तस्यापत्यं “अत०” (६।१।३१) इतीब् तस्य लुप् । बैदः पिता, बैदः पुत्रः ॥ कुरोरपत्यं कौरव्यः
१ अस्य सूत्रस्य करणात् अन्यथेनन्तात् आयनणैव भाव्यमिति पूर्वेणैव सिद्ध इदं न कुर्यात् , नन्वायनणैव भाव्यमिति न वाच्यं यत उदुम्बरस्यापत्यं स्त्री इज, नुर्जातेी तदा ज्यन्तात् 'ख्या यूटः' इति एयण प्राप्नोति इति प्राग्जितीये खरादौ प्रत्यये एतद्विना लोपो न प्राप्नोतीत्येतदर्थ कस्मान्न भवति ? सत्यम् , यद्येतदर्थ स्यात्तदा यूनि लुपित्यस्याये इदं कुर्यात् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org