________________
प्रक्रियावृत्तिरूपे श्रीमप्रकाशे तद्धिताः । अपत्यप्रत्ययाधिकारः
३४५
अपजग्ध, अडारक, वटारक, प्रतिलोम, अनुलोम, प्रतान, अनुपद, अभिहित, अनभिहित, खारीजङ्घ, कशकृत्स्न, शलाथल, कमन्दक, कमन्तक, कवन्तक, पिञ्जलक, अडडुक, अवव्वक, पतञ्जल, पदञ्जल, पर्णक, वर्णक, कठेरित, एभ्योऽत इनः । कुषीतक - अत्र काश्यपेऽर्थे “विकर्णकुषीतकात्काश्यपे” ( ६ । १।७५ ) इत्येयणः, अन्यत्रेयः । लेखाश्रू अत्र शुभ्रायणः । पिष्ट, सुपिष्ट, मसुरकर्ण, कर्णक, पर्णक, जटिलक, बधिरक, एभ्यः शिवाद्यणः । कठेलिति पतञ्जलि खरीखन एभ्य औत्सर्गिकाण: । ५ इत्युपकादिः । “तिककितवादी द्वन्द्वे" ( ६।१।१३१ ) । एषां द्वन्द्ववृत्तीनां बहुषु गोत्रापत्येषु वर्त्त - मानेषु तैकायनि-कैतवायनीत्यादीनां यः सप्रत्ययस्तस्यास्त्रियां लुप् स्यात् । तैकायनश्च कैतवायनश्च तिककितवाः तिकाद्यायनिनो लुप् ॥ औब्जयश्च काकुभाव उब्जककुभाः । उब्जादिनः ककुभाच्छिवाद्यणः ॥ औरशायना लाङ्कयश्च उरशलङ्कटाः । उरशात्तिकाद्यायनिनः । लङ्कटादिनः || अग्निवेशाश्च दाशेरकया अग्निवेशदशेरकाः । शण्डिलाश्च काशकृत्त्रयश्च शण्डिलकाशकृत्स्नाः । अग्निवेशशण्डिलाभ्यां गर्गा १० दियनः । दशेरकशकृत्स्नाभ्यां तु 'अत इम:' । “वान्येन ” ( ६ |१|१३३) इति यमो लुब्विकल्पे प्राप्ते नित्यार्थः पाठः ॥ औपकायनाश्च लामकायनाश्च उपकलमकाः, अत्र नडाद्यायनणः ॥ भ्राष्टकयश्च कापि - वलयच भ्रष्टककपिष्ठलाः । काष्र्णाजिनयश्च कार्ष्णसुन्दरयश्च कृष्णाजिनकृष्णसुन्दराः । वाङ्खरयश्व भाण्डीरथयश्च वङ्खरभण्डीरथाः । पाकयश्च नारकयश्च पहकनरकाः । बाकनखयश्च स्वागुदपरिणवयश्च बकनखस्खगुदपरिणद्धाः । अन्येषां बाकनखयश्च स्वागुदयश्च परिणद्वयश्चेति त्रिपदो द्वन्द्वः । (ता) १५ लाङ्कयश्च शान्तमुखयश्च ( ता ) लाङ्कशान्तमुखाः एषु सर्वेषु " अत इञः " उपकलमक' - भ्रष्टककपिष्ठल, कृष्णाजिन कृष्णसुन्दर, इत्येषामुपकादिष्वद्वन्द्वार्थः पाठः । द्वन्द्वे त्वयमेव नित्यो विधिः । इति तिककितवादयो द्वादश || "येकेषु षष्टधास्तत्पुरुषे यत्रादेव" ( ६।१।१३४ ) । षष्ठीतत्पुरुषे यत्पदं तस्याः षष्ट्या विषये द्वयोरेकस्मिंश्च वर्त्तते, तस्य यः स यनादिः प्रत्ययस्तस्य तथा वा लुब् भवति, यथा पूर्वम् । गार्ग्यस्य गार्ग्ययोर्वा कुलं गर्गकुलं गार्ग्यकुलम् । बिदकुलं बैदकुलम् । अगस्तिकुलं आग - २० स्त्यकुलम् । भृगुकुलं भार्गवकुलम् । व्येष्विति किम् ? गर्गाणां कुलं गर्गकुलम् । षष्ट्या इति किम् ? गार्ग्यहितं परमगार्ग्यः । षष्ठ्या इति तत्पुरुषस्य विशेषणेन प्रतिपदोक्तस्यैव षष्ठीतत्पुरुषस्य परिग्रहादिह न भवति । गार्ग्यस्य गार्ग्ययोर्वान्तर्गतः अन्तर्गाग्यः " प्रात्यव० " ( ३|१|४७ ) इत्यादिना समासः । ब्येकेष्वित्यस्य षष्ठ्या इति विशेषणं किम् ? देवदत्तस्य गार्ग्यः देवदत्तगार्ग्यः देवदत्तगाग्र्यो । तत्पुरुष इति किम् ? गार्ग्यस्य समीपमुपगार्ग्यम् । यजादेरिति किम् ? आङ्गकुलं यास्ककुलम् । " न प्राजितीये २५ स्वरे” ( ६।१।१३५ ) । गोत्र इति वर्त्तते । गोत्रे उत्पन्नस्य बहुषु या लुबुक्ता सा प्राग्जितीयेऽर्थे यो विधीयते स्वरादिस्तद्धितस्तस्मिन्विषयभूते न भवति । गर्गाणां छात्राः गार्गीयाः । वात्सीयाः । आत्रेयीयाः । आगस्तीयाः । खारपायणीयाः । हारितीयाः । प्राग्जितीये इति किम् ? अत्रिभ्यो हितः अत्रीयः । अगस्तीयः । गर्गीयः । वत्सीयः । स्वर इति किम् ? गर्गेभ्य आगतं गर्गमयम् । गर्गरूप्यम् । बिदानामपत्यं युवा बैदः बैदौ इत्यत्र तु इञि विषयभूतेऽनेन प्रतिषेधः । इञस्तु लुपि सत्यामनन्तं न ३० बहुषु वर्त्तत इति लुपः प्राप्तिरेव नास्ति । यत्र त्वस्ति तत्र भवत्येव । बिदानामपत्यानि बिदाः । अथेह कस्मान्न भवति ? अत्रीणां भरद्वाजानां च विवाह: अत्रिभरद्वाजिका । वसिष्ठकश्यपिका । भृग्वङ्गिरसिका । कुत्कुशिकिकेति । उच्यते । प्रत्यासत्तेर्यस्य प्रत्ययस्य लुप् प्रतिषिध्यते । तल्लोपिप्रत्ययान्तादेव ( स लोपी प्रत्ययोऽन्ते यस्य तस्मादित्यर्थः ) विधीयमाने स्वरादौ प्रतिषेधः । अत्र तु द्वन्द्वाद्विधीयते । न तल्लोपिप्रत्ययान्तादिति प्रतिषेधो न भवति । " गर्गभार्गविका” ( ६।१।१३६ ) इत्युत्तरसूत्रं वा नियमार्थं व्याख्यायते । गर्गभार्गविकाया अन्यत्र द्वन्द्वे वृद्धे यूनि वा प्रतिषेधो न भवति । गोत्र ३६ है० प्रका० पूर्वा० ४४
।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org