________________
३४४
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुभृग्वगिरस्कृत्सवसिष्ठगोतमात्रेः ॥ २२ ॥ [सि० ६।१।१२८ ] एभ्यः षड्भ्यो बहुत्वे गोत्रार्थप्रत्ययसास्त्रियां लुप् स्यात् । भृगवः । वसिष्ठाः । स्त्रियस्तु वासिध्यः ॥२२॥
"भृग्व०" । भृगव इति । एवमङ्गिरसाः । कुत्साः । वसिष्ठाः । गोतमाः । अत्रयः । बहुत्व इति ५किम् ? भार्गवः भार्गवी । आङ्गिरसः आङ्गिरसौ । कौत्सः कौत्सौ । वासिष्ठः वासिष्ठौ । गौतमः गौतमौ । आत्रेयः आत्रेयौ । गोत्रार्थप्रत्ययस्येति किम् ? भार्गवारछात्राः । अस्त्रियामिति किम् ? बियस्तु भार्गव्यः । आङ्गिरस्यः । कौत्स्यः । वासिष्ठ्यः । गौतम्यः । आत्रेय्यः ॥ भृग्वादीन् यस्कादिष्वपठित्वेद वचनम् "व्येकेषु षष्ठ्यास्तत्पुरुषे यादेर्वा" (६।४।१३४ ) इत्येवमर्थमन्यथा भृगुकुलं भार्गवकुलमिति
ने सिद्धयेत् । १० अत्रादिशब्दानुसन्धानात् “यस्कादेर्गोत्रे" (६।१।१२५) बहुत्वविशिष्टे गोत्रेऽर्थे वर्तमानस्य
यस्कादेर्यः स प्रत्ययस्तस्यास्त्रियां लुप् स्यात् । यास्कः । यास्कौ । यस्काः । नियास्तु यास्क्यः । यस्कस्थापत्यानि यस्कास्तत्प्रतिकृतयो यास्का इत्यत्र गोत्रे उत्पन्नस्यापि प्रत्ययस्य नेदानीं तदन्तं प्रतिकृतिषु वर्तमानं गोत्र इति न भवति । यस्क लह्य द्रुह्य अयस्थूण तृणकर्ण भलन्दन ६ एभ्यः षड्भ्यः शिवा
घणो लुप् । खरप अस्मानडाद्यायनणः । भडिल भण्डिल भडित भण्डित ४ एभ्योऽश्वाद्यायनत्रः । १५सदामत्त, कम्बलहार, पांढक, कर्णाढक, पिण्डीजङ्घ, बकसक्थ रक्षोमुख, जङ्घारथ, उत्काश, कदुमन्थ, कदुकमन्थ, विषपुट निकष (किषकः) कषक, उपरिमेखल, कडम, कृश, पटाक क्रोष्टुपाद, क्रोष्टुमाय, शीर्षमाय, स्थगल, पदक, वर्मक, २३ एभ्योऽत इनः । पुष्करसद् अस्माद्बाहादीबः । विश्रि, कुद्रि, अजबस्ति, मित्रयु, एभ्यो गृष्टाद्येयनः । इति यस्कादयः एकोनचत्वारिंशत् । “प्राग्भरते बहुख
रादिना (६।१।१२९) बहुस्वरान्नानो य इञ्प्रत्ययस्तदन्तस्य बहुत्वविशिष्टेऽर्थे प्राग्गोत्रे भरत२० गोत्रे च वर्तमानस्य यः स प्रत्ययस्तस्यास्त्रियां लुप् स्यात् । क्षैरकलम्भिः क्षैरकलम्भी, क्षीरकलम्भाः । एवं पन्नागाराः । मन्थरषेणाः । एज्वत इञ् । भरत. यौधिष्ठिरिः, यौधिष्ठिरी, युधिष्ठिराः । एवमर्जुनाः । उद्दालकाः । एभ्यो बाह्वादीनः । प्राग्भरत इति किम् ? बालाकयः हास्तिदासयः । कथं तौल्वलयः तैल्वलयः तैल्वकय इत्यादिषु लुप् न भवति ? उच्यते-यस्कादिषु पुष्करच्छब्दपाठात् ।
अस्य हि बहुस्वरत्वादनेनैवेञ्लोपे सिद्धे तदर्थोऽयं यस्कादिपाठो ज्ञापयति-तौल्बल्यादीनामियो लुप् २५न भवतीति । भरताः प्राच्या एव । तेषां पृथगुपादानं प्राग्ग्रहणेनाग्रहणार्थम् । तेन यौधिष्ठिरिः पिता यौधिष्ठिरायणः पुत्र इत्यत्र, "प्राच्ये बोऽतौल्वस्यादेः” (६।१।१४३) इति लुब् न भवति । अपरे वाहुः-मागग्रहणं भरतविशेषणम् । क्षीरकलम्भादयो वैश्याः प्राग्भरताः । युधिष्ठिरादयो राजान उदग्भरताः, तत्र प्रागग्रहणादुदीच्यभरतेषु राजसु लुब् न भवति । यौधिष्ठिरयः । आर्जुनयः । भरतअहणातु प्राच्येषु राजसु न भवति-मारसम्बन्धयः । भागवित्तयः। बहुस्वरादिति किम् ? चैतयः । ३० पौष्पयः । काशयः । वाशयः । इत्र इति किम् ? शान्तनवाः । “वोपकादे" (६।१।१३०)। एभ्यो बहुत्वविशिष्टे गोत्रे वर्तमानेभ्यो यः स प्रत्ययस्तस्यास्त्रियां वा लुप् स्यात् । उपकाः औपकायनाः ।
अस्त्रियामिति किम् ? औपकायिन्यः स्त्रियः । उपक, लमक, आभ्यां नडाद्यायनणो लुप् । भ्रष्टक, कपिअटल, कृष्णाजिन, कृष्णसुन्दर, पिङ्गलक, कृष्णपिङ्गलक, कलशीकण्ठ, दामकण्ठ, जतुक, कनक. मदाघ.
१ भृगोरपत्यमपले वा ऋष्यण् । भार्गवस्य भार्गवयोर्वा कुलम् । २ तदाऽयादित्वात् , तत्र हि यादेर्वेत्युक्तम् । ततश्च 'यजमोऽश्यापर्णः' इस्यारभ्य येषां बहुखे लुप् तेषां एकलद्विलयोरपि लुप ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org