________________
प्रक्रियावृत्तिरूपे श्रीमप्रकाशे तद्धिताः । अपत्यप्रत्ययाधिकारः
३४३
काणिरन्यः । आग्निशर्मायणी वार्षगण्यः आग्निशर्मिंरन्यः । राणायनो वाशिष्ठः, राणिरन्यः । शारद्वतायनो भार्गवः, शारद्वतोऽन्यः । शौनकायनो वात्स्यः, शौनकोऽन्यः । शरद्वच्छुनको बिदादी || "जीवन्त - पर्वताद्वा" ( ६।१।५८ ) । जैवन्तायनः, जैवन्तिः । पार्वतायनः पार्वतिः ॥ " द्रोणाद्वा" (६।१।५९)। योगविभागाद्वृद्धे इति निवृत्तम् । द्रोणशब्दस्यापत्यमात्रे आयनण् वा स्यात् । द्रौणायनः द्रौणिः ॥ २० ॥
शिवादेरन् ॥ २१ ॥ [ सि० ६ १६० ]
1
इञोऽपवादः । आऽधिकारादपत्ये इत्यनुवर्त्तनीयम् । शैवः । प्रौष्ठः ॥ "ऋषिवृष्ण्यन्धक कुरुभ्यः” ( ६।१।६१ ) । अण् । वासिष्ठः । वासुदेवः । श्वाफल्कः । नाकुलः ॥ २१ ॥
“शिवा०” गोत्रापत्यानन्तरापत्यवृद्धापत्य युवापत्याधिकारस्य निवृत्तत्वादतः परमपत्यप्रत्ययाधिकारसमाप्तं यावद्ये प्रत्यया विधास्यन्ते, तेऽपत्यसामान्ये ज्ञेयास्तथा चाह आऽधिकारादित्यादि शिव, प्रौष्ठ, १० प्रौष्टिक, वण्ड, ( वण्ट, बृ० वृत्तौ ) जम्ब, जम्भ, ककुभ, कुथार, अनभिम्लान, ककुस्थ १० कोहड, कहूय, रोध, पिलधर, वतण्ड, तृण, कर्ण, क्षीरहद, जलहृद, परिषिक, शिलिन्द, २० गोपिल (फि० बृ० वृत्तौ ) गोहिल, कपिलक, जटिलक, बधिरक, मञ्जिरक, वृष्णिक, खजार, खञ्जाल, ३० रेख, लेख, आलेखन, कंप्र, वर्त्तन, ऋक्ष, वर्त्तनर्क्ष विकट पिटाक वृक्षाक (तृ० बृ० वृत्तौ ) ४० नभाक, ऊर्णनाभ, सुपिष्ट, पिष्टकर्णक, पर्णक, मसुरकर्ण, मसूरकर्ण, खडूरक, गण्डेरक (गडेरक - वृ० वृत्तौ ) ५० यस्क, १५ लह्य, द्रुह्य, अयस्थूण, भलन्द, भलन्दन, विरूप, विरूपाक्ष, भूरि, सन्धि, ६० भूमि, मुनि, क्रुञ्चा, कोकिला, इला, सपत्नी, जरस्कारु, उत्केया, काय्या, सुरोहिका, ७० पीठीनासा, महित्री, आर्यश्वेता, ऋष्टिषेण, गङ्गा, पाण्डु, विपाश्, तक्षन्, इति शिवादयः एकोनाशीतिः । अत्र आविरूपाक्षादिनोऽपवादः। भूर्यादीनामा आर्यश्वेताया एयणः, ऋष्टिषेणस्य सेनान्तस्य (?) सेनान्तयेयोः । बिदादिपाठाद्वृद्धेऽबेव, तदन्ताच्च यूनि "अत इन्” ( ६।१।३१ ), तस्य " ञिदार्षादणिनो : ” ( ६ | १|१४० ) इति लुपि, २० आर्ष्टिषेणः पिता, आर्ष्टिषेणः पुत्रः । तथा ऋष्टिषेणस्यापत्यं वृद्धं बहवः विदाद्यञ् । तस्य "यननो ०" ( ६।१।१२६ ) इत्यादिना लुपि, ऋष्टिषेणाः ॥ पाण्डुपाठः शुभ्राधेयणा, गङ्गापाठस्तिकाद्याञिञा च समावेशार्थः । तेन पाण्डोद्वैरूप्यं गङ्गायाश्च त्रैरूप्यं सिद्धम् । पाण्डवः, पाण्डवेयः, गाङ्गः, गाङ्गायनिः । गाङ्गेयः ॥ विपाशूपाठः कुञ्जादिलक्षणेन नायन्येन समावेशार्थः । वैपाशः वैपाशायन्यः ॥ तक्षन्पाठः कुर्वादिव्येन समावेशार्थः । ताक्ष्णः ताक्षण्यः ॥ " ऋषि०" ऋषयो लौकिका वसिष्ठादयः अपत्ययोगात् । २५ वृष्णयोsन्धकाः । कुरवश्च प्रसिद्धा वंशाख्याः ( वंशनिमित्ता आख्या अभिधानं येषां ते) क्षत्रियाः । ऋष्याविवाचिभ्योऽपत्येऽण् स्यात्, ( इञोऽपवादः ) । वासिष्ठः इति - एवं वैश्वामैत्रः, गौतमः, एते ऋषयः ॥ वासुदेव इति एवं अनिरुद्धः । वात्रः । प्रातिवाहनः । औदारः, एते वृष्णयः ॥ वाफल्क इति एवं रान्धसः चैत्रकः एते अन्धकाः । नाकुल इति एवं साहदेवः दौःशासनः दौर्योधनः एते कुरवः । अत्र्यादिभ्यस्तु परत्वादेयण् ब्येनौ च भवतः । आत्रेयः जातसेन्यः । जातसेनिः । औग्रसेन्यः । ३० औप्रसेनिः । वैष्वक्सेन्यः । वैष्वक्सेनः भैमसेन्यः, भैमसेनिः । दौर्योधनिरिति तु क्रियाशब्दत्वात् दुःखेन युध्यते इति । यौधिष्ठिरः आर्जुनिरिति तु वाह्वादित्वादिव ॥ २१ ॥
I
एषु केषाञ्चिदृषिवाचिनां बहुत्वेऽस्त्रियामपत्यार्थस्य लुबु भवतीति । तत्र सूत्रमाह
Jain Education International
For Personal & Private Use Only
३३
www.jainelibrary.org