________________
महामहोपाध्याय श्री विनय विजयगणिविरचिते खोपज्ञहैमलघु
वंश्यज्यायो भ्रात्रोर्जीवति प्रपौत्राद्यस्त्री युवा ॥ १९ ॥ [ सि० ६ १ ३ ] पित्रादिः स्वहेतुर्वश्यो; वंश्ये, ज्येष्ठभ्रातरि च जीवति प्रपौत्राद्यपत्यं स्त्रीवर्ज युवा स्यात् । *समानसप्तमपुरुषे च वयःस्थानाधिके जीवति जीवद् वा ॥ १९ ॥
३४२
" वंश्य ० " वंश्य इति - वंशे भवो वंश्यस्तस्मिन् ज्येष्ठ भ्रातरीति ज्येष्ठो वयोऽधिकः एकपितृक, ५ एकमातृको वा भ्राता तस्मिन् । प्रपौत्राद्यपत्यमिति - प्रपौत्रः पौत्रापत्यं परमप्रकृतेश्चतुर्थः, अयमर्थःस्त्रीवर्जितं प्रपौत्राद्यपत्यं वंश्यज्येष्ठ भ्रात्रोर्मध्ये एकस्मिञ्जीवति युवसंज्ञं स्यात् । यथा गार्ग्यायणः । वात्स्यायनः । वंश्यज्यायो भ्रात्रोरिति किम् ? अन्यस्मिञ्जीवति गार्ग्य: । ज्यायोग्रहणं किम् ? कनीयसि भ्रातरि जीवति गार्ग्यः । जीवतीति किम् ? मृते तस्मिन् गार्ग्यः । प्रपौत्रादीति किम् ? पौत्रो गार्ग्यः । अस्त्रीति किम् ? गार्गी । जीवतीत्यत्रैकवचननिर्देशः पृथग्निमित्तत्वद्योतनार्थः । अत्र सङ्क्षेपेण विशेष - १० माह-*समानेत्यादि, अत्र सूत्रम् - " सपिण्डेवयः स्थानाधिके जीवद्वा" ( ६।१।४ ) । ययोरेकः पूर्वः सप्तमः पुरुषस्तावन्योऽन्यस्य सपिण्डौ । वयो यौवनादि । स्थानं पिता पुत्र इत्यादि । परमप्रकृतेः स्त्रीवर्जं जीवत् प्रपौत्राद्यपत्यं वयःस्थानाभ्यां द्वाभ्यामप्यधिके सपिण्डे जीवति जीवदेव युवसंज्ञं वा स्यात् । पितृव्ये पितामहस्य भ्रातरि वा वयोऽधिके जीवति जीवद्द्रार्गस्यापत्यं गार्ग्यः गार्ग्यायणो वा । सपिण्ड इति किम् ? मातुलादौ जीवति गार्ग्यः । वयःस्थानाधिक इति किम् ? द्वाभ्यामन्यतरेण वा १५ न्यूने गार्ग्यः । लघौ भ्रातृव्ये ( पितृव्यजे) द्वाभ्यां न्यूनत्वम्, लघौ पितृव्येऽन्यतरेण न्यूनत्वम् । जीवदिति किम् ? मृतो गार्ग्यः । सपिण्डो न वंश्यो न भ्रातेति वचनम् ।
1
अत्रादिशब्दग्रहणात् “युववृद्धं कुत्सार्ये वा ” ( ६।१।५ ) । युवा च वृद्धं चापत्यं यथासङ्ख्यं कुत्सायामर्चायां च विषये युवसंज्ञं वा भवति । यूनः कुत्सायां पक्षे युवत्वं निवर्त्यते, तत्र वृद्धप्रत्ययेनाभिधानं भवति । गार्ग्यस्यापत्यं युवा कुत्सितो गार्ग्यः गार्ग्यायणो वा जाल्मः - गुर्वायत्तो भूत्वा २० स्वतन्त्रो यः स एवमुच्यते । कुत्साया अन्यत्र गार्ग्यायण एव । वृद्धस्य चार्चायां पक्षे युवत्वं प्राप्यतेतत्र युवप्रत्ययेनाभिधानं भवति, गर्गस्यापत्यं वृद्धमर्चितम्, तत्रभवान् गार्ग्यायणः गार्यो वा । अर्चाया अन्यत्र गार्ग्य एव । अस्त्रीत्येष - गर्गस्यापत्यं पौत्रादि स्त्री गार्गी ॥ १९ ॥
अथ युवापत्यार्थप्रत्ययस्य प्रकृतिमाह । --
वृद्धानि ॥ २० ॥ [ सि० ६| १ | ३० ]
२५ यून्यपत्ये यः प्रत्ययः स आद्याद्धृद्धप्रत्ययान्तात् स्यात् । गर्गस्य वृद्धापत्यं गार्ग्यस्तस्य युवापत्यं गार्ग्यायणः । दाक्षायणः ॥ २० ॥
"वृद्धा ०" । स्पष्टम् ।
आदिशब्दोपसङ्गृहीता आयन ण्विशेषास्त्वेवम् । “हरितादेरन ” ( ६ | १|५५ ) | बिदाद्यन्तर्गणो हरितादिः । हरितादिभ्यो वृद्धविहिताञ्प्रत्ययान्तेभ्यो यून्यपत्ये आयनण् स्यात् । हारितस्यापत्यं युवा ३० हारितायनः । हरितादेरिति किम् ? बैदस्यापत्यं युवा वैदः - अत्रेनो लुप् । अन इति किम् ? हरितस्यापत्यं वृद्धं हारितः। क्रोष्टृशलङ्कोर्लुक च" ( ६।१।५६ ) । आभ्यां वृद्धे आयनणू, अनयोरन्त्यस्य लुक् । क्रोष्टुरपत्यं क्रौष्टायनः । शालङ्कायनः । “दर्भकृष्णाग्निशर्मरणशरद्वच्छुन कादाग्रायणब्राह्मणवार्षगण्यवाशिष्ठ भार्गव वात्स्ये” (६।१।५७) । दर्भादिभ्यः षड्भ्यः आम्रयणादिषु षट्सु ३४ वृद्धापत्येषु आयनण् स्यात् । दुर्भस्यापत्यमात्रायणश्चेत् दार्भायणः, दार्भिरन्यः । काष्र्णायनो ब्राह्मणः
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org