________________
मक्रियावृत्तिरूपे श्रीहैमप्रकाशे तद्धिताः । अपत्यप्रत्ययाधिकारः ३४१ चुपदासक, धाय्या, धन्य, धर्म्य, पुंसिजात, शूद्रक, सुमनस्, दुर्मनस्, ८० आतव, उत्सातव, कितव, किव, शिव, खिव, खिप, खदिर, आनडुह्य, ८९ आनडुह्यायन इति यवन्तादायनणापि सिद्ध्यति, प्राग्जितीयखरादौ तु "यूनि लुप्” (६।१।१३७) इति नित्यलुबर्थमस्योपादानम् । इत्यश्वादिः । एकोनवतिरश्वादयः ॥ अत्र योऽश्वादिर्बुद्धकाण्डेऽन्यत्रापि पठितस्तस्य सोपि स्यात् । यथा अश्वशब्दस्य बिदादिपाठाद । इहायनम् । आश्वः । आश्वायनः ॥ शङ्खस्य बिदादित्वाद । गर्गादि-५ त्वाद्यञ् । कुञ्जादित्वात् बाबन्यः । इहायनम् । शाङ्खः । शायः । शाङ्खायन्यः । शायायनः ।। जनस्य नडादित्वादायनण् । इहायनम् । तत्र यूनि प्रत्यये विधेयेऽयं विशेषः। जानायनि:, जानायनो युवा ।। उत्सग्रीष्मयोरुत्सादिषु पाठोऽनन्तरार्थोऽनपत्यार्थश्च । इह तु वृद्धेऽयमेव यथा स्यादित्येवमर्थः। औत्सायनः । श्रेष्मायणः ॥ अर्जुनशब्दस्य बाह्वादिषु पाठोऽनन्तरार्थः । वृद्ध त्वयमेव आर्जुनायनः ॥ वैल्येति विलिशब्दो व्यान्तस्ततो यूनि प्रत्ययः । वैल्यायनो युवा ।।
आयनविशेषास्त्वेवं "शपभरद्वाजादात्रेये" (६।१।५०) वृद्धे । शापायनः । भारद्वाजायनः आत्रेयश्चेत् । आत्रेय इति किम् ? अन्यः शापिः । भारद्वाजः भारद्वाजौ बिदादौ । “भर्गा
गर्ने” (६।१।५१) । वृद्धे । भार्गायनः त्रैगर्तश्चेत् । अन्यो भार्गिः । “आत्रेयाद्भारद्वाजे" (६।१।५२) आत्रेयादृद्धप्रत्ययान्ताद्भारद्वाजे यून्यपत्ये आयनञ् स्यात् । आत्रेयायणो भारद्वाजो युवा। आत्रेयोऽन्यः । "बिदार्षात्” (६।१।१४०) इतीबो लुप् । “नडा०" । नडस्य वृद्धापत्यं नाडा-१५ यनः । वृद्ध इत्येव-अनन्तरापत्यं नाडिः । नड, चर, बक, मुञ्ज, इतिक, इतिश, उपक, लमक, सप्तल, ( सत्तल) सत्वल, १० व्याज, (वाज), व्यतिकेत्येके । प्राण, नर, सायक, दाश, मित्र, दाशमित्र, द्वीपा, द्वीप, पिङ्गर, २० पिङ्गल, किङ्कर, किङ्कल, कातर, काथल, काश्यप, काश्य, नाव्य, अज, अमुष्य, ३० लिगु, चित्र, अमित्र, कुमार, लोह, स्तम्ब, स्तम्भ, अग्र, शिंशपा, तृण, ४० शकट, मिकट, मिमत, सुमत, जन, ऋच्, इन्ध, ऋगिन्ध, मित, जनन्धर, जलन्धर, ५० युगन्धर, हंसक, २० दण्डिन् , हस्तिन् , पश्चाल, चमसिन् , सुकृत्य, स्थिरक, ब्राह्मण, चटक, ६० अश्वल, खरप, बदर, शोण, दण्डम, छाग, दुर्ग, अलोह, आलोह, कामुक (कामक) ब्रह्मदत्त, उदुम्बर, सण, लङ्क, केकर, (ककर) नाव्य, आलाह, ऋग, वृषगण, ८० अध्वर, वालिश, दण्डप, ८३ इति नडादयस्त्रयशीतिः। बहुवचनमाकृतिगणार्थम् ॥ १६ ॥ अमुष्यशब्दो यो नडादिषु पठितस्तस्य निष्पत्तिमाह
अदसोऽकञायनणोः ॥ १७ ॥ [सि० ३।३३] अकअन्ते उत्तरपदे आयनणि चादसः षष्ठ्या अलुप स्यात् । अमुष्यापत्यं आमुष्यायणः॥१७॥ "अदसो.” स्पष्टम् ॥ १७ ॥
यभित्रः॥१८॥ [सि० ६१०५४ ] वृद्धे यौ यजिनौ ततो यून्यपत्ये आयनण् स्यात् ॥१८॥ "यनि०" निगदसिद्धम् । अथ प्रसङ्गागतस्य युवापत्यस्य लक्षणमाह ॥ १८ ॥
१ अन्यथा 'वायनणानियोः' इति विकल्पः स्यात् । २आयनिओ जित्वात् 'जिदादणिजोः' इत्यनेन यन्यत्पन्नस्येमो लुब्भवति न खायनणः।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org