________________
३४०
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुपिष्पलू, पत्यैलू, वेहल्लू, पैप्फल्लू, बृहदग्नि, जमदग्नि, सुलामिन, कुटीगु, उक्थ, कुटल, चणक, चुलुक, कर्कट, अलापिन् , सुवर्ण, सुलाभिन् , इति गर्गादिः । नवोत्तरं शतं ? गर्गादयस्तेष्वेकोनत्रिंशत् लोहितादयः शकलान्ताः । बहुत्वे चेत्यादि, गर्गा इत्युदाहरणम् ॥ १५ ॥
व्यञ्जनात्तद्धितस्य ॥ १६ ॥ [ सि० शाद८] ५ व्यञ्जनात्परस्य तद्धितस्य यो ङयां लुक् स्यात् । गार्गी ॥ "कुञ्जादे अन्यः" (६।११४७) वृद्धे । कौञ्जायन्यः ॥ "स्त्रीबहुष्वायन” (६।११४८)। वृद्धे । कौञ्जायनी कौञ्जायनाः ॥ "अश्वादेः” (६।१२४९) आयनञ् । वृद्धे । आश्वायनः ॥ "नडादिभ्य आयन" (६।११५३)। वृद्धे । नाडायणः॥ १६ ॥
"व्यञ्ज.” स्पष्टम् । यत्रो विशेषास्त्वेवम्-"मधुबभ्रोर्ब्राह्मणकौशिके" (६।१।४३) वृद्धा१० पत्ये इति ज्ञेयम् । माधव्यो ब्राह्मणः, माधवोऽन्यः । बाभ्रव्यः कौशिकः, बाभ्रवोऽन्यः । बभ्रोर्ग
र्गादिपाठाद्यमि सिद्धे कौशिके नियमार्थ वचनम् । गर्गादिपाठस्तु लोहितादिकार्यार्थः । तेन बाभ्रव्यायणीति नित्यं डायन् । केचित्त्वकौशिकेऽपि लोहितादिपाठात् यत्रामिच्छन्ति, तन्मतेनेदं यन्विधानं बभ्रोलोहितादेहिष्करणार्थम् । तेन कौशिके यनि सति लोहितादि कार्य न भवति । तथा च स्त्रियां डायन्वा भवति । बाभ्रवी बाभ्रव्यायणी च कौशिकी । “कपियोधादाङ्गिरसे" (६।१।४४)। १५ कपेरपत्यं वृद्धमाङ्गिरसः काप्यः । एवं बौथ्यः । अन्यः कापेयः बौधिः ।। कपिशब्दो गर्गादिषु पठ्यते,
तस्येहोपादानं नियमार्थम् । अङ्गिरस एव यञ् , नान्यत्रेति । लोहितादिकार्यार्थश्च गणपाठः, काप्यायनी । मधुबोधयोस्तु यजन्तयोरुभयम्-माधवी माधव्यायमी । बौधी बौध्यायनी ॥ "वतण्डात्" (६।१।४५)। तथा । वतण्डस्यापत्यं वृद्धमाङ्गिरसः वातण्ड्यः । आङ्गिरसादन्यत्र गर्गादिशिवादिपाठाद्यब् अण् च भवतः । वातण्ड्यः वातण्डः । गर्गादिपाठादेव यघि सिद्धे २० वचनमाङ्गिरसे शिवाद्यबाधनार्थम् । शिवादिपाठोऽप्यस्य वृद्ध एवाण्विधानार्थः । अन्यत्र हि ऋषित्वादेवाण सिद्धः ॥ “स्त्रियां लुप्" (६।१।४६) अनन्तरसूत्रोक्तस्य यत्रः । वतण्डस्यापत्यं वृद्धं स्त्री आङ्गिरसी वतण्डी । जातिलक्षणो डीः । अनाङ्गिरसे तु शिवादिपाठाद्वातण्डी, लोहिताविपाठाद्वातण्ड्यायनी ॥ "कुञ्जा." वृद्ध इति किम् ? अनन्तरापत्यं कौञ्जिः । कुञ्ज, अन, गण, भस्मन् ,
लोमन् , लौमायन्य । तदन्तादेवेति केचित् । औडुलौमायन्यः । शट, अयं गर्गादिष्वपि । शाक, २५शुण्डा, शुभा, विपाश् अयं शिवादिष्वपि । स्कन्ध, स्कम्भ, शङ्ख अयं गर्गादावश्वादौ बिदादौ च । इति कुञ्जादिः एकादश कुञ्जादयः ॥ "स्त्री०"। कुञ्जादिभ्यो ङसन्तेभ्यो बहुत्वविशिष्टे वृद्धे स्त्रियां चाबहुत्वेऽपि आयनञ् स्यात् । कुञ्जस्यापत्यं स्त्री कौञ्जायनी ।कुञ्जस्यापत्यानि कौञ्जायनाः । “अश्वा" वृद्ध इत्येव-आश्विः । गोत्र इत्येव-अश्वो नाम कश्चित्तस्यापत्यं वृद्धं आश्विः । अश्व, शङ्ख, जन,
उत्स, ग्रीष्म, अर्जुन, वैल्य, अश्मन् , विद, कुट, पुट, स्फुट, रोहिण, खर्जुल, खजूर, खजूल, ३० पिञ्जूर, भदिल, भटिल, (भडिल) भण्डिल, २० भटक, भडित, भण्डित, प्रादृत, राम, उद, क्षान्ध, ग्रीव, रामोद, रामोदक्ष, अन्धग्रीव ३० काश, काण, गोल, आह्व, गोलाह, अर्क, स्वन, अर्कखन, शुन, वन, ४० पत, पद, चक्र, कुल, ग्रीवा, श्रविष्ठा, पावित, पवित्रा (पावित्र) पविन्दा गोमिन् ५० श्याम, धूम, धूम्र, वस्त्र, वाग्मिन् , विश्वानर, विश्वतर, वत, सनख, सन, ६० खड, ३४ जड, गद, जण्ड, अह (अर्थ) वीक्ष, विशम्प, विशाल, गिरि, चपल, गिरिचपल, ७० चुप, दासक,
१ पतौ साधुस्तल्लुनाति पत्यलः । २ वृहं लुनाति बृहलूः । ३ फलानि लुनाति पृषोदरादित्वात् पप्फलः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org