________________
प्रक्रियावृत्तिरूपे श्रीहेमप्रकाशे तद्धिताः । अपत्यप्रत्ययाधिकारः ३३९ दिषु धेनुशब्दः सद्यःप्रसूतगव्यादिवाचकः । अयमृषिवचनः । अश्व, शङ्ख, गोपवन १ शिप्रै २ विन्डै ३ ताजम ४ अश्वावतान ५ श्यामाकं ६ यामाक ७ श्यापर्ण ८।३० हेरित किन्दास, वैस्यस्क, अर्कलुश, वंध्योग, विष्णुवृद्ध, धृष्णिवृद्ध, 'प्रेतिबोध, स्थीतर ४० रन्तर गविष्ठिर गविष्ठिल निषाद, शैबर, मैंठर, मैदाकु, पुंदाकु ४८ केचिदेतौ हरितादेः प्राक् पठन्ति । तन्मते "हरितादेरब।" (६।१।५५) इत्यायनण् न भवति । मठरशब्दो गोपंवैनादावपि अबो लुबभावार्थम् केचित्पठन्ति ।५ अन्ये तु मठरात् यकारादिअमिच्छन्ति-माठर्यः माठयौँ । बहुष्वनो लुपि सन्नियोगशिष्टत्वाद्यस्यापि निवृत्तिरिति मठराः । अष्टचत्वारिंशद्विदादयस्तेष्वष्टौ गोपवनादयः श्यापर्णान्ताः ॥ १४ ॥
गर्गादेयं ॥ १५॥ [सि०६।११४२] वृद्धे । गार्ग्यः॥१५॥
"गर्गा०" वृद्ध इति किम् ? अनन्तरापत्ये गार्गिः । गोत्र इत्येव-ार्गो नाम कश्चित्तस्यापत्यं वृद्धं १० गार्गिः । ननु मनोरत्र पाठालोहितादित्वात् स्त्रियां नित्यं डायनि ड्यां च मानव्यायनीति स्यात् तत्कथं मानवी प्रजेत्युच्यते-अपत्यसामान्यविवक्षायां "सोऽपत्ये” (६।१।२८) इत्यण् । कथमनन्तरो रामो जामदम्यः व्यासः पाराशर्यः ? पुत्रेऽपि पौत्रादिकार्यकरणात्तथोच्यते । अनन्तरापत्यविवक्षायां जामदग्निः । पाराशरिः । कथं पाराशरः ? "तस्येदम्” (६।३।१६० ) इति विवक्षायाम् । गैंर्ग, वत्स, वाज, अज, संस्कृति, संकृति व्याघ्रपात्, विर्दभृत् , पितृवध् , प्राचीनयोग, पुलस्ति, रेभ, अग्निवेश, शङ्ख १५ शट । धूम अवट, नमस, चमस, धनञ्जय, (वृक्ष), विश्वावसु जरमाण, कुरुकत, अनडुङ् , लोहित, संशित, वक्र ? बभ्रु, बभ्लु, मुण्डु, मञ्ज, मधु, शस्थु, शङ्कु, लतु, लिगु, गूहलु, जिगीषु, मनु, तन्तु, मनुतन्तु, मनायी । अणेयणोः प्राप्तावस्य पाठः । पुंवद्भावस्तु "कौण्डिन्यागस्त्ययोः०” (६।१। १२७) इति कौण्डिन्यनिर्देशादनित्य इति न भवति । सूनु, सुप, कच्छक, ऋक्ष, रुक्ष, रुक्ष, तैरुक्ष, तालुक्ष, तण्डैिन , वतण्ड, कपि, कत, शकल, कण्व, वीमरथ, गोकक्ष, कुण्डिनी, यज्ञवल्क पर्णवल्क, २० अभयजात, विरोहित, वैषगण, रहोगण, शण्डिल, मुद्गर, मुद्गल, मुसर, मुसल, पराशर, जतूकर्ण, मँन्द्रित अश्मरथ, शर्कराक्ष, पूतिमाष, स्थूर, स्थूरा, अरराका, पिङ्ग, पिङ्गल, कृष्ण, गोलृन्द, उलूक, तितिम्भ भिष, भिषज, भिष्णज, भण्डित, भडित, दल्भ, चिकित, देवहू इन्द्रहू, यज्ञहू, एकलू, २३
१ गोपानुपवनति वनुते वा गोपवनः। २ शेरते गुणा अत्र शिनोति वा शिग्रु। ३ वेत्तीत्येवंशीलो "विन्द्विच्छू' विन्दुः । ४ तां लक्ष्मी जमति ताजमः । ५ अश्वानवतनोति अश्वावतानः । ६ श्यायतेः 'मवाक.' इति श्यामाकः। ७३यायन्ते श्याः श्यायां वसतौ गतानां पर्णयति आदीकरोति देशनया श्यापर्णः। ८ 'हस्या-' इति हरितः। ९ किमपि दासते किंदासः । १० वसिमस्यति-'भीणशलि-' इति के वस्यस्कः। ११ अर्कमपि रुशति तेजसा अर्कलुशः। १२ वधमर्हन्ति वध्यास्तान उङ्गति 'मूलविभूज-' इति के वध्योगः। १३ विष्णुवत् वृष्णिवद्वा वृद्धः विष्णुवृद्धः । १४ वृष्णिवृद्धः । १५ प्रतिबोधयति प्रतिबोधः। १६ रथ्या तरति रथीतरः । १७ 'भृवृजि-' इति खे रथंतरः । १८ निषीदन्ति गुणा अत्रेति निषादः। १९ 'ऋच्छिचटि-' इत्यरे शबरः । २० मठरः । २१ 'स्पृभ्यां दाकुक्' मृदाकुः। २२ पृदाकुः । इति बिदादयः ॥ २३ न केवलं हरितादौ । २४ गिरति वदति निरवद्यमिति 'गम्यमि-' इति 'भावावद्यमि-' इति च गसौ गर्गः । २५ विदं बिभर्ति पितरं बध्नाति विप् विदभृत् पितृवध् । २६ रूक्षणं रूक्षः। २७ तरून् क्षयति तरुक्षः। २८ अवश्यं तण्डते तण्डी। २९ प्रसे वामरथः। ३. गोरिव कक्षो भक्ष्यः पावी वा अस्य गोकक्षः । ३१ अवश्यं कुण्डते कुण्डिनी। ३२ यज्ञे वल्कोऽस्य यज्ञवल्कः । ३३ प्रसे, अभयः, जायते स्म, जातः, चसे अभयजातः । ३४ विशेषेण रोहति 'हृस्या' इति विरोहितः । ३५ वृषान् गणयति वृषगणः । ३६ रहो गणयति रहोगणः । ३७ परावृत्त्या शृणाति पराशरः । ३८ मन्द्रो गम्भीरः शब्दः सोऽस्यास्ति तदस्य-' इतीतः । ३९ अश्मवद्रथोऽस्य अश्मरथः । ४० शर्करावत् अक्षिणी यस्य 'सक्थ्यक्ष्णः- शर्कराक्षः । ४१ पूतयो माषा यस्य पूतिमाषः । ४२ अरा अराकाराणि भक्ष्याणि राति 'भीणशलि-' इति अरराका । ४३ 'स्फुलिकसि'-इति पिङ्गः । ४४ गां लुनाति 'कुमुद-' इति गोलन्दः गोलाया मुनत्ति नाति वा । ४५ स्तनाति 'जजल'-इति तितिम्भः । ४६ मिषिः सौत्रः के भिषः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org