________________
३३८ महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुइत्यत्र यद्यपि प्रत्ययो गोत्रे उत्पन्नस्तथापि तदन्तं नेदानी गोत्रे बहुत्वे, क तर्हि ? प्रतिकृतिष्विति लुप् न भवति । अखियागित्येव-गार्ग्यः, बैद्यः स्त्रियः। पञ्चभिर्गार्गीभिः क्रीतः पञ्चगर्गः पटः इत्यत्र विकणो लुपः पित्त्वात्पुंवद्भावेन स्त्रीत्वनिवृत्तेर्लुप् । गोत्र इत्येव-औत्साश्छात्राः "उत्सादेर" (६।१।१९) । पौनर्भवाः पौत्रा, दौहित्रा, नानान्द्राः "पुनर्भूपुत्र०" (६।११३९) इत्यादिनाञ् । ५पारशवाः "परस्त्रियाः परशुश्चासावण्यें" (६।११४०) इत्यञ् ॥ कथं प्रियो गाग्र्यो गाग्यौं वा येषां ते प्रियगार्या इति ? अत्र हि यजन्तस्य बहुविषयत्वात् लुप्प्राप्नोति । नैवम्-नात्र यमन्तं बहुषु किं तर्हि समासः । स च "प्रत्ययः प्रकृत्यादेः” (७।४।११५) इति नियमाद्यजन्तो न भवति । प्रिया गर्गा यस्य स प्रियगर्ग इत्यत्र तु यअन्तस्य बहुत्वाद्भवत्येवेति ॥ "कौण्डिन्यागस्त्ययोः कुण्डि
नागस्ती च" (६।१।१२७)। कौण्डिन्य आगस्त्य इत्येतयोर्बहुत्वविशिष्टे गोत्रेऽर्थे वर्तमानयोर्योऽ१० णश्चाऽस्त्रियां लुप् स्यात् , तयोश्च कुण्डिनी-अगस्त्यशब्दयोः कुण्डिन-अगस्ति इत्यादेशौ स्याताम् ।
आगस्त्यशब्दस्य ऋष्यणन्तत्वाद्यनौ न सम्भवतः । कुण्डिन्या अपत्यं गर्गादित्वाद्यञ् । अत एव निर्देशात् पुंवद्भावाभावः-कौण्डिन्यः । कौण्डिन्यौ । कुण्डिनाः ॥ आगस्त्यः । आगस्त्यौ । अगस्तयः ॥ प्रत्ययलोपं कृत्वादेशकरणमगस्तीनामिमे आगस्तीया इत्येवमर्थम् । प्रत्ययान्तादेशे हि कृते अगस्ति
शब्दस्यादेरकारस्याभावात् "वृद्धिर्यस्य स्वरेष्वादिः" (६।१।८) इत्यप्राप्तौ दुसंज्ञाऽभावात्-"दोरीयः” १५ (६।३।३२) इति न स्यात् । प्रत्ययलुम्विधानात्तु ईयप्रत्यये भाविनि "न प्राग्जितीये." (६।१।१३५)
इति निषेधात् प्रत्ययलुप् न स्यात् , ततश्च आगस्तीया इति सिद्ध्यति । कुण्डिन्यामविशेषः । प्रत्ययान्तादेशे हि कुण्डिनशब्दाददुसंज्ञकात् “तस्येदम्” (६।३।१६०) इत्यण् स्यात् । प्रत्ययस्य तु लुपि "न प्राग्जितीय०" इति निषेधात् सत्यामपि दुसंज्ञायामीयापवादः शकलादित्वादअव स्यात्तत उभयथापि कुण्डिनानामिमे कौण्डिना इत्येव स्यादिति ॥ १३ ॥ प्रसङ्गागतवृद्धापत्यस्य लक्षणमाह ।
पौत्रादि वृद्धम् ॥ १४ ॥ [सि० ६।१२] परमप्रकृतेर्यत्पौत्राद्यपत्यं तद्बद्धं स्यात् । बिदस्य वृद्धमपत्यं बैदः और्वः ॥ १४ ॥
"पौत्रा०" स्पष्टम् । बिदा इति । एवं काश्यपः काश्यपौ कश्यपाः । अथेन्द्रहुः स. • काश्यपानां भारद्वाजानां कतमोऽसीत्यत्र बहुषु लुप् कस्मान्न भवति ? नायम किन्त्वस्येदमित्यण् । सर्वर ई पितरोऽभेदोपचारात् कश्यपाः । यथा बभ्रुः मण्डुः लमक इति । वृद्ध इति किम् ? बिदस्यानन्तरम
पत्यं बैदिः । बिद उर्व कश्यप कुशिक भैरद्वाज उँपमन्यु किलात कीदर्भ विश्वानर ऋष्टिषेण १० त२६भाग, हर्यश्व, प्रियक, पियक, अपस्तम्भ, कुँवाचर वाचर शरद्वत् (°नक ) सुभग, धेनु २० उत्सा
१ अत्र कश्यपसंतामापेक्षया बहुवचनं न तु भ्रातृवर्गापेक्षया । अथ गगः-२ बिन्दत्सवयवी भवति स्वगोत्रे 'बिन्देर्न लुकच' इति अः बिदः । ३ उर्वति अष्टप्रकारं कर्म उवः । ४ कशामर्हति कश्यः, अनया व्युत्पत्त्या पुरुष एव लभ्यते न मद्यं, न, पुरुषो मद्ययोगात्कशायोग्यः अतस्तदेव कशायोग्यम् कश्यं पिबति कश्यपः । *कुश्यति सत्कर्मसु 'कुशिक'-इति साधुः । ५ वजम् वर्जगतौ वा भरन्तं वाजयति भरद्वाजः । ६ उपगतो मन्यु बहुव्रीहिर्व उपमन्युः । ७ किरटीति 'नाम्युपान्त्य-इति के किलस्तमतति किरातस्य स्थाने वा किलातः । ८ कस्य भार्या की क्या दर्भ इव पवित्रः कीदर्भः। ९ विश्वे नरा अस्य विश्वानरः । १० ऋष्टयः सेनायाम् ऋष्टिवत् सेना वा यस्य ऋष्टिषेणः । ११ ऋतेन सत्सेन भागो भागधेयं यस्य ऋत. भागः । १२ हरयो नीलवर्णा अश्वा यस्य हर्यश्वः । १३ प्रिय एव प्रियकः । १४ प्रियं कायति वा पिबति उष्णं 'कीचक'-इति पियकः । १५ अपस्तनाति अष्टप्रकारं कर्म अपस्तम्भः । १६ कुत्सितं वान्ति विच, कुवाः तेषां पार्श्वन चरति कुवाचरति कुवाचरः। १७ बाहुलकाद्दीघले कूवाचारः।१८ शरद् उपकारकतयाऽस्याति शरदत् । १९ गुगति परमां गति 'कीचके-इति 'नाम्युपान्त्य-इति के शुन एव शुनकः । २०धीयते अस्मातत्त्वमिति धेनुः ।
२०
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org