________________
प्रक्रियावृत्तिरूपे श्रीहेमप्रकाशे तद्धिताः । अपत्यप्रत्ययाधिकारः ३३७ भृतो वा द्वे अशीतीभूतो भावी वा व्याशीतिक: व्याशीतिकः । अत्रापि "मानसंवत्सरस्याशाणकुलिजस्याऽनानि" (७४।१९) इत्युत्तरपदवृद्धौ यकारस्थानिन इकारस्य वृद्धिप्राप्तिर्नास्ति । प्राप्तिश्चाकृते यत्ववत्वे इति वेदितव्यम् । कृते हीवर्गोवर्णयोरभावान्नास्ति प्राप्तिः । वृद्ध्यपवादश्चैदौदागमः । तेन तद्धितस्य स्वरवृद्धिहेतुत्वाभावात्पुंवद्भावप्रतिषेधो न भवति । वैयाकरणभार्यः । सौवश्वभार्यः । वैयासकिरिति-एवं वारुटकिः । सौधातकिः । नैषादकिः । बैम्बकिः । चाण्डालकिः ॥ ११॥ ५
पुनर्भूपुत्रदुहितननान्दुरनन्तरेऽम् ॥ १२॥ [सि० ६।१।३९] एभ्योऽनन्तरेऽपत्येऽञ् स्यात् । पौनर्मवः । पौत्रः । दौहित्रः। नानान्द्रः । पौत्री ॥ १२ ॥
"पुन०" । अबो भित्करणमुत्तरार्थमत्र सूने तु अनि च अणि च नास्ति विशेषः । नन्वस्त्येव विशेषः-अभि हि “यनबोऽश्यापर्ण.” (६।१।१२६) इत्यादिनाऽयो बहुषु लुप् स्यात् । यथा बैदः बैदौ बिदाः इति, तथा सङ्घाद्यर्थेषु "सङ्घघोषाङ्क.” (६।३।१७२) इत्यादिनामः परोऽण् स्यात्-१० यथा बैदमिति; अणि तु तदुभयमपि न भवति-यथौपगवाः, औपगवकमिति । तथा पुत्रशब्दादप्रत्ययान्तात्ततोऽप्यपत्यविवक्षायां "अत इन्” (६।१।३१) इतीभि "भिदार्षादणियोः" (६।१।१४०) इति तस्य लुपि पौत्र इति स्यात् । यथा बैदः पिता, बैदः पुत्रः । अणि तु "द्विस्वरादणः" (६।१।१०९) इत्यायनिम् स्यात् । यथा का यणिरिति । उच्यते । पुनर्वाद्यपत्यस्यागोत्रत्वाद्गोत्राधिकारविहिता लुप् सङ्घाद्यण च न भविष्यति । पौत्रशब्दाचावृद्धप्रत्ययान्तत्वादयणि च इब् आयनिञ् १५ च न भविष्यति इति विशेषाभाव एव । केचितु पुनर्व इति लुपमप्युदाहरन्ति । तेषां पुनर्भूरिति गोत्रं तत्रेहाप्यस्ति विशेष इति ।
अनादिशब्दानुसन्धानात् "परस्त्रियाः परशुश्वाऽसावण्ये" (६।१।४०)। परस्त्रीशब्दादनन्तरेऽपत्येऽञ् स्यात्, परशुभावश्चास्य, चेत्पुरुषेण सह तस्या वर्णो ब्राह्मणत्वादिः समानो न स्यात् । परा पुरुषाद्भिन्नवर्णा स्त्री परस्त्री । तस्या अनन्तरापत्यं पारशवः । असावये इति किम् ? परस्य २० स्त्री परस्त्री, तस्या अनन्तरापत्यं पारस्त्रैणेयः ॥ १२ ॥
बिदादेवृद्धे ॥ १३॥ [सि० ६११४१] अञ् । बहुत्वे चास्त्रियामस्य लुप् ॥१३॥
"बिदा." बहुत्वे चेत्यादि-अत्र सूत्रम्, “यत्रोऽश्यापर्णान्तगोपवनादेः” (६।१।१२६)। यअन्तस्याअन्तस्य च बहुत्वविशिष्टे गोत्रेऽर्थे वर्तमानस्य यौ यमनी तयोरस्त्रियां लुप् स्यात्, २५ गोपवनादिभ्यः श्यापर्णान्तेभ्यो विहितौ वर्जयित्वा । गोपवनादयोऽष्टौ श्यापर्णान्ता बिदादिषु पठ्यन्ते । तेभ्यो बहुत्वेऽपि प्रत्ययलुब् न भवतीत्यर्थः, गौपवनाः । केचित्तु मठर-राजम-अवतान-अश्वश्यामाकशब्दानपि गोपवनादिषु पठन्ति-माठरा इत्यादि । बैदस्य बैदयोपित्यानि बिदा इत्यत्र विधि लुप्ते अनन्तं बहुष्विति लुप् । बिदानामपत्यं बैदः बैदौ इत्यत्र विधि लुप्तेऽनन्तं न बहुष्विति न लुप् । इञ्प्रत्ययविषयेऽप्यत्रो लुग् न भवति-"न प्राजितीये.” ( ६।१।१३५) इति निषेधात् । बिदानामपत्यं बहवो माणवका बिदा इत्यत्र चाबन्तं बहुष्विति भवयेव । काश्यपप्रतिकृतयः काश्यपाः ३१
१ एषु "निर्वृत्ते" इत्यादिभिरिकण, अत्राशीतिशब्दो दिवसार्धमासमासादेः कालस्य सङ्ख्या ब्रूते इति काले वर्तमानला. दशीतिशब्दात् "कालात्परिजय्य"-इति कालाधिकारविहितस्तेन 'हस्ताद्यः' इति तृतीयान्ताधिकारे 'निर्वृत्त' इत्यादि सूत्रनित्ताधर्थ इकण् । २ वैयाकरण इत्यादिषु वोः स्थानिनोरिवर्णोवर्णयोईद्धिप्रसङ्गः।
है. प्रका० पूर्वा० ४३ Jain Education International For Personal & Private Use Only
www.jainelibrary.org