________________
३३६ महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुधन्विन् , माषशिरोविन् , शृङ्खलतोदिन् , खरनादिन् , प्राकारमर्दिन्, नगरमर्दिन् , इन्द्रशमन् , मद्रशर्मन्, अग्निशमन् , देवशर्मन् , (उपदश्च ?) उदन, उदनु, कुनामन्, सुनामन् , सुदामन्, शिरस् , लोमन् , एतौ तदन्तौ । हस्तिशिरसोऽपत्यं हास्तिशीर्षिः । औडुलौमिः (शारलोमिः ) इति बाह्वादयोऽष्टापञ्चाशत् । बहुवचनमाकृतिगणार्थम् । तेन सख्युरपत्यं साखिः । संवेशिनः सांवेशिः। ५उदकस्य औदङ्किः । औदालकिः । वाल्मीकिः । आरुणिः इत्यादि सिद्धम् । शिवादेश्व प्राक ये:कारान्ता बिदादयस्तेभ्य ऋष्यणं बाधित्वा उक्तार्थादन्यत्रानेनैवेव् । "बिदादेवृद्धे" (६।१।४१) ऽञ् वक्ष्यते । बिदस्यापत्यमनन्तरं बैदिः और्विः । एवं "गर्गादेर्य" (६।१।४२) गार्गिः वात्सिः । "कुादे यन्य" (६।११४७) कौञ्जिः । “अश्वादेः” ( ६।१।४९) आयनम् आश्विः आर्किः। "नडादिभ्य आयनण्” (६।११५३) नाडिः मौञ्जिः। अनकारान्तेभ्यस्त्वणेव । औपमन्यवः । जामदग्नः । १० सौमनसः । भास्मः । लैगवः । शारद्वतः ॥
इतः प्रभृति गोत्र इत्यधिकारात् गोत्रे सम्भवति ततोऽन्यत्र प्रतिषेधः । अत्र इत्यादिशब्दोपादानात् “वर्मणोऽचक्रात्" (६।१।३३)। चक्रशब्दवर्जितात्परो यो वर्मन्शब्दस्तदन्तादपत्येऽर्थे इब् स्यात् । इन्द्रवर्मणोऽपत्यं ऐन्द्रवर्मिः । अचक्रादिति किम् ? चाक्रवर्मणः ।
"अजादिभ्यो धेनोः" (६।१।३४ ) । अपत्ये इन् । आजधेनविः । बाष्कधेनविः । अजादयः १५ प्रयोगतोऽनुसतव्याः। "ब्राह्मणादा" (६।१।३५)। ब्राह्मणधेनविः, ब्राह्मणधेनवः । शालङ्कयौदिषाडिवाइवलि" (६।१।३७) । एतेऽपत्ये इअन्ता निपात्यन्ते । शलङ्कोरपत्यं शालङ्किः । उदकस्यौदिः । षण्णां पाडिः । वाचं वदति वाग्वादस्तस्थापत्यं वाड्वलिः-अत्र वाचोऽन्तस्य डत्वं वलभावश्चोत्तरपदस्य । एवं सर्वत्र निपातनादिष्टसिद्धिः । *कचिदित्यादि अत्र सूत्रम्-"भूयासम्भूयोऽ
म्भोऽमितौजसः सूलुक ” (६।१।३६) । एभ्यश्चतुर्योऽपत्ये इय् , सलोपश्चैषाम् । भूय२० सोऽपत्यं भौयिः । एवं साम्भूयिः । आम्भिः । आमितौजिः ॥ ९ ॥
व्यासवरुटसुधातृनिषादबिम्बचण्डालादन्तस्य
चाक् ॥१०॥ [सि० ६।११३८] एभ्योऽपत्ये इअन्तस्य चाक् ॥१०॥ "व्यास.” स्पष्टम् ॥ १० ॥ अनोपयोगिसूत्रम् । -
वः पदान्तात्प्रागैदौत् ॥ ११॥ [सि०७४।५] णिति तद्धिते परे यौ य्वौ पदान्तौ ताभ्यां प्रागैदौतौ स्थातामिति यकाराद्विश्लेषितस्य वकारस्यैकारागमः । वैयासकिः ॥११॥
"व" ब्णितीत्यादि । मिति णिति च तद्धिते परे इव!वर्णयोर्वृद्धिप्रसङ्गे तयोरेव स्थाने यौ यकारवकारौ पदान्तौ, ताभ्यां प्रागैदौतौ स्यातामिति यकारात्प्रागैकार आगमः, वकाराच्च औकार १.इति । यथा व्याकरणं वेत्त्यधीते वा वैयाकरणः । नैयायिकः । नैयासिकः । व्यसने भवं वैयसनम् । स्वागमं वेत्त्यधीते वा सौवागमिकः । स्वश्वस्यापत्यं सौवश्विः । पूर्वव्यलिन्दो नाम प्राग्ग्रामस्तत्र भवः पूर्वरैयलिन्दः । परत्वान्नित्यत्वाच्च वृद्धेः प्रागेव सर्वत्राने दौतौ । य्व इति किम् ? सौपर्णेयः । पदान्तादिति किम् ? यत इमे याताश्छात्राः । यत इतीणः शत्रन्तं रूपम् । वृद्धिप्राप्तापित्येव-दाध्यश्विः । माध्वश्विः । अत्रेदुतोरनादित्वाद्वृद्धिप्राप्तिर्नास्ति । द्वाभ्यामशीतिभ्यां निवृत्तो द्वाभ्यामशीतिभ्यामधीष्टो
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org