________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे तद्धिताः । अपत्यप्रत्ययाधिकारः
३३५
अनपत्येऽणि अन्त्यस्वरादेर्लुक् स्यात् । ब्रह्मण इदं ब्राह्ममस्त्रम् । ब्राह्मो मन्त्रः । योगविभाग उत्तरार्थः । " जातौ ” ( ७|४|५८ ) । ब्रह्मण इयं ब्राह्मी औषधिः । पूर्वेण सिद्धे अनपत्य एवेति नियमार्थं वचनम् । तेनोत्तरसूत्रेणापत्ये लुग् न भवति । ब्रह्मणोऽपत्यं ब्राह्मणः । जाताविति किम् ? ब्रह्मणोऽपत्यं ब्राह्मो नारदः । “अवर्मणो मनोऽपत्ये " ( ७|४|५९ ) । वर्मन् शब्दवर्जितस्य मन्नन्तस्यापत्यार्थेऽणि अन्त्यस्वरादेर्लुक् स्यात् । सुषान्नोऽपत्यं सौषामः । माद्रसामः । अवर्मण इति किम् १५ चाक्रवर्मणः । न इति किम् ? सौत्वनः । अपत्य इति किम् ? चर्मणा छन्नः चार्मणो रथः । "तेन छन्ने रथे” ( ६।२।१३१ ) इत्यण् । “हितनाम्नो वा" ( ७|४|६०) । अपत्येऽणि अन्त्य - स्वरादेर्लुक् वा भवति । हितनान्नोऽपत्यं दैतनामः, हैतनामनः । अपत्य इत्येव - हैतनामनः । लुकू" इत्यत आरभ्य सर्वेऽणीत्यस्यापवादाः ॥ ७ ॥
“उक्षणो
इञ् ॥ ८॥ [ सि० ६।१।३१ ]
अदन्तात्षष्ठयन्तादपत्ये इन् स्यात् । ञकारो वृद्ध्यर्थः । " अवर्णवर्णस्य " ( ७।४।६८) इत्लुकि दक्षिः ॥ ८ ॥
"अत०" । दाक्षिरिति- अणोऽपवादः । एवं अस्यापत्यं इः । अत इति किम् ? शुभं यातीति, कीलालं पिवतीति, शुभंयुः कीलालपाः । तस्यापत्यं शौभंयः कैलालपः । केचित्तु अभ्यामणमपि नेच्छन्ति । कथं, “प्रदीयतां दाशरथाय मैथिली ?” “तस्येदम् ” ( ६।३।१६० ) इति विवक्षायामण् । १५ अपत्यविवक्षायां तु दाशरथिरित्येव भवति । अथ काकबकशुकादेः कस्मादिन् न स्यात् ? उच्यतेजात्यैवापत्यार्थस्य पौत्रादेरनन्तरस्य चाभिहितत्वात् । यत्र त्वर्थप्रकरणादेर्विशेषप्रतीतिरस्ति, तत्र भवत्येव"कुतञ्चरति मायूरिः केन कौपिञ्जलिः कृशः " । एतेन काक्यादिभ्य एयणादयोऽपि व्याख्याताः । कथं तर्हि क्रौञ्चः कौकिलः गौधेरः चाटकैर इति ? जातिशब्दा एवैते यथाकथविव्युत्पाद्यन्ते । यथा क्षत्रं क्षत्रियः राजा राजन्यः मनुः मनुष्यः मानुष इति । अनभिधानाच्च शतसर्ववृद्धकारकराजपुरुष - २० माथुरकुररादिभ्यो न भवति ॥ ८ ॥
बाह्रादिभ्यो गोत्रे ॥ ९ ॥ [ सि० ६।१।३२ ]
स्वापत्यसन्तानस्य स्वव्यपदेशहेतुर्य आद्यपुरुषस्तदपत्यं गोत्रम् । बाह्वादिभ्यो गोत्रे इ स्यात् । बाह्रविः । *कचिदिनि स्लुक । भूयसामपत्यं भौयिः आम्भिः ॥ ९ ॥
1
“बाह्वा०” आद्यपुरुष इति । ऋषिरनृषि वेति शेषः । गोत्र इति गोत्रापत्येऽर्थे इत्यर्थः । अन- २५ कारान्तार्थो बाधकबाधनार्थश्वारम्भः । बाहोरपत्यं बाहविः । एवं औपवाकविः । नैवाकविः औदनिः । होदचितिपैलादिषु चोदनीति सनकारस्य पाठादनर्चायामपि नलोपाभावः । गोत्र इति किम् ? यो - धत्वे बाहुर्नाम तस्यापत्यं बाहवः । सम्भवापेक्षं च गोत्रग्रहणम्, तेन पञ्चानामपत्यं पाञ्चिः साप्तिः आष्टिः इत्यादि । बाहु, उपवाकु, निवाकु, वटाकु, चटाकु, उपबिन्दु, चाटाकु, कला, कृकला, चूडा, बलाका, जङ्घा, छगला, भगला, लगहा, ध्रुवका, धुवका, मूषिका, सुमित्रा, दुर्मिंत्रा | ३० ब्रुकलादिभ्यो यथासम्भवमेयणो मानुषीनामलक्षणस्य चाणोऽपवादोऽयमिन् । युधिष्ठिर, अर्जुन, राम, सङ्कर्षण, कृष्ण, गद, प्रद्युम्न, सा ( शा ? ) म्ब, सत्यक, शूर, असुर, अजीगर्त, मध्यन्दिन, एषु ऋध्याद्यणोऽपवादः । सुधावत्, स्वधावत्, पुष्करसद्, अनुहरत्, अनडुहू, पञ्चन्, सप्तन्, अष्टन्, क्षेम - ३३
१ व्यक्तिवाचिनतु ब्रह्मणोऽपत्ये ब्राह्म इति भवत्युत्तरेण लोपात् । सूत्राकरणे तु ब्राह्मण इति स्यात् ।
Jain Education International
१०
For Personal & Private Use Only
www.jainelibrary.org