________________
३३४
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघु
1
त्राणोकारो न तु तदभिधेया स्त्री प्रत्ययाह । यदभिधेया तु कन्यालक्षणा स्त्री प्रत्ययाह न तस्याकारोऽस्तीति । तथा बहुकुम्भकारा नगरी बहुकुरुचरा इत्यादि । मैधाव इति - मेधाविनोऽपत्यं मैधावः । एवं मायावः । औडुलोमिः । शारलोमिः । आमिशर्मिंः । द्वयोरहोः समाहारो व्यहः । हस्तिनां समूहो हास्तिकम् । अपदस्येत्येव । मेधाविरूप्यम् । मेधाविमयम् ।
1
अत्र इत्यादिशब्दानुवृत्तेः “कलापिकुथुमितैतलिजाजलिलाङ्गलिशिखण्डिशिलालिसब्रह्मचारिपीठसपिसूकरसद्मसुपर्वणः " ( ७|४|६२) । एषामेकादशानां तद्धितेऽन्त्यस्वरादेर्लुक् स्यात् । अत्र ये इन्नन्तास्तेषामनपत्य इति शिखण्डिपीठस पिंणोरपत्येऽपि "संयोगादिनः " ( 1 ४।५३ ) इति, सूकरसद्मसुपर्वणोस्तु " आणि " ( ७|४|५२ ) इति निषेधे प्राप्ते लुग्वचनम् । कलापिना प्रोक्तम् वेदमधीयत इति कालापाः । कौथुमाः । तैतली जाजली लाङ्गली चाचार्याः । तत्कृतो ग्रन्थोऽ१० प्युपचारात्तच्छब्देनोच्यते । तमधीयते तैतलाः । जाजलाः । लाङ्गलाः । शिखण्डिन इमेऽपत्यानि वा शैखण्डाः । शिलालिनः शैलालाः । सब्रह्मचारिणः साब्रह्मचाराः । पीठसर्पिण: पैठसर्पाः । सूकरसद्मनः सौकरसद्माः । सुपर्वणः सौपर्वाः ॥ ६ ॥ अत्रापवादमाह ।
५
अणि ॥ ७ ॥ [ सि० ७|४|५२ ] अन्नन्तस्याण्यन्त्यस्वरादेर्लुग् न स्यात् । सौत्वनः ॥ ७ ॥
१५
1
1
"अणि ०" सौत्वन इति - सुत्वनोऽपत्यं सौत्वनः । एवं याज्वनः । साम देवताऽस्य सामनः । वैमनः । सन्दिष्टं कर्म कार्मणम् । पर्वणि भवः पार्वणः । अणीति किम् ? कर्म शीलमस्य कार्मः । " अस्थाछत्रादेरन्” (६।४।६०) । कर्मणे शक्तं कार्मुकम् । “योगकर्मभ्यां योकनौ” ( ६।४।९५ ) इत्युकम् । इत्यादिशब्दोपादानाच "दण्डिहस्तिनोरायने" ( ७|४|४५ ) । अन्त्यस्वरादेर्लुक् न स्यात् । "नोऽपदस्य ० " ( ७|४|६१ ) इति प्राप्तौ प्रतिषेधः । दण्डिनोऽपत्यं दाण्डिनायनः । हास्तिनायनः । २० नडाद्या (६।१।५३) यनण् । आयन इति किम् ? दण्डिनां समूहो दाण्डम् । हास्तिकम् । “वाशिन आयनौ" ( ७|४|४६ ) । वाशिनोऽपत्यं वाशिनायनिः । " अवृद्धाद्दोर्नवा ” ( ६ | १|११० ) इत्यायनिन् । " एये जिह्माशिनः " ( ७|४|४७ ) । जिह्माशिनोऽपत्यं जैह्माशिनेयः । शुभ्रादित्वात् ( ६।१।७३ ) एयण् । “इकण्यथर्वणः " ( ७|४|४९ ) । अथर्वाणं वेत्यधीते व आथर्वणिकः । न्यायादित्वादिकण् । “यूनोऽके” ( ७|४|५० ) । यूनो भावः यौवनका । चौरादित्वात् (७।१।७३) २५ अकञ् । अक इति किम् ? युवा प्रयोजनमस्य यौविकम् । “संयोगादिनः " ( ७|४|५३ ) । संयोगात्परो य इन् तदन्तस्याणि परेऽन्त्यस्वरादेर्लुग् न स्यात् । शङ्खिनोऽपत्यं शाङ्खिनः । चाक्रिणः । वाज्रिणः । स्राग्विणः । माद्रिणः । भाद्रिणः । संयोगादिति किम् ? मैधावः । अणीत्येव - प्राकारमर्दिनोऽपत्यं प्राकारमर्द्दिः बाह्वादित्वात् (६।१।३२) अकन् । “अनपत्ये" इत्युत्तरेण सिद्धत्वादपत्यार्थोऽयमारम्भः । "गाथिविदथिकेशिपणिगणिनः” ( ७|४|५४ ) । तथा । गाथिनोऽपत्यं गाथिनः । वैदथिनः । ३० कैशिनः । पाणिनः । गाणिनः । " अनपत्ये” ( ७|४|५५ ) । इन्नन्तस्यापत्यं विनान्यस्मिन्नर्थे योऽणू तस्मिन् परेऽन्त्यस्वादेर्लुक् न स्यात् । साङ्कटिनं वर्त्तते साङ्कौटिनम् । सांराविणम् । सांमार्जिनम् । गर्भिणी समूहो गार्भिणम् भिक्षादित्वात् (६।२।१० ) अण् । गुणिन इदं गौणिनम् । स्रग्विण इदं स्राग्विणम् । अपत्य इति किम् ? मैधावः । अणीत्येव । गर्भिणां समूहो गार्भम् । दण्डिनां दाण्डम् । चक्रिणां चाक्रम् । "श्वादिभ्योऽन् ” ( ६।२।२६ ) इत्यन् । “उक्ष्णो लुक्” ( ७|४|५६ ) । अनपत्येऽि ३५ परे । उक्ष्ण इदं औक्षं पदम् । अनपत्ये इत्येव । ऊक्ष्णोऽपत्यमौक्ष्णः । " ब्रह्मणः” ( ७|४|५७ ) ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org