________________
प्रक्रियावृत्तिरूपे श्रीमप्रकाशे तद्धिताः । अपत्यप्रत्ययाधिकारः
३३३
न्तेन समासः । एबमायथापुर्यमयाथापुर्यम् । यथा चतुर्यमचातुर्यमिति । यथातथा यथापुरा इत्यखण्डमव्ययं वा " नाम नाम्ना० ” ( ३।१।१६ ) इति वा समासो “यथाऽथा ” ( ३|१|४१ ) इत्यव्ययीभावो वा अकारान्तः । " जङ्गलधेनुवलजस्योत्तरपदस्य तु वा ” ( ७|४|२४ ) । एतदुतरपदानां शब्दानां पूर्वपदस्य णिति तद्धिते आदिस्वरस्य नित्यं वृद्धिः स्यादुत्तरपदस्य त्वादिस्वरस्य बृद्धिर्वा स्यात् । कुरुजङ्गलेषु भवः कौरजङ्गलः, कौरुजाङ्गलः । वैश्ववेनवः, 'वैश्वधैनवः । सौवर्णवलज:, ५ सौवर्णवालजः । “सारवैक्ष्वाकमैत्रेयभ्रौणहत्यचैवत्यहिरण्मयम्” ( ७|४|३० ) । एतेऽणादिप्रत्ययान्ता निपात्यन्ते । सरय्वां भवं सारवमुदकम् । सरयूशब्दस्याण्प्रत्ययेऽयित्यस्य लोपः । इक्ष्वाकोरपत्यमैक्ष्वाकः राष्ट्रक्षत्रिया ( ६ । १ । ११४ ) दिनाम् इक्ष्वाकोरिदं ऐक्ष्वाकम् । इक्ष्वाकुशब्दस्य अनि अणि च उकारलोपः । मित्रयोरपत्यं मैत्रेय: - मित्रयुशब्दस्य गृष्ट्यादित्वात् ( ६।१।८४ ) एयञ युलोपः । भ्रूणनो भावः कर्म वा भ्रौणहत्यम् । धीनो भावः कर्म वा धैवत्यम् । अत्र व्यणि नकारस्य १० कारः । हिरण्यस्य विकारो हिरण्यमयम् । अत्र मयटि यशब्दलोपः । *औपगव इति एवं कापटवः । बाभ्रव्यः । माण्डव्यः । शाङ्कं व्यन्दारुपिचव्यः कर्पासः । बाहविः । औपविन्दविः । अपदस्येति किम् ? पटुतरः । इति वृद्धिप्रकरणम् ॥ ४ ॥ अथ कार्यशेषमाह ।
1
अस्वयम्भुवोऽ ॥ ५ ॥ [ सि० ७४७० ]
स्वयम्भूवर्जोवर्णस्यापदस्य तद्धिते परेऽव् स्यात् । औपगवः । अस्वयम्भुव इति किम् ११५
स्वायम्भुवः ॥ ५ ॥
"अस्वयं ०" । सूत्रं स्पष्टम् ॥ ५ ॥
अणञयेकण्नञ्नटिताम् ॥ ६ ॥ [ सि० २४ २०]
एतदन्तानां स्त्रियां ङीः स्यात् । औपगवी । “नोऽपदस्य तद्धिते" (७।४।६१) इत्यन्त्यस्वरादिलुकि, मैधावः ॥ ६ ॥
२०
“अण्०” अणू च अन् च एयश्च इकण् च नञ् च नन् च टित् च तेषाम्, एतदन्तानामिति - अणादिप्रत्ययानां योऽकारस्तदन्तान्नाम्नः प्रत्यासत्तेस्तेषामेव चाणादीनां वाच्यायां स्त्रियां वर्त्तमानाद् ङीः स्यात् । औपगवीति - एवं तपोऽस्या अस्तीति तापसी । कुम्भकारी । काण्डलावी याति "कर्म
S” (५/१/७२ ) इति क्रियायां क्रियार्थायामणू । अञ् - उत्सस्यापत्यं औत्सी । बिदस्यापत्यं पौत्री बैदी । एय इति निरनुबन्धनिर्देशः सामान्यग्रहणार्थस्तेन एयण - एयच् - एयनां ग्रहणम् । २५ एयण - सुपर्ण्य अपत्यं सौपर्णेयी । वैनतेयी । एयच्-, शिलायास्तुल्या शिलेयी । एयन् शैलेयी । “ शिलाया एयच्च ” ( ७|१|११३ ) इति । इकणू - अक्षैर्दीव्यति आक्षिकी । प्रस्थेन कृता प्रास्थिकी ॥ नञ्-बैणी ॥ नञ्- पौंस्नी ॥ टित्-जानुदनी । जानुद्वयसी । पचतयी । द्वयी । त्रयी । प्रत्ययसाहचर्यादागमटितो न भवति, पठिता विद्या, । शुनीन्धयीत्यादौ तु धातोष्टित्करणस्यानन्यार्थत्वादट्टितोऽपि भवति । अणादीनां षष्ठीनिर्देशेनाकारस्य विशेषणं किम् ? पाणिनिना प्रोक्तं पाणिनीयम् । " तदधीते” ३० इत्यण् । तस्य " प्रोक्तात्” (६।२।१२९) इति लोपे पाणिनीया कन्येति ङीर्यथा मा भूत् । प्रत्यासत्त्या तैरेवाणादिभिः स्त्रिया विशेषणं किम् ? गौतमेन प्रोक्ता नीतिगतमी । तामधीते इत्यण् । तस्य प्रोक्ता - दिति लोपे “ङयादेः०” ( २।४।९५ ) इत्यादिना ङीलोपे ङीर्यथा न स्यात् । गौतमा कन्या । अस्त्य - ३३
१ अत्र 'उत्सादेरम्' शेषेषु 'भवे' अण् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org